Book Title: Tilakamanjiri Part 1
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 144
________________ टिप्पनक परागविवृतिसंवलिता त्वचामङ्गानामनलस्फुलिङ्गपिङ्गलेन गलता समन्ततः प्रभाजालेन ज्वलदनेकदीपिका चक्रवालमिव मण्डपान्तराल कुर्वाणम्, अन्तरिक्षगतमप्यति बहलतया चरणतलप्रभायाः स्पृष्टभूतलमिवोपलक्ष्यमाणम् [थ], अकठोरविद्रुमकन्दलीसरलाभिरम्भोजदलभ्रमापतद्भूमरसम्भ्रमादिवान्योऽन्यलमाभिरमतः स्फुरदुन्मयूखनखलेखाभिरन्धकारदुरुपलक्ष्याध्व परिस्खलनशङ्कया पुरस्कृतशशिकलाभिरिवाङ्गुलीभिरुपेतेन गत्युत्कम्पगलितवैकक्षखग्दामरेणुनिश्चलनिलीनैरलिभिः पुनरागमनप्रार्थनापुरः सरमानतायास्त्रिदशलोकश्रियो वियोगानुभिरिव सकज्जलैः कल्माषितेन कल्पतरुपल्लवचारुणा' चरणद्वयेन द्योतमानम् [द], अमृतोऽग्रतः लक्ष्णपरिमण्डलजङ्घाकाण्डेनैर। वतकरभिवान्तिके विधाय वेधसा निर्मितेन मूले मूले स्थूलेन भ्राजमानम् [ध], ऊरुस्तम्भयुगलेन निवसितातिसूक्ष्मदेवाङ्गवसनम् [न], आनीलपाटलेन पद्मरागेन्द्रनीलखण्डखचितस्य मेखलादान: प्रेङ्खताऽधोमुखेन मयूख २०४ त्प्रेक्षा । अङ्गानां शरीरावयवसम्बन्धिना, समन्ततः परितः, गलता प्रसरता, स्फुरतेत्यर्थः, अनलस्फुलिङ्गपिङ्गलेन अनलस्य - अभेः, यः स्फुलिङ्गः कणः, तद्वत् पिङ्गलेन-पिशङ्गवर्णेन, प्रभाजालेन कान्तिपुञ्जेन, मण्डपान्तरालं शक्रावतारतीर्थमण्डप मध्यभागम्, ज्वलद ने कदीपिकाचक्रवालमिव ज्वलद् - दीप्यमानम्, अनेकदीपिकानां चक्रवालं - मण्डलं यस्मिन् तादृशम्, कुर्वाणं रचयन्तम् । पुनः अन्तरिक्षगतमपि नभोमण्डलस्थितमपि, चरणतलप्रभायाः स्वचरणतलवीतेः, अतिबलतया अतिशय बाहुल्येन स्पृष्टभूतलमिव स्पृष्टं संसृष्टम्, भूतलं - पृथ्वीतलं येन तादृशमिव उपलक्ष्यमाणं oth: प्रतीयमानम् [r] । पुनः कीदृशममुम् ? चरणद्वयेन पादयुगेन, द्योतमानम् उद्भासमानम् कीदृशेन तेन ! कल्पतरुपल्लचचारुणा कल्पतरो :- कल्पाख्यदेववृक्षस्य यः पल्लवः - नवपत्रम्, तद्वच्चारुणा-सुन्दरेण । पुनः कीदृशेन ? अनुलीभिः उपेतेन अन्वितेन, कथम्भूताभिस्ताभिः ? अकठोर विद्रुमकन्दली सरलाभिः अकठोरा - कोमला, या विद्रुमकन्दली - प्रवालगुल्मविशेषः, तद्वत् सरलाभिः - ऋज्वीभिः । पुनः अन्योऽन्यसंलग्नाभिः परस्परसंश्लिष्टाभिः, कस्मादिव ? भम्भोजदलभ्रमापतन्मर सम्भ्रमादिव अम्भोजदलभ्रमेण - रक्तकमलपत्रभ्रान्त्या, आपतन्तः - आक्रामन्तः, ये भ्रमराः तेभ्यः-तज्जन्यादित्यर्थः, सम्भ्रमात् - भयजन्यत्वरावशादिवेत्युत्प्रेक्षा । पुनः स्फुरदुम्मयूखनखलेखाभिः स्फुरन्ती - स्फुटन्ती, उन्मयूखा- उद् उच्छलन्तो मयूखा रश्मयो यस्यास्तादृशी च, नखलेखा-नखपङ्किर्यासां तादृशीभिः, अत एव अन्धकार दुरुपलक्ष्याध्वपरिस्खलनशङ्कया अन्धकारेण - रात्रिध्वान्तेन, दुरुपलक्ष्य:- दुःखेनोपलक्षयितुं प्रत्येतुं शक्यः, योऽध्वामार्गः, तत्र परिस्खलनशङ्कया- विचलनसंशयेन, पुरस्कृतशशिकलाभिः पुरस्कृता - मार्गोद्भासनार्थमग्रतः कृता, शशिकलाचन्द्रकला याभिस्तादृशीभिरिवेत्युत्प्रेक्षा । पुनः कीदृशेन चरणद्वयेन ! अलिभिः भ्रमरैः, कल्माषितेन स्वकृष्णवर्णमिश्रणचित्रीकृतेन, कीदृशैस्तैः ? गत्युत्कम्पगलितवैकक्षस्रग्दामरेणुनिश्चलनिलीनैः गत्या - गमनेन, य उत्कम्पः- उद्वेलनम् तेन हेतुना, गलितं - पादयोः स्खलितम्, यद् वैकक्षकं - वक्षःस्थले तिर्यग्धृतम्, सग्दाम - कुसुमहारयष्टिः, तत्र, निश्चलं निःस्पन्दं यथा स्यात्तथा, निलीनैः-संश्लिष्टैः, “वैकक्षकं तु तत् यत् तिर्यक् क्षिप्तमुरसि" इत्यमरः, अत एव पुनरागमनप्रार्थनापुरस्सरं वर्गप्रत्यागमनानुनयपूर्वकम्, आनतायाः पादयोः पतितायाः, त्रिदशलोकश्रियः स्वर्लोकलक्ष्म्याः, सकज्जलैः कज्जल- मिश्रितैः वियोगाश्रुभिः विरहवेदनागलितनयनवारिभिरिवेत्युत्प्रेक्षा [द] । पुनः कीदृशम् ? अग्रतोऽग्रतः अग्रेऽग्रे भागे, परिमण्डलजङ्घाकाण्डेन ऋक्ष्णं-कोमलम्, परिमण्डलं- वर्तुलम्, यज्जङ्गाकाण्ड - गुरुफ जानुमध्यवर्त्यवयवरूपदण्डः; तेन, भ्राजमानं दीप्यमानम् कीदृशेन तेन ? ऐरावतकरम् इन्द्रगजशुण्डदण्डम्, अन्तिके खपार्श्वे, खपुरत इति यावत्, विधायेव आदर्शरूपेण स्थापयित्वेव, वेधसा ब्रह्मणा, मूले मूले मूलानुपूर्व्येण, स्थूलेन स्थौल्यगुणवत्तया निर्मितेन रचितेन [ध ] । पुनः कीदृशम् ? ऊरुस्तम्भयुगलेन ऊरू- जानूपरिभागावेव, स्तम्भौ - ऊर्ध्वदेहगृहस्थूणारूपौ तयोर्युगलेन, निवसितातिसूक्ष्मदेवाङ्गवसनं निवसितम् - आच्छादितम्, परिधृतमिति यावत्, अतिसूक्ष्मं - कौशेयमित्यर्थः, देवाजव सनंदेवोचितं परिधानीयवस्त्रं येन तादृशम् [न]। पुनः पद्मरागेन्द्रनीलखण्डखचितस्य पद्मरागस्य- रकमणेः, इन्द्रनीलस्प-नीलमणेश्च, खण्डैः, खचितस्य-व्याप्तस्य, मेखलादाम्नः कटिसूत्र श्रेणीसम्बन्धिना, मयूखमालामण्डलेन मयू

Loading...

Page Navigation
1 ... 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196