Book Title: Tilakamanjiri Part 1
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 142
________________ १०६ टिप्पनक - परागविवृतिसंवलिता स्थितं गत्वा गुरुजनं ववन्दे । विहितमध्यन्दिनावश्यकविधिश्च। पर|समयानुज्ञातदर्शनेन सर्वदर्शनप्रन्धार्थ-वेदना विद्वज्जनेन सार्धं तैस्तैः कथालापैस्तस्थौ । उपस्थिते च प्रदोषसमये तेनैव विधिना श्रियः पूजोपचारं चक्रे । अन्यदिवसेष्वप्येतदेवान्वतिष्ठत् । देवताकृत्यशून्ये च क्षणे समुपजात चित्तोत्कलिकः कदाचिदारुह्य क्रीडाशैलशिखरं समन्ततो दत्तदृष्टिरुद्यानवापीवनखण्डसरित्तडागदेवतायतनमण्डितान् साकेतपुरपरिसरोद्देशान् ददर्श । कदाचि परिमित परिचारकानुगम्यमानः प्रमदवनमध्ये मन्दं मन्दं विजहार । एवं च तस्योपरतराज्यचिन्ताभारस्य विरचिताभ्यर्णपर्णशालाकृतस्थितेस्त्रिकालस्नायिनः परिमित फलाहारपरिपालितशरीरस्य कुशतल्पशायिनो मुनिसमुपदिष्टेन विधिना व्रतमपत्यसन्ततिनिबन्धनमनतिचारं पालयतो गृहीतब्रह्मचर्यस्य दिवसाः कतिचिदतिजग्मुः । एकदा तु विहितमन्त्र देवतापूर्वसेवः स राजा पर्वदिवसे विशेषेण निर्वर्त्य देव्याः श्रियः सायन्तनीमायतनपूजामनुपलक्षितः परिचारकगणेन नगरबाह्याराममण्डनमादितीर्थतया पृथिव्यां प्रथितमतितुङ्ग शिखर तोरण दर्शनसुकृतार्थम् आगतम्, उचितस्थानस्थितं योग्यस्थानोपविष्टम्, गुरुजनं स्वपूज्यजनम्, गत्वा उपस्थाय, ववन्दे अभिवादयामास । च पुनः, विहितमध्यन्दिनावश्यकविधिः कृतमाध्याह्निकनित्यकृत्यः, अपराह्नसमयानुज्ञातदर्शतेन अपराह्नसमये - दिवसापरभागे, अनुज्ञातम् - अनुमतम्, दर्शनं यस्य तादृशेन, सर्वदर्शन ग्रन्थार्थवेदिना सर्वेषाम् दर्शनानाम्, आध्यात्मिकदृष्टिभेदानाम्, ये प्रन्थाः - निबन्धाः, तेषाम्, अर्थवेदिना-अर्थाभिन, विद्वज्जनेन बुधजनेन, सार्द्ध 'सह, तेस्तैः प्रसिद्ध विविधैः, कथालापैः वार्तालापविनोदैः, तस्थौ तिष्ठति स्म । च पुनः उपस्थिते प्राप्ते, प्रदोषसमये सायंसमये, तेनैव पूर्वोक्तेन विधिना विधानेन, श्रियः लक्ष्म्याः, पूजोपचारं पूजात्मकशुश्रूषाम् चक्रे कृतवान् । अम्यदिवसेष्यपि अन्य दिनेष्वपि एतदेव इदमेव कार्यजातम्, अन्वतिष्ठत् अकरोत् । च पुनः देवताकृत्यशून्ये लक्ष्म्याराधनरहिते, क्षणे मुहूर्ते, समुपजातुचित्तोत्कलिकः समुपजाता-सम्यगुत्पन्ना, चित्तोत्कलिका - हृदयोत्कण्ठा यस्य तादृशः कदाचित् कस्मिंश्चित् समये, क्रीडाशैलशिखरं क्रीडापर्वतोपरिभागम्, आरुह्य समन्ततः सर्वतो दत्तदृष्टिः विक्षिप्तकोचनः, उद्यानवापीचनखण्ड सरितडाग देवतायतनमण्डितान् उद्यानेन राज्ञः साधारणक्रीडाकाननेन, वापीभिः, वनखण्डैः- वनावान्तरविभागः, सरिद्भिः - नदीभिः, तडागैः- पद्माकरजलाशयैः, देवतायतनैः - देवमन्दिरैः, मण्डितान् अलङ्कृतान, साकेतपुर परिसरोद्देशान् साकेतपुरस्य - अयोध्यापुर्याः, परिसरान - समीपभूतान्, उद्देशान् उन्नतदेशान्, उत्कृष्टबेशान् वा, ददर्श दृष्टवान् । च पुनः कदाचित् कस्मिंश्चित् काले, परिमितपरिचारकानुगम्यमानः परिमितैः-अनधिकैः परिचारकैः-सेवकैः, अनुगम्यमानः- अनुत्रियमाणः, प्रमदवनमध्ये अन्तःपुरोचितक्रीडाकाननमध्ये, मन्दं मन्दं यथा स्यात्तथा, बिहार विहारमकरोत् । एवम् अनुपदमुपदर्शितक्रमेण, तस्य मेघवाहनस्य, उपरतराज्यचिन्ताभारस्य उपरत:निवृत्तः, राज्यचिन्तारूपो भारो यस्य तादृशस्य, विरचिता-निर्मापिता, अभ्यर्णा - निकदभूता, या पर्णशाला - पर्णकुटी, तस्यां कृतस्थितेः कृतनिवासस्य, त्रिकालस्नायिनः त्रिकालेषु प्रातर्मध्याहसायंकालेषु, स्नानशीलस्य, परिमितफलाहारपरिपालितशरीरस्य परिमितेन - अल्पेन, फलाहारेण, रक्षितशरीरस्य, कुशनल्पशायिनः कुशतत्पे - कुशाख्यपवित्र तृणशय्यीयाम्, शयनशीलस्य, मुनिसमुपदिष्टेन मुनिबोधितेन विधिना विधानेन, अनतिचारम् अतिक्रमणशून्यं यथा स्यात्तभा, अपत्यसन्ततिनिबन्धनम् अपत्यविस्तारकारणभूतम्, व्रतं नियमम्, पालयतो रक्षतः, गृहीतब्रह्मचर्यस्य वर्जितकामासहस्य, कतिचित् कतिपये, दिवसाः दिनानि, अतिजग्मुः अतीताः । च पुनः, एकदा एकस्मिन् दिने, विहित देवतापूर्व सेवः विहिता - अनुष्ठिता, मन्त्र देवतयोः, मन्त्राधिष्ठातृदेवताया वा अपूर्वा सेवा, मन्त्रेण देवताया अपूर्वसेवा वा येन तादृशः, स मेघवाहनो राजा, पर्वदिवसे पुण्यतिथौ, श्रियः लक्ष्म्याः, देव्याः भगवत्याः, सायन्तनीं सायंकालिकी, आयतनपूजां मन्दिरपूजाम्, विशेषेण विशिष्टविधिना, निर्वर्त्य सम्पाद्य, परिचारकगणेन सेवकसङ्घन, अन्तु पलक्षितः अचिह्नितः, तेनाननुगत इति यावत्, नगरबाह्याराममण्डनं नगरबाह्यानाम्-नगराद् बहिः स्थितानाम्, बादामाणाम्-उपवनानाम्, मण्डनं - शोभाssधायकम् आदितीर्थतया आदितीर्थङ्करवृषभदेवाधिष्ठितत्वेन प्रथमतीर्थतया जगति प्रथितं प्रसिद्धम्, अतितुङ्गशिखरतोरणप्राकारम् अतितुङ्गानि परमोन्नतानि शिखराणि शृङ्गाणि

Loading...

Page Navigation
1 ... 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196