________________
तिलकमञ्जरी। मालामण्डलेन समन्तादाच्छादितनितम्बभागम् [प], अभिनवकल्पपादपप्रवालंविरचितपरिधानम् , साक्षाद्धृतकिरातवेषमिव विषमलोचनम् [क], उन्निद्रकाञ्चनारविन्दचारणा विमलकान्तिसलिलपरिपूतेन मानसेनेव मजनक्रीडापरम्परोपजातपरिचयागतेनावर्तिना नाभिमण्डलेनालङ्कृतप्रतनुमध्यभागम् [व], प्रियापयोधरपरिरम्भशंसिभिः पृथुलपरिमण्डलैर्दिव्यचन्दनरसस्तंबकैः स्वर्गच्यवनकालसुलभो । हृदयदवथुरितरसुरमिवैनमपि मा पीडयेदिति बुद्ध्या समागतैरखिलपौर्णिमासीशशिमण्डलैरिवाधिष्ठितवक्षस्थलाभोगम् [भ], अतिबहलकेयूरपद्मरागप्रभाभारभरितोदरेण गम्भीरेणापि मांसपरिपूतेनेव चिरप्ररूढेनाप्याट्टैणेव महासुरशस्त्रप्रहारनिवहेन स्थपु
टिप्पनकम् --विषमलोचनं शङ्करम् [फ] । मानसेनेव नाभिमण्डलेन कीदृशेन द्वयेन ? उन्निन्द्रकाञ्चनारविन्दचारुणा विकसितसौवर्णपद्मवत् तैश्च रम्येण, विमलकान्तिसलिलपूरितेन निर्मला कान्तिरेव सलिलम् , विमलकान्ति यजलं च तेन भरितेन, आवर्तिना आवर्तयुक्तेन भ्रमवता च [ब] ।
खाना-रश्मीनाम् , मालामण्डलेन मण्डलाकारसमूहेन, समन्तात् सर्वतः, आच्छादितनितम्बभागम् आच्छादितः-व्याप्तः, नितम्बभागः-कटि प्रदेशो यस्य तादृशम् , कीदृशेन तेन ? आनीलपाटलेन आ समन्तात् नीलरक्तोभयवर्णविशिष्टेन, पुनः अधोमुखेन अधोदेशाभिमुखेन, प्रेहता प्रसरता [प]। पुनः कीदृशम् ? अभिनवकल्पपादपप्रवालविरचितपरिधानम् अभिनवैः-नवीनैः, अचिरप्रसूतैरिति सावत् , कल्पपादपप्रवाल:-कल्पाख्यदेववृक्षपत्रैः, विरचितं कल्पितम् , परिधाननाभ्यधस्तनवस्त्रं येन तादृशम् , अतः धृतकिरातवेषं तपसोपार्जितस्यार्जुनपराक्रमस्य परीक्षणाय तेन योद्धं कल्पितभिल्लचेषम्, साक्षात् , विषमलोचनं शिवमिवेत्युत्प्रेक्षा [क]। पुनः नाभिमण्डलेन मण्डलाकारनाभिप्रदेशेन, अलकृतप्रतनुमध्यभागम् अलङ्कतः-शोभितः, प्रतनुः-परमसूक्ष्मः, मध्यभागः-शरीरमध्यप्रदेशो यस्य तादृशम् , केनेव ? मजनक्रीडा. परम्परोपजातपरिचयागतेन मज्जनक्रीडापरम्परया-सानक्रीडासन्तत्या, उपजातेन परिचयेन-चिरपरिचयोपचितप्रेम्णा. आगतेन-अनुधावितेन, मानसेन मानसाख्यदिव्यसरोवरेणेवेत्युत्प्रेक्षा, कीदृशेन ? मानसेन ? उन्निद्रकाञ्चनारविन्द. चारुणा उन्निद्राणि-विकसितानि, यानि काञ्चनारविन्दानि-सुवर्णकमलानि, तैः, चारुणा-सुन्दरेण,पक्षे तादृशारविन्दवत् सुन्दरेण, पुनः विमलकान्तिसलिलपरिपूरितेन विमला-खच्छा, कान्तिः-छविर्येषां तादृशैः, सलिलैः-जलैः, परिपूरितेन--समन्तात् पूर्णेन, पक्षे खच्छकान्तिरूपसलिलपूर्णेन, पुनः आवर्तिना आवर्तः-जलभ्रमिः, पक्षे चकाकाररेखा, तद्वता [ब ] 1 पुनः कीदृशम् दिव्यचन्दनरसस्तबकैः दिव्यस्य-देवोपभोग्यस्य, चन्दनरसस्य-चन्दनपङ्कस्य, यत् स्तबकं-पिण ष्ठितवक्षस्थलाभोगम् अधिष्ठितः-व्याप्तः, वक्षस्थलाभोगः-वक्षस्थलविस्तारो यस्य तादृशम् , कीदृशैस्तैः ? प्रियापयोधरपरिरम्भशंसिभिः प्रियायाः कान्तायाः, पयोधरयोः-स्तनयोर्यः, परिरम्भः-सम्पर्कः, आलिङ्गनमिति यावत् , तच्छंसिभिः-तद्वयकैः, कथमित्यत आह-पृथुलपरिमण्डलैः यतः पृथुलं-विशालम् , परिमण्डलं-वर्तुलाकारत्वं येषां तैः, कैरिव तैः१ अखिलपौर्णमासीशशिमण्डलैरिव अखिल-समग्रम् , यत् पौर्णमास्याः, शशिमण्डलं-चन्द्रमण्डलम् , तैरिवेत्युत्प्रेक्षा, कीदृशैस्तैः ? इतरसुरमिव अन्यदेवमिव, एनमपि प्रस्तुतदेवमपि, स्वर्गच्यवनकालसुलभः मासषङ्क प्रागेव समेषामपि देवानां स्वर्गच्युतिप्रतिभानात् तत्समयेऽवश्यम्भावी, हृदयदवथः दिव्यभोगत्यागजन्यहृदयपरितापः,मा पीडयेत न व्यथयेत. इति बुद्धया तदन्तस्तापोपशमनधिया, समागतैः खयमुपागतैरिवेत्युत्प्रेक्षा [भ] । पुनः कीदृशम् ? महाऽसुरशस्त्रमहारनिवहेन महाऽसुराणां-दुर्दमराक्षसानाम् , शस्त्रैर्ये प्रहारा:-आघाताः, तन्निवहेन-तत्समूहेन स्थपुटितस्थूलबाहुशिखरं स्थपुटिते-निम्नोन्नते, स्थूले च, बाहुशिखरे-बाहूभागौ यस्य तादृशम् , कीदृशेन तेन ? अतिमहलकेयरपरागप्रभाभारभरितोदरेण अतिबहलैः-अतिप्रचुरैः, केयूरपद्मरागप्रभाभारैः-केयूरी-बाहुभूषणे, तयोः-तत्सम्बद्धा इत्यर्थः, ये पद्मरागाः-रक्तमणिविशेषाः, तेषां प्रभाभारैः-प्रभापुढेः, भरितं-पूर्णम्, उदरं-मध्यं यस्य तादृशेन, अतः गम्भीरेणापि प्रहारवशेन निन्नेनापि, मांसपूरितेनेच मांससमवर्गप्रभायुञ्जपूर्णतया समुपचितमांसकृतपूर्तिकेनेवेत्युत्प्रेक्षा, अत एव चिरप्रस्देनापि चिरपूर्वकालोत्पनेनापि, अतिशुष्केणापीति यावत् , आद्रेणेव रक्तप्रभापूर्णतया सद्यःसंजातेनेवेत्युत्प्रेक्षा [म]।