________________
टिप्पनक-परीणविकृतिसंचलिता टितस्थूलबाहुशिखरम् [म], बामेन सविलासभुजगतागतद्राषितया तत्क्षणोदितेन्दुलेखाकारया नखमणिप्रभयां विराजितेन दक्षिणेन चादिदेवप्रणामसमयसस्तस्य कुसुमापीउस्य निबिडनाय तिर्यगुनमितेन पाणिना बन्धुजीवकचापधारिणः प्रारब्धपृष्टतूणीरशराकर्षणस्य कुसुमधनुषः स्थानकमङ्गीकुर्वाणम् [य], अभिनवजपाकुसुमकान्तिहारिणो हारनायकमणेरुन्मुखीभिर्मयूखलेखाभिस्तत्कालसंगलितमपरागमपनेतुमारोपिताभिः शिखिशिखाघलीभिरिव कपिशिताग्निशौचसियोत्तरासङ्गम् [२], अन्तकालनिद्रोदयादीपग्निमिषितस्य दूरविस्तारिणो भयनयुगलस्योन्मेषलीलासु विसर्पता क्षीरधवलेन प्रभाप्रवाहेण मथनारम्भरभसपीतमेकहेलया सकलमिव क्षीरसागरमुद्दिन्तम् [ल], आयतरक्तनालेन सततविकासिना नाकमन्दाकिनीनीलोत्पलेन सहस्रलोचनात् प्रसाद
टिप्पनकम्-द्राघितया दीर्घाकृतथा [य]। संगलितं -न मिलितम् , अपरागं मालिन्यम् [२]।
पुनः कीदृशम् ? कुसुमधनुषः कुसुममेव धनुर्यस्य तादृशस्य, कामदेवस्येत्यर्थः, स्थानकं स्थानम् , तदीयशोभामित्यर्थः, अङ्गीकुर्वाणं स्वीकुर्वाणम् , धारयन्तमित्यर्थः, कीदृशस्य तस्य ? बन्धूजीवकचापधारिणः बन्धूजीवकसंज्ञकपुष्पविशेषरूपधनुर्धारिणः, पुनः प्रारब्धपृष्ठतूणीरशराकर्षणस्य पृष्ठे-पृष्ठभागे, लम्बमानं यत् तूणीरं-बाणाधारपात्रम्, ततः शराकषण बाणाकर्षणम् , प्रारब्ध-प्रवर्तितं येन तादृशस्य, केन वस्तुना तदीयशोभानुकरणम् ? सविलासभुजगलागतद्राघितया सबिलास-विलाससहितं यथा स्यात् तथा, भुजगतागताभ्या-बाहृत्क्षेपणापक्षेपणाभ्याम् ,द्राघितया-दीघतामापादिततया. तत्क्षणो. वितेन्दुलेखाकारया तत्क्षणे-तस्मिन्नेव क्षणे, उदिता-प्राप्तोदया, या इन्दुलेखा-रेखाकारचन्द्रः, तत्सदृश्या, नखमणिप्रभया नखरूपमणिदीया, विराजितेन वामेन, आदिदेषप्रणामसमयस्रस्तस्य आदिनाथनमस्कारकाले मस्तकस्खलितस्य, कुसुमापीडस्य पुष्पशिरोमाल्यस्य, “शिखाखापीडशेखरौ" इत्यमरः, निबिडनाय नियन्त्रणाय, तिर्यक् कुटिलं यथा स्यात् तथा, उन्नमितेन उद्यतेन; दक्षिणेन च पाणिना हस्तेन । कामस्य वामहस्ते यः कुसुमचापस्तत्स्थानीया तस्य वामहस्ते मखप्रभा, यच्च दक्षिणहस्तेन तूणीरतः शराकर्षणं तत्स्थानीयं तस्य दक्षिणहस्तेन कुसुममाख्याकर्षणमित्यूहनीयम् [य]। पुमः कीदृशम् ? उन्मुखीभिः ऊर्ध्वमुखीभिः, मयूखलेखाभिः रश्मिपतिभिः, कपिशिताग्निशौचसिचयोत्सरासङ्गं कपिशितः-कपिवत् कृष्णपीतवर्णमापादितः, अग्निशौचः-अग्निना प्रक्षालनीयो यः, सिचयः-पटः, स एवोत्तरासङ्गः-उत्तरीयवस्त्र यस्य तादृशम् , "द्वौ प्रावारोत्तरासो” इत्यमरः, कस्य ताभिः ? हारनायकमणेः हारे, नायकस्य-प्रधानस्य, मणेः, कीदृशस्य तस्य ? अभिनवजपाकुसुमकान्तिहारिणः अभिनवानि-तत्क्षणविकसितानि, यानि जपाकुसुमानि-जपासंज्ञकरचपुष्पाणि, तेषां कान्तिहारिणः-कान्तिहरणशीलस्य, काभिरिव ताभिः? तत्कालसंगलितं तत्समयेऽमिलितम् , 'तत्कालसंकलितम्' इतिपाठे तत्क्षणप्राप्तम् , अपरागं रक्तताविरुद्धं श्यामलत्वम् , अपनेतुं परिहर्तुम् , आरोपिताभिः स्थापिताभिः, शिखिशिखावलीभिरिव शिखिनः-बद्धेः, या शिखा-ज्वाला तस्या आवलीभिः-श्रेणीभिरिवेत्युत्प्रेक्षा [र] | पुन
पुनः कीदृशम् ? अन्तकालनिद्रोदयात् अन्तकाले-दिव्यदेहावसानसमये, निद्रोदयात्-देवानामपि किञ्चिन्निद्रोद्भवात् , ईषन्निमिषितस्य किञ्चिनिमीलितस्य, दूरविस्तारिणः अतिदीर्घस्य, नयनयुगलस्य, उन्मेषलीलासु उन्मीलनक्रीडामु, विसर्पता परितः प्रसरता, क्षीरधवलेन दुग्धवत् स्फीतेन, प्रभाप्रवाहेण प्रभानिझरेण, ज्ञापकेन, मथनारम्भरभसपीतं मथनारम्भेक्षीरसागरविलोडनारम्भे, रभसेन-त्वरया, मथनारम्भरसपीतम्' इति पाठे तु रसेन-तृष्णया, पीतं-पानकीकृतम् , सकलं समग्रम् , क्षीरसागरं दुग्धसिन्धुम् , एकहेलया एकेनैव क्लिासेन, युगपदेवेत्यर्थः, उद्गिरन्तमिघ उद्वमन्तमिवेत्युत्प्रेक्षा
ल] पुनः कीदृशम् ? नाकमन्दाकिनीनीलोत्पलेन खर्गङ्गासम्बन्धिनीलकमलेन, चुम्बितकश्रवणपाये चुम्बितसंस्पृष्टम् , एक-दक्षिणम् , श्रवणपार्श्व-श्रोत्रान्तिकप्रदेशो यस्य तादृशम् , कीदृशेन तेन ? आयतरक्कनालेन आयत-दीर्घम् , रक-रक्तवर्ण च, नाल-मृणालं यस्य तादृशेन, पुनः सततविकासिना सततम्-अहर्निशम् , चन्द्रोदयेऽपीत्यर्थः, विकासिनाविकसनशीलेन, केनेव ? सहस्रलोचनात सहस्रसंख्यकलोचनविशिष्टात् इन्द्रात् , तत्सकाशादित्यर्थः, प्रसादलब्धेन