________________
१०६
टिप्पनक - परागविवृतिसंवलिता
स्थितं गत्वा गुरुजनं ववन्दे । विहितमध्यन्दिनावश्यकविधिश्च। पर|समयानुज्ञातदर्शनेन सर्वदर्शनप्रन्धार्थ-वेदना विद्वज्जनेन सार्धं तैस्तैः कथालापैस्तस्थौ । उपस्थिते च प्रदोषसमये तेनैव विधिना श्रियः पूजोपचारं चक्रे । अन्यदिवसेष्वप्येतदेवान्वतिष्ठत् । देवताकृत्यशून्ये च क्षणे समुपजात चित्तोत्कलिकः कदाचिदारुह्य क्रीडाशैलशिखरं समन्ततो दत्तदृष्टिरुद्यानवापीवनखण्डसरित्तडागदेवतायतनमण्डितान् साकेतपुरपरिसरोद्देशान् ददर्श । कदाचि परिमित परिचारकानुगम्यमानः प्रमदवनमध्ये मन्दं मन्दं विजहार । एवं च तस्योपरतराज्यचिन्ताभारस्य विरचिताभ्यर्णपर्णशालाकृतस्थितेस्त्रिकालस्नायिनः परिमित फलाहारपरिपालितशरीरस्य कुशतल्पशायिनो मुनिसमुपदिष्टेन विधिना व्रतमपत्यसन्ततिनिबन्धनमनतिचारं पालयतो गृहीतब्रह्मचर्यस्य दिवसाः कतिचिदतिजग्मुः । एकदा तु विहितमन्त्र देवतापूर्वसेवः स राजा पर्वदिवसे विशेषेण निर्वर्त्य देव्याः श्रियः सायन्तनीमायतनपूजामनुपलक्षितः परिचारकगणेन नगरबाह्याराममण्डनमादितीर्थतया पृथिव्यां प्रथितमतितुङ्ग शिखर तोरण
दर्शनसुकृतार्थम् आगतम्, उचितस्थानस्थितं योग्यस्थानोपविष्टम्, गुरुजनं स्वपूज्यजनम्, गत्वा उपस्थाय, ववन्दे अभिवादयामास । च पुनः, विहितमध्यन्दिनावश्यकविधिः कृतमाध्याह्निकनित्यकृत्यः, अपराह्नसमयानुज्ञातदर्शतेन अपराह्नसमये - दिवसापरभागे, अनुज्ञातम् - अनुमतम्, दर्शनं यस्य तादृशेन, सर्वदर्शन ग्रन्थार्थवेदिना सर्वेषाम् दर्शनानाम्, आध्यात्मिकदृष्टिभेदानाम्, ये प्रन्थाः - निबन्धाः, तेषाम्, अर्थवेदिना-अर्थाभिन, विद्वज्जनेन बुधजनेन, सार्द्ध 'सह, तेस्तैः प्रसिद्ध विविधैः, कथालापैः वार्तालापविनोदैः, तस्थौ तिष्ठति स्म । च पुनः उपस्थिते प्राप्ते, प्रदोषसमये सायंसमये, तेनैव पूर्वोक्तेन विधिना विधानेन, श्रियः लक्ष्म्याः, पूजोपचारं पूजात्मकशुश्रूषाम् चक्रे कृतवान् । अम्यदिवसेष्यपि अन्य दिनेष्वपि एतदेव इदमेव कार्यजातम्, अन्वतिष्ठत् अकरोत् । च पुनः देवताकृत्यशून्ये लक्ष्म्याराधनरहिते, क्षणे मुहूर्ते, समुपजातुचित्तोत्कलिकः समुपजाता-सम्यगुत्पन्ना, चित्तोत्कलिका - हृदयोत्कण्ठा यस्य तादृशः कदाचित् कस्मिंश्चित् समये, क्रीडाशैलशिखरं क्रीडापर्वतोपरिभागम्, आरुह्य समन्ततः सर्वतो दत्तदृष्टिः विक्षिप्तकोचनः, उद्यानवापीचनखण्ड सरितडाग देवतायतनमण्डितान् उद्यानेन राज्ञः साधारणक्रीडाकाननेन, वापीभिः, वनखण्डैः- वनावान्तरविभागः, सरिद्भिः - नदीभिः, तडागैः- पद्माकरजलाशयैः, देवतायतनैः - देवमन्दिरैः, मण्डितान् अलङ्कृतान, साकेतपुर परिसरोद्देशान् साकेतपुरस्य - अयोध्यापुर्याः, परिसरान - समीपभूतान्, उद्देशान् उन्नतदेशान्, उत्कृष्टबेशान् वा, ददर्श दृष्टवान् । च पुनः कदाचित् कस्मिंश्चित् काले, परिमितपरिचारकानुगम्यमानः परिमितैः-अनधिकैः परिचारकैः-सेवकैः, अनुगम्यमानः- अनुत्रियमाणः, प्रमदवनमध्ये अन्तःपुरोचितक्रीडाकाननमध्ये, मन्दं मन्दं यथा स्यात्तथा, बिहार विहारमकरोत् । एवम् अनुपदमुपदर्शितक्रमेण, तस्य मेघवाहनस्य, उपरतराज्यचिन्ताभारस्य उपरत:निवृत्तः, राज्यचिन्तारूपो भारो यस्य तादृशस्य, विरचिता-निर्मापिता, अभ्यर्णा - निकदभूता, या पर्णशाला - पर्णकुटी, तस्यां कृतस्थितेः कृतनिवासस्य, त्रिकालस्नायिनः त्रिकालेषु प्रातर्मध्याहसायंकालेषु, स्नानशीलस्य, परिमितफलाहारपरिपालितशरीरस्य परिमितेन - अल्पेन, फलाहारेण, रक्षितशरीरस्य, कुशनल्पशायिनः कुशतत्पे - कुशाख्यपवित्र तृणशय्यीयाम्, शयनशीलस्य, मुनिसमुपदिष्टेन मुनिबोधितेन विधिना विधानेन, अनतिचारम् अतिक्रमणशून्यं यथा स्यात्तभा, अपत्यसन्ततिनिबन्धनम् अपत्यविस्तारकारणभूतम्, व्रतं नियमम्, पालयतो रक्षतः, गृहीतब्रह्मचर्यस्य वर्जितकामासहस्य, कतिचित् कतिपये, दिवसाः दिनानि, अतिजग्मुः अतीताः । च पुनः, एकदा एकस्मिन् दिने, विहित
देवतापूर्व सेवः विहिता - अनुष्ठिता, मन्त्र देवतयोः, मन्त्राधिष्ठातृदेवताया वा अपूर्वा सेवा, मन्त्रेण देवताया अपूर्वसेवा वा येन तादृशः, स मेघवाहनो राजा, पर्वदिवसे पुण्यतिथौ, श्रियः लक्ष्म्याः, देव्याः भगवत्याः, सायन्तनीं सायंकालिकी, आयतनपूजां मन्दिरपूजाम्, विशेषेण विशिष्टविधिना, निर्वर्त्य सम्पाद्य, परिचारकगणेन सेवकसङ्घन, अन्तु पलक्षितः अचिह्नितः, तेनाननुगत इति यावत्, नगरबाह्याराममण्डनं नगरबाह्यानाम्-नगराद् बहिः स्थितानाम्, बादामाणाम्-उपवनानाम्, मण्डनं - शोभाssधायकम् आदितीर्थतया आदितीर्थङ्करवृषभदेवाधिष्ठितत्वेन प्रथमतीर्थतया जगति प्रथितं प्रसिद्धम्, अतितुङ्गशिखरतोरणप्राकारम् अतितुङ्गानि परमोन्नतानि शिखराणि शृङ्गाणि