Book Title: Tilakamanjiri Part 1
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text ________________
तिलकमकरी।
१११ लब्धेनैकलोचनेनेव चुम्वितैकश्रवणपार्श्वम् [व], उल्लसिताधरप्रभासान्द्रविद्रुमयनमुद्भूतधवलदीर्घलोचनामुत्सङ्गितकपोलमुक्ताशुक्तिकान्तमाकान्तोज्ज्वलललाटतटमाविष्कृतभ्रललाशैवलवल्लरीकमापीतामृतदर्शनदुराशया क्षीरोदसलिलमिव सकलमावासितमुपहसितशरञ्चन्द्रिकाप्रकाशमास्यलावण्यमुद्वहन्तम् [श], आपीडमधुकरप्रतिबिम्बकवुरितोदरेण बहलरागवर्षिणा चूडारत्नेन भाविसुरलक्ष्मीविनाशसूचनाय कृतसान्निध्येनोत्पातसूर्यमण्डलेनेव सकीलेन कलितोत्तमाङ्गम् ष], अमरकाननप्रभवघनसारसंस्कारातिशयसुरभिणा सुरकरिकपोलमदमिश्रेण गोशीर्षचन्दनेन कृतमसृणसर्वाङ्गीणाङ्गरागम् [स], अनिलकृतसूक्ष्मान्तरालप्रविष्टपटुविलेपनामोदमुषितनिद्रैर्निर्दयचरणप्रणोददलितदलपुटैरपहायापहाय कमलगर्भशयनानि धावद्भिद्यानदीर्घिकामधुकरकुलैः सम
खामिभूततत्प्रसन्नताप्राप्तेन, एकलोचनेनैव एकनेत्रेणेवेत्युत्प्रेक्षा [व] ! पुनः कीदृशम् ? उपहसितशरञ्चन्द्रिका. प्रकाशम् उपहसितः-तिरस्कृतः, शरचन्द्रिकायाः-शरत्कालिकज्योत्स्नायाः, प्रकाशो येन तादृशम् , आस्यलावण्यं मुखसौन्दर्यम् , उद्वहन्तम् उद्-ऊर्श्वभागे, धारयन्तम् , किमिव ? आपीतामृतदर्शनदुराशया आपीतं-खेन समन्तात् पानकर्मीकृतम् , यद् अमृतं तदुद्धृतं पीयूषम् , तद्दशनदुराशया-तदवलोकन विषयिण्या दुराशया असम्भाव्यफलकाशया, . आवासितं खपार्श्वे निवासितम् , सकलं सम्पूर्णम् , क्षीरोदसलिलमिव क्षीरसागरजलमिवेत्युत्प्रेक्षा, कीदृशं तत् सलिलम् ? उल्लसिताधरप्रभासान्द्रविद्रुमवनम् उल्लसिता-उज्वलिता, या अधरप्रभा-ओष्ठच्छविः, तद्रूपं सान्द्र-निबिडम् , विद्रुमवन-प्रवालप्रसविवनं यस्मिन् तादृशम् ; पुनः उद्भूतधवलदीर्घलोचनतरङ्गम् उद्भूते-उन्मीलिते, धवले दीघे च, ये लोचने, लोचनप्रमेति यावत् , तद्रूपस्तरको यस्मिन् , उद्भूतो धवलदीर्घलोचनात्मकस्तरको यस्मिन् वा तादृशम् , पुनः उत्सङ्गितकपोलमुक्ताशुक्तिकान्तम् उत्सशिताभ्यां-खान्तभृताभ्याम् , कपोलाभ्यां-गण्डयुगलरूपाभ्याम् , मुक्ताशुक्तिकाभ्यांमुक्तोद्भवक्षेत्ररूपशुक्तिभ्याम् , कान्त-सुन्दरम् , पुनः आक्रान्तोऊवलललाटतटम् आक्रान्त-व्याप्तम् , उज्ज्वलललाटरूपं तटं येन तादृशम् , पुनः आविष्कृतधूलताशैषलवल्लरीकम् आविष्कृता-प्रकटिता, भ्रूलता-नेत्रोपरितनरोमराजिरूपा, शैवलवल्लरी-शैवालमञ्जरी येन तादृशम् ,[श] । पुनः चूडारत्नेन चूडामणिना, मुकुटमणिनेत्यर्थः, कलितोत्तमा कलितं-संवलितं विभूषितमिति यावत् , उसमाज-शीर्ष यस्य तादृशम् , “उत्तमाझं शिरः शीर्षम्" इत्यमरः, कीदृशेन तेन ? आपीडमधुकरप्रतिविम्बकवुरितोदरेण आपीडे-खशिरोधृतकुसुममाल्ये, ये मधुकराः-भृङ्गाः, तत्प्रतिबिम्बैः-छायाभिः, कर्बरित-चित्रितम् . उदरं-मध्यं यस्य तादृशेन, पुनः बहलरागवर्षिणा विपुलरक्तच्छविविस्तारिणा, केनेव? भाविखुरलक्ष्मीविनाशसूचनाय भाविनः-अचिरेण भविष्यतः, सुरलक्ष्याः-दैविकखकीयसम्पदः, विनाशस्य-अवसानस्य, सूचनायज्ञापनाय, कृतसान्निध्येन सन्निहितेन, सकीलेन कीलया-वह्निशिखया, सहितेन-आश्लिष्टेन, उत्पातसूर्यमण्डलेनेव उत्पातः-प्राणिनां शुभाशुभसूचको भूतविकारः, तद्रूपेण सूर्यमण्डलेन-आकस्मिकसूर्यबिम्बेनेवेत्युत्प्रेक्षा । “वढेईयोालकीलावचिईतिः शिखा स्त्रियाम्" इत्यमरः [१] । पुनः कीदृशम् ? गोशीर्षचन्दनेन चन्दनविशेषेण, कृसमसणसर्वाङ्गीमानसगं कृतः-सम्पादितः, मसणः-कोमलः, सर्वाङ्गीणः-सर्वाङ्गव्यापकः, अङ्गरागः-शरीरविलेपनं येन तादृशम् , कीदशेम तेन ? अमरकाननप्रभवधनसारसंस्कारातिशयसुरभिणा अमरकाननं-नन्दनवनमेव, प्रभवः-उत्पत्तिक्षेत्र या
। धनसार:-कपूरः, तेन यः संस्कारः-संमिश्रणम्, तेन अतिशयसुरभिणा-समधिकसुगन्धिना, पुनः सुरकरिकपोलमदमिश्रेण सुरकरिणः-देवहस्तिनः, ऐरावतस्येत्यर्थः, यः कपोलमदः-गण्डमदः, तन्मिश्रितेन [स] पुनः कीहशम् ? उद्यानदीर्घिकामधुकरकुलैः उद्यानस्य-क्रीडाकाननस्य, या दीर्घिका-जलाशयविशेषः, तत्सम्बन्धिभिः, मधुकरकुलै:अमरपुजैः, समन्ततः परितः, कृततुमुलकोलाहलं कृतः, तुमुलः-विपुलः, कोलाहल:-गुञ्जनं यस्मिस्तादृशम् , कीदृशैस्तैः ? अमिलकृतसूक्ष्मान्तरालप्रविष्टपटुविलेपनामोदमुषितनिद्रैः अनिलेन-वायुना, कृतानि-विहितानि, यानि सूक्ष्मान्तगलानि-कमलदलानां मधुकर कुलानां वा सूक्ष्मावकाशाः, तत्र प्रविष्टः, यः पटुः-उत्कटः, विलेपनामोदः-अङ्गरागसौरभं तेन मुकिना-अपहृता, निद्रा येषां तादृशैः, पुनः निर्दयचरणप्रणोददलितदलपुटैः निर्दयं-दयाशून्यं यथा स्यात् तथा,
Loading... Page Navigation 1 ... 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196