Book Title: Tilakamanjiri Part 1
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 150
________________ टिप्पनक-परागविवृतिसंवलिता जातप्रत्यभिज्ञानलव इव सत्यरोपसंहृतगतिराचरणयुगलादुत्तमाङ्गं यावदालोकितवान्, [ आ] । आनीतकरसंपुटश्च हेमाद्रितट इव पृथुश्रीवृक्षलाञ्छिते वक्षसि स्तोकमुपदर्शितस्मितः प्रस्तुतपरीहास इव सलिलनिर्भराम्भोधरनिनादगम्भीरेण स्वरेण मधुरमब्रवीत्-'नरेन्द्र ! सर्वदा शरीरसंनिहितैः प्रधानपुरुषैरिव प्रस्तावावेदिभिरपृष्टैरपि निवेदितोऽसि चक्रवर्तिलक्षणैः, स खलु भवान् मध्यमलोकपालो राजा मेघवाहनः, योऽस्माभिः पुरा देवासुरसमूहसंबाधे दिव्यसदसि विष्टपत्रयपतेः पुरो देवस्य पाकशासनस्य मर्त्यलोकवार्ता निवेदनाधिकारनियुक्तैः प्रधाननाकिभिरेवं जिगीषुः, एवं शूरः, एवं प्रजापालः, एवं त्यागशीलः, एवं. धार्मिक इति बहुप्रकारमङ्गुरितपुलकपक्ष्मलकपोलैरवनिपालकथाप्रक्रमे सुचिरमुपवर्ण्यमानः श्रुतोऽसि; सर्वथा नः कृतार्थ चक्षुरुपजातम् , फलितं च सद्यो देवतादर्शनसमुत्थं पुण्यजातमतर्कितोपनतेनामुना त्वदवलोकनेन, गच्छामि टिप्पनकम्-आनीतकरसम्पुटः बद्धमुकुलः । हेमाद्रितट इव वक्षसि श्रीवृक्षलाञ्छिते [वृक्षविशेष] चिहिते महापुरुषलाञ्छनचिह्निते च । प्रस्तावावेदिभिः समयकयकैः []। प्रत्यभिज्ञानलव इव उपजातः-उत्पन्नः, प्रत्यभिज्ञानस्य-संस्कारसहकृतेन्द्रियसन्निकर्षजन्यस्य 'सोऽयं मेघवाहनो यो दिव्यसभायामुपवर्ण्यमान आसीद्' इति ज्ञानस्य, लवः-लेशो येन तादृश इव, सत्वरोपसंहृतगतिः सत्त्वर-शीघ्रं यथा स्मात् तथा, उपसंहृता-निवर्तिता, गतिः-अग्रदेशगमनं येन तादृशः [आ]। च पुनः, हेमाद्रितट इच हेनः-सुवर्णस्य, अदिः-पर्वतः, हेमाद्रिः सुमेहः, तस्य तटे-पर्यन्तभूमौ इव, पृथुधीवृक्षलाञ्छिते पृथुभिः-विशालैः, श्रीवृक्षैः-शुभ्ररोमावर्तरूपमहापुरुषलक्षणे , पक्षे बिल्ववृक्षः, लाञ्छिते-चिहिते, वक्षस, आनीतकरसम्पुटः आनीतः-आनीय संयोजितः, कर -अजलियन तादृशः सन् , प्रस्तुतपरीहास इव प्रस्तुतः-प्रारब्धः, परीहासः-उपहासो येन तादृश इव, स्तोकम् भल्पं यथा स्यात् तथा, उपदर्शितस्मितः प्रकटितमन्दहासः, सलिलनिर्भराम्भोधरनिनादगम्भीरेण सलिलनिर्भरःजलपरिपूर्णः, योऽम्भोधरः-मेघः, तस्य निनादवत्-गर्जितवत् , गम्भीरेण-तारेण, स्वरेण ध्वनिना, मधुरं श्रोत्रप्रियं यथा स्यात् तथा, अब्रवीत् उवाच । किमित्याह-नरेन्द्र ! नृपते !, चक्रवर्तिलक्षणैः चक्रवर्तिचिढ़ः, स वक्ष्यमाणयत्पदप्रतिपाद्यत्वेनाभिप्रेतः, मध्यमलोकपालः मध्यमः-स्वर्गलोक-पाताललोकयोर्मध्यवर्ती, लोकः-मर्त्यलोकः, तस्य पालकः, भवान् मेघवाहनो राजा निवेदितोऽसि सूचितोऽसि, कैरिव ? सर्वदा शरीरसन्निहितैः शरीरपार्श्ववर्तिभिः, पक्षे शरीरस्थितैः, अपृष्टैरपि जिज्ञासामज्ञापितैरपि, प्रस्तावावेदिभिः तत्तत्कार्याक्सरसूचकैः, पक्षे प्राशस्त्यव्यञ्जकैः, प्रधानपुरुषैः अमात्यादिव्यक्तिभिरिवेत्युत्प्रेक्षा । यः त्वम् , देवासुरसमूहसंबाथे देवानाम् , असुराणां-दैत्यानां च, समूहेन, संबाधे सङ्कीर्णे, व्याप्ते इत्यर्थः, दिव्यसदसि देवसभायाम् , विष्टपत्रयपतेः भुवनत्रयस्वामिनः, देवस्य पाकशासनस्य इन्द्रस्य, पुरः अग्रे, मर्त्यः लोकवार्ता निवेदनाधिकारनियुक्तैः मर्त्यलोकवार्तानां-मर्त्यभुवनसमाचाराणाम् , निवेदन-विज्ञापनमेव, अधिकारः-अवश्यकर्तव्यम्, तत्र नियुक्तैः-प्रतिष्ठापितैः, अहरितपुलकपक्ष्मलकपोलैः अङ्कुरितैः-अङ्कुरात्मनोद्भूतैः, पुलकैः-रोमाः, पक्ष्मलाः-लोमसङ्घलाः, कपोला:-गण्डस्थलानि येषां तादृशैः, प्रधाननाकिभिः प्रधानदेवैः, अवनिपालकथाप्रक्रमे अवनिपालाना-पृथ्वीपालानाम् , कथायाः वार्तायाः, प्रक्रमे-प्रस्तावे, एवम् अनेन प्रकारेण, जिगीषुः मेघवाहनः स्वरिपुपराजयमिच्छुः, अस्तीति शेषः, एवम् अनेन रिपुपराजयप्रकारेग, शूरः पराक्रमी, एवम् अनेन प्रकारेण, प्रजापाल: प्रनारक्षकः, एवम् अनेन प्रकारेण, देश-काल-पानविवेचनेनेत्यर्थः, त्यागशीलः दानशील:, एवम् अनेन प्रकारेश, धार्मिकः धर्माचरणशीलः, इति बहुप्रकारं बहवः-अनेके, प्रकाराः-वर्णनरीतयो यस्मिंस्तादृशं यथा स्यात् तथा, सुचिरम् अतिदीर्घकालम् , उपवर्ण्यमानः स्तूयमानः, श्रुतः श्रवणगोचरतां गतः, असि वर्तसे । नः अस्माकम् , चक्षुः, सर्वथा सर्वप्रकारेण, कृतार्थ सफलम् , उपजातं सम्पन्नम् । च पुनः, अतर्कितोपनतेन अकस्मादुपजातेन, अमुनों त्वदालोकनेन भवद्दर्शनेन, देवतादर्शनसमुत्थं अधुनैव विहितेन ऋषभजिनदर्शनेन समुत्पन्नम् . पुण्यजातं पुण्यपुजः, सद्यः सपदि, शीघ्रतरमेवेत्यर्थः, फलितं दत्तफलम् । साम्प्रतम् अधुना, गच्छामि इतो नन्दीश्वरद्वीपं व्रजामि, माम् , मनुजानीहि इतो गन्तुमनुमन्यख [[]]

Loading...

Page Navigation
1 ... 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196