Book Title: Tilakamanjiri Part 1
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 153
________________ तिलकमहरी। ११७ घलया जिनायतनयात्रासु त्रिदशलोकादुपागतानाममरमिथुनानां निवासस्थानमपरेवामरावती परमरम्या रतिविशाला नाम तस्य नगरी । सा चाद्य प्रातरेव कौतुकादितस्ततो विचरद्भिरनुचरैर्मदीयैस्तदीयसंनिधावष्यनाथेवोद्वसितेव प्रनष्टसकलपूर्वशोभा, भूतैरिवाधिष्ठिता, कृतान्तदूतैरिव कटाक्षिता, कलिकालेनेव कवलिता, समग्रपापग्रहपीडाभिरिव क्रोडीकृता, सर्वतोविजृम्भिताविच्छिन्नमलिनच्छाया, चिन्ताविसंस्थुलगृहस्थगीर्वाणपरिहतसर्वनिजनिजव्यापारा, गलितगर्वगन्धर्वशिथिलितगीतगोष्ठीस्वरविचारा, विषण्णसाध्यपरिषदा, विखिन्नसिद्धनिषिध्यमानगानोन्मुखमुखरकिनरकुला, पानकेलिनिरपेक्षपक्षिशून्यीकृतोपवनतरुखण्डलतामण्डपा, नष्टहर्षकिंपुरुषनिर्भय॑मानपरिरम्भणायातवल्लभतरुणीगणा, रणरणकगृहीतगृहदेवता, वनदेवतासदुःखदृश्यमानतत्क्षणम्लानकल्पपादपा, संतापविधुरविषधरवधूसततप्रार्थमानचन्दनलतागृहावस्थाना, स्थानस्थानपूज्यमानखिन्न टिप्पनकम्-साध्याः- देवविशेषाः, आधिः- मानसी पीडा, सिद्धाः- देवविशेषाः, गुटिका सिद्धादयो वा [1] । बलये-प्राकारमण्डलं यस्यास्तादृशी, पुनः जिनायतनयात्रासु जिनमन्दिरयात्रासु, त्रिदशलोकात् त्रिदशाना-देवानाम् , लोकात् , उपागतानाम् अवतीर्णानाम् , अमरमिथुनानां देवदम्पतीनाम् , निवासस्थानं निवासासदम् , परमरम्यां अतिमनोहारिणी, अपरा अन्या, अमरावतीव इन्द्रपुरी इव, रतिविशाला तत्संज्ञिका, नामेति वाक्यालङ्कारे, तस्य सुमालिदेवस्य, नगरी अस्ति । सा रतिविशाला नगरी च, अद्य अस्मिन् दिने, प्रातरेव प्रातःकाल एव, कौतुकात् अपूर्व वस्तुदर्शनौत्सुक्यवशात् , इतस्ततः अन तत्र स्थाने, विचरद्भिः विहरद्भिः, मदीयैः मत्सम्बन्धिभिः, अनुचरैः भूत्यैः, दृष्टा दशेनगोचरतां गमिता, केव? तदीयसन्निधावांप सुमालिदेवस्य तत्रास्तित्वेऽपि, अनाथेव खामिशून्या इव, पुनः उद्वसितेव विध्वस्तेब, प्रनष्टसकलपूर्वशोभा प्रनष्टा-प्रकर्षण लुप्ता, सकला-सममा, पूर्वा-पुरातनी, शोभा-छविर्यस्यातादृशी, पुनः भूतैः उपहावकदेवयोनिविशेषः, अधिष्ठितेव आक्रान्तेव, कृतान्तदूतैः यमदूतैः, कटाक्षितेव स्वकटाक्षपातत्रासितेव, पुनः कलिकालेन कलियुगेन, कवलितेव निगी व, पुनः समनपापग्रहपीडाभिः समग्राणां-सर्वेषाम् , पापग्रहाणां-शनैश्चराद्यशुभप्रहाणाम् , तत्प्रयुक्ताभिरिति यावत् , पीडाभिः अशुभैः, क्रोडीकुता आक्रान्ता इव । कीदृशी' सा नगरी ? सर्वतोविजृम्भिताविच्छिन्नमलिनच्छाया सर्वतः-सर्वदेशावच्छेदेन, विजृम्भिता-व्याप्ता, अविच्छिन्नासान्द्रा, मलिना-अन्धकारमयी, छाया-कान्तिर्यस्यास्तादृशी, पुनः चिन्ताविसंस्थुलगृहस्थगीर्वाणपरिहतसर्वनिजनिजव्यापारा चिन्तया विसंस्थुलैः-शिथिलः, गृहस्थगीर्वाणैः-गृहवासिदेवैः, परिहृतः सर्वः, निजो निजः-स्वः स्वः, व्यापारो यस्यां तादृशी, पुनः गलितगर्वगन्धर्वशिथिलितगीतगोष्ठीस्वरविचारा गलितः-नष्टः, गर्वः-गायकत्वाभिमानो येषां तादृशैः, गन्धः, शिथिलितः-मान्यमापादितः, गीतगोट्या-गानसभायाम् , स्वरविचार:-स्वरशास्त्रचर्चा यस्यां तादृशी, पुनः रिषदा विषण्णा-स्विन्ना, साध्यानाम-"मनोमन्ता तथा प्राणो भरोऽपानश्च वीर्यवान् । निर्भयो नरकश्चैव दंशो नारायणो वृषः ॥ प्रभुश्चेति समाख्याताः साध्या द्वादश देवताः"। इत्यन्यत्रोक्तानां देवविशेषजातीयानाम्, परिषदासभा यस्यां तादृशी, पुनः विखिन्नसिद्धनिषिध्यमानगानोन्मुखमुखरकिन्नरकुला विखिन्ना:-विशेषेण खेदाकुलाः, ये सिद्धाः-देवविशेषाः, तैनिषिध्यमान-निवार्यमाणम् , यद् गानं तम्मादुन्मुख-विभुखम् , मुखराणा-गानरतानाम् , किनराणांगायकदेवविशेषाणाम् , कुलं-समूहो यस्यां तादृशी, पुनः पानकेलिनिरपेक्षपक्षिशून्यीकृतोपवनतरखण्डलतामण्डपा पानकेली-नवपल्लवस्यन्दिरसपानक्रीडायाम्, निरपेक्षाः-तद्विषयकापेक्षाशून्याः, ये पक्षिणतेः शून्यीकृतः-विरहितः, उपवनतरुखण्ड:-केलिकाननवृक्षसमूहः, लतामण्डपः-लतान्तरितदेशश्च यस्यां तादृशी, पुनः नष्टहर्षकिंपुरुषनिर्भय॑मानपरिरम्भणायातवल्लभतरुणीगणा नष्टः हर्षो रमणेच्छा येषां तादृशैः किंपुरुषैः-देवविशेषः, निर्भय॑मानः-वाग्भिस्तिरस्किममाणः, परिरम्भणाय-आलिङ्गनाय, आगतः-उपस्थितः, हलभतरुणीनां-प्रिययुवतीनाम् , गण:--समूहो यस्यां तादृशी, पुनः रणरणकगृहीतगृहदेवता रणरणकेन उद्वेगेन, गृहीता-आक्रान्ता, गृहदेवता-गृहाधिष्ठातृदेवता यस्यां तादृशी, पुनः । बनदेवतासदुःखदृश्यमानतत्क्षणम्लानकल्पपादपा वनदेवताः-वनाधिष्ठातृदेवताः, ताभिः सदुःख-सविषादम. दृश्यमानाः-स्वखदृष्टिगोचरीक्रियमाणाः, तत्क्षण-तत्कालम् , म्लाना:-म्लानिमायनाः, कल्पपादपाः-कल्पवृक्षा यस्यां ताहशी,

Loading...

Page Navigation
1 ... 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196