Book Title: Tilakamanjiri Part 1
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text ________________
टिप्पनक-परागविवृतिसंवलिता नातिखवं नातिविस्तीर्णमल्पस्तम्भपरिकरमप्रांशुप्राकारकृतपरिक्षेपमनुपलक्षितान्योऽन्यसन्धिभागैराभोगशालिभिः प्रकाममसृणैर्मणिशिलातलैरवनद्धविस्तीर्णाङ्गणमतिमनोहरतया सुरलोकवासिनामप्युत्पादितनिवासस्पृहं देवतागृहमकारयत् । तत्र चातिप्रशस्तेऽहनि यथायोग्यमर्चितसमस्तपूज्यवर्गः परिपूर्णसर्वावयवां सर्वप्रतिमालक्षणोपेतां सर्वालङ्कारभूषितवपुर्ललां सर्वलोकलोचनानन्दजननी सर्वदोषनिर्मुक्तामत्युदारमुक्ताशैलदारुसम्भवां भगवत्याः श्रियः प्रतिकृति यथाविधि प्रतिष्ठाप्य प्रतिपन्ननैष्ठिकोचितक्रियो मुनिप्रदर्शितेन क्रमेण प्रतिदिनमुपासाञ्चके [2]। तथाहि-प्रातरेवोत्थाय प्रस्थितः प्रथमतरमुत्थितैरितस्ततो निपतितावश्यायजलदलितकेसराणि प्रत्यप्रविकसितानामुद्यानवीरुधां कुसुमान्यवचिन्वानैः प्रयत्नवद्भिः परिचारकैरनुगम्यमानः, गत्वा कृत्रिमाद्रिपरिसर
तैः गुरुबन्धुबुद्धिसचिवजनैः, कार्यगौरवं कार्यस्य-देवताऽऽराधनस्य, गौरवं माहात्म्यम् , आलोच्य विविच्य, अभ्यनुज्ञातः दत्ताभ्यनुज्ञः सन् राजा, आकीडपर्वतस्य "आक्रीडः पुनल्यानं राज्ञामन्तःपुरोचितम्" इति कोशोक्तस्य अन्तःपुरक्रीडापर्वतस्य, सन्निधौ निकटे, प्रमदवनमध्ये अन्तःपुरक्रीडोपवनमध्ये एव, देवतागृहं देवतामन्दिरम् , अकारयत् निर्मापितवान् । तत् कीदृशम् ? नातिखर्व नातिविस्तीर्ण नातिहखं नातिदीर्घम् , पुनः अल्पस्तम्भपरिकरम् अल्पःअनधिकः, स्तम्भपरिकरः-स्तम्भपरिवारो यस्मिंस्तादृशम् , पुनः अप्रांशुप्राकारकृतपरिक्षेपम् अप्रांशुभिः-अनतिशयोचतैः, प्राकारैः आवेष्टनकुडथैः, कृतः, परिक्षेपः-परिवेष्टनं यस्य तादृशम् , पुनः अवनद्धविस्तीर्णाङ्गणम् अवनद्धं-सम्यग्बद्धम् , विस्तीर्ण-विशालम् , अङ्गण-प्राङ्गणं यस्य तादृशम् , कैः ? मणिशिलातलैः मणयः-मौक्तिकहीरकादयः, शिला-मनःशिला, मणिमय्यः शिला वा-मणिशिलाः, तासां तलैः, कीदृशैस्तैः ? अनुपलक्षितान्योऽन्यसन्धिभागैः अनुपलक्षितः-सुश्लिष्टतया अप्रतीतः, अन्योऽन्यसन्धिभागः-परस्परश्लिष्टांशो येषां तादृशैः, पुनः आभोगेन-अतिविस्तरेण, शालन्ते-शोभन्ते ये तैःआभोगशालिभिः, प्रकाममसणैः अतिकोमलैः, पुनः कीदृशं देवतागृहम? अतिमनोहरतया निरतिशयसुन्दरतया. मुरलोकवासिनामपि स्वर्गवास्तव्यानामपि, देवानामपीत्यर्थः, उत्पादितनिवासस्पृहम् उत्पादिता-उन्मीलिता, निवासस्मृहा-निवासेच्छा येन तादृशम् , स्वर्गीयगृहादपि सुन्दरमित्यर्थः । च पुनः, तत्र तस्मिन् देवतामन्दिर इत्यर्थः, अतिप्रशस्ते शुभयोग-नक्षत्र-लग्नादिशालिनि, अहनि दिने, यथायोग्यं यथोचितम् , अर्चितसमस्तपूज्यवर्गः अर्चितः-प्रथम पूजितः, समस्तः-समग्रः, पूज्यानां-मुख्यदेवताङ्गभूतपूजनीयदेवानाम् , वर्ग:-समूहो येन तादृशः सन् , राजेति शेषः, परिपूर्णसर्वावयवां परिपूर्णाः-प्रतिमावयवपरिमाणपरिमिताः, अवयवाः-हस्तपादादयो यस्यास्तादृशीम् , सर्वप्रतिमालक्षणोपेतां सर्वैःसमस्तैः, प्रतिमालक्षणैः-लक्षणशास्त्रोक्तमूर्तिचिह्नः, उपेतां लक्षिताम् , सर्वालङ्कारभूषितवपुलतां सर्वैः, अलङ्कारः-कङ्कणकेयूरादिमिः, भूषिता-अलङ्कृता, वपुलता-वपुः शरीरमेव कोमलत्वादायतत्वाच लता यस्यास्तादृशीम् , सर्वलोकलोचनानन्दजननीं सर्वेषां लोकानाम् , लोचनाना-नेत्राणाम् , आनन्दजननीम्-उल्लासिनीम् , सर्वदोषनिर्मुक्ता छिद्रादिनिखिलदोषशन्याम् , अत्युदारमुक्काशैलदारुसम्भवाम् अत्युदारा:-अतिशयेनोदारा उत्कृष्टाः, या मुक्ताः-मौक्तिकाख्यमणिविशेषाः, शैलदारु-तदाख्यमणिविशेषः, काष्ठविशेषो वा, तत्सम्भवां-तन्मयीम् , भगवत्याः श्रियः लक्ष्म्याः , प्रतिकृति प्रतिमाम् , यथाविधि विधिसहितम्, प्रतिष्ठाप्य, प्रतिपन्ननैष्टिकोचितक्रियः प्रतिपन्ना-खीकृता. नैष्ठिकस्य-आजन्मब्रह्मचारिणः, उचिता-योग्या, क्रिया-स्त्रीसङ्गादिवर्जन!त्मिका येन तादृशः सन् , क्रमेण यथाक्रमम् , प्रतिदिनं सर्वस्मिन् दिने, उपालाञ्चके राजश्रियमाराधयामास [ट ] | तत्क्रममुपदर्शयति-तथाहीति । प्रातरेय ब्राह्ममुहूर्त एव, उत्थाय जागरित्वा, प्रस्थितः शयनागारान्निर्गतः, प्रथमतरं सर्वप्रथमम् , उत्थितैः जागरितैः, इतस्ततः यत्र तत्र, निपतितावश्यायजलदलितकेसराणि निपतितेन, अवश्यायजलेन-हिमजलेन, "आवश्यायस्तु नीहारः" इत्यमरः, दलिताः-खण्डिताः उत्फुल्ला वा, केसराः-तन्तवो येषाम् , तादृशानि, प्रत्यप्रविकसितानाम् अभिनवपुष्पितानाम् , उद्यानवीरुधां क्रीडाकाननलतिकानाम् , कुसुमानि पुष्पाणि, अवचिन्वानः त्रोटयित्वा संगृहद्भिः, प्रयत्नवद्भिः श्रमशीलः, परिचारकैः खसेवकः, अनुगम्यमानः पश्चादेशावच्छेवेनाश्रीयमाणः, कृत्रिमाद्रिपरिसरसरिति कृत्रिमः-क्रियया निवृत्तः, नेतरादिरिव
Loading... Page Navigation 1 ... 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196