________________
टिप्पनक परागविवृतिसंवलिता
त्वचामङ्गानामनलस्फुलिङ्गपिङ्गलेन गलता समन्ततः प्रभाजालेन ज्वलदनेकदीपिका चक्रवालमिव मण्डपान्तराल कुर्वाणम्, अन्तरिक्षगतमप्यति बहलतया चरणतलप्रभायाः स्पृष्टभूतलमिवोपलक्ष्यमाणम् [थ], अकठोरविद्रुमकन्दलीसरलाभिरम्भोजदलभ्रमापतद्भूमरसम्भ्रमादिवान्योऽन्यलमाभिरमतः स्फुरदुन्मयूखनखलेखाभिरन्धकारदुरुपलक्ष्याध्व परिस्खलनशङ्कया पुरस्कृतशशिकलाभिरिवाङ्गुलीभिरुपेतेन गत्युत्कम्पगलितवैकक्षखग्दामरेणुनिश्चलनिलीनैरलिभिः पुनरागमनप्रार्थनापुरः सरमानतायास्त्रिदशलोकश्रियो वियोगानुभिरिव सकज्जलैः कल्माषितेन कल्पतरुपल्लवचारुणा' चरणद्वयेन द्योतमानम् [द], अमृतोऽग्रतः लक्ष्णपरिमण्डलजङ्घाकाण्डेनैर। वतकरभिवान्तिके विधाय वेधसा निर्मितेन मूले मूले स्थूलेन भ्राजमानम् [ध], ऊरुस्तम्भयुगलेन निवसितातिसूक्ष्मदेवाङ्गवसनम् [न], आनीलपाटलेन पद्मरागेन्द्रनीलखण्डखचितस्य मेखलादान: प्रेङ्खताऽधोमुखेन मयूख
२०४
त्प्रेक्षा । अङ्गानां शरीरावयवसम्बन्धिना, समन्ततः परितः, गलता प्रसरता, स्फुरतेत्यर्थः, अनलस्फुलिङ्गपिङ्गलेन अनलस्य - अभेः, यः स्फुलिङ्गः कणः, तद्वत् पिङ्गलेन-पिशङ्गवर्णेन, प्रभाजालेन कान्तिपुञ्जेन, मण्डपान्तरालं शक्रावतारतीर्थमण्डप मध्यभागम्, ज्वलद ने कदीपिकाचक्रवालमिव ज्वलद् - दीप्यमानम्, अनेकदीपिकानां चक्रवालं - मण्डलं यस्मिन् तादृशम्, कुर्वाणं रचयन्तम् । पुनः अन्तरिक्षगतमपि नभोमण्डलस्थितमपि, चरणतलप्रभायाः स्वचरणतलवीतेः, अतिबलतया अतिशय बाहुल्येन स्पृष्टभूतलमिव स्पृष्टं संसृष्टम्, भूतलं - पृथ्वीतलं येन तादृशमिव उपलक्ष्यमाणं oth: प्रतीयमानम् [r] । पुनः कीदृशममुम् ? चरणद्वयेन पादयुगेन, द्योतमानम् उद्भासमानम् कीदृशेन तेन ! कल्पतरुपल्लचचारुणा कल्पतरो :- कल्पाख्यदेववृक्षस्य यः पल्लवः - नवपत्रम्, तद्वच्चारुणा-सुन्दरेण । पुनः कीदृशेन ? अनुलीभिः उपेतेन अन्वितेन, कथम्भूताभिस्ताभिः ? अकठोर विद्रुमकन्दली सरलाभिः अकठोरा - कोमला, या विद्रुमकन्दली - प्रवालगुल्मविशेषः, तद्वत् सरलाभिः - ऋज्वीभिः । पुनः अन्योऽन्यसंलग्नाभिः परस्परसंश्लिष्टाभिः, कस्मादिव ? भम्भोजदलभ्रमापतन्मर सम्भ्रमादिव अम्भोजदलभ्रमेण - रक्तकमलपत्रभ्रान्त्या, आपतन्तः - आक्रामन्तः, ये भ्रमराः तेभ्यः-तज्जन्यादित्यर्थः, सम्भ्रमात् - भयजन्यत्वरावशादिवेत्युत्प्रेक्षा । पुनः स्फुरदुम्मयूखनखलेखाभिः स्फुरन्ती - स्फुटन्ती, उन्मयूखा- उद् उच्छलन्तो मयूखा रश्मयो यस्यास्तादृशी च, नखलेखा-नखपङ्किर्यासां तादृशीभिः, अत एव अन्धकार दुरुपलक्ष्याध्वपरिस्खलनशङ्कया अन्धकारेण - रात्रिध्वान्तेन, दुरुपलक्ष्य:- दुःखेनोपलक्षयितुं प्रत्येतुं शक्यः, योऽध्वामार्गः, तत्र परिस्खलनशङ्कया- विचलनसंशयेन, पुरस्कृतशशिकलाभिः पुरस्कृता - मार्गोद्भासनार्थमग्रतः कृता, शशिकलाचन्द्रकला याभिस्तादृशीभिरिवेत्युत्प्रेक्षा । पुनः कीदृशेन चरणद्वयेन ! अलिभिः भ्रमरैः, कल्माषितेन स्वकृष्णवर्णमिश्रणचित्रीकृतेन, कीदृशैस्तैः ? गत्युत्कम्पगलितवैकक्षस्रग्दामरेणुनिश्चलनिलीनैः गत्या - गमनेन, य उत्कम्पः- उद्वेलनम् तेन हेतुना, गलितं - पादयोः स्खलितम्, यद् वैकक्षकं - वक्षःस्थले तिर्यग्धृतम्, सग्दाम - कुसुमहारयष्टिः, तत्र, निश्चलं निःस्पन्दं यथा स्यात्तथा, निलीनैः-संश्लिष्टैः, “वैकक्षकं तु तत् यत् तिर्यक् क्षिप्तमुरसि" इत्यमरः, अत एव पुनरागमनप्रार्थनापुरस्सरं वर्गप्रत्यागमनानुनयपूर्वकम्, आनतायाः पादयोः पतितायाः, त्रिदशलोकश्रियः स्वर्लोकलक्ष्म्याः, सकज्जलैः कज्जल- मिश्रितैः वियोगाश्रुभिः विरहवेदनागलितनयनवारिभिरिवेत्युत्प्रेक्षा [द] । पुनः कीदृशम् ? अग्रतोऽग्रतः अग्रेऽग्रे भागे, परिमण्डलजङ्घाकाण्डेन ऋक्ष्णं-कोमलम्, परिमण्डलं- वर्तुलम्, यज्जङ्गाकाण्ड - गुरुफ जानुमध्यवर्त्यवयवरूपदण्डः; तेन, भ्राजमानं दीप्यमानम् कीदृशेन तेन ? ऐरावतकरम् इन्द्रगजशुण्डदण्डम्, अन्तिके खपार्श्वे, खपुरत इति यावत्, विधायेव आदर्शरूपेण स्थापयित्वेव, वेधसा ब्रह्मणा, मूले मूले मूलानुपूर्व्येण, स्थूलेन स्थौल्यगुणवत्तया निर्मितेन रचितेन [ध ] । पुनः कीदृशम् ? ऊरुस्तम्भयुगलेन ऊरू- जानूपरिभागावेव, स्तम्भौ - ऊर्ध्वदेहगृहस्थूणारूपौ तयोर्युगलेन, निवसितातिसूक्ष्मदेवाङ्गवसनं निवसितम् - आच्छादितम्, परिधृतमिति यावत्, अतिसूक्ष्मं - कौशेयमित्यर्थः, देवाजव सनंदेवोचितं परिधानीयवस्त्रं येन तादृशम् [न]। पुनः पद्मरागेन्द्रनीलखण्डखचितस्य पद्मरागस्य- रकमणेः, इन्द्रनीलस्प-नीलमणेश्च, खण्डैः, खचितस्य-व्याप्तस्य, मेखलादाम्नः कटिसूत्र श्रेणीसम्बन्धिना, मयूखमालामण्डलेन मयू