________________
तिलकमञ्जरी ।
१०५
सरिति गृहीतदन्तधावनो निर्वर्तितस्नानजपविधिः, परिधाय तत्कालधौते कालधौते इवातिधवलतया विभा. oयमाने दुकूलवाससी, विधाय सन्ध्योपासनकृत्यम्, आगत्यायतनमुत्तमाङ्गघटितप्रन्थिनोत्तरीयपल्लवेन मुद्रित•मुख मुखोद्गीर्णमुखर वारिस्रोतोभिः कनककुम्भैः सुचिरमेनामभ्यषिचत् । एणनाभिकर्पूरकणसन्तर्पितामोदेन च • स्पर्शनेन्द्रियहारिणा चन्दनद्रवेण विरचिताङ्गरागामङ्गलेखारोपितरुचिरमौक्तिका भरणामुदारमालतीदामप्रथित'शेस्वरां श्रवणशिखरावतंसितैककेतकगर्भपत्रामवदातवेषतया साक्षादमृतमथनोगतामिवोपलक्ष्यमाणां निरीक्ष्य सादरमुत्क्षिप्तकृष्णागुरुक्षोदधूपः प्रणम्य परमया भक्त्या पुरस्तान्नातिदूरे समुपविष्टो मुखनिविष्टनिश्चलदृष्टिरानर्तित'शिखण्डिना दत्तमार्जनमृदङ्गस्तनितगम्भीरेण स्वरेण संगीतकमिव प्रस्तावयन् पुष्टार्थाभिः स्तुतिभिरतिचिरं तुष्टाव । [5] | समापितमन्त्रजपविधिश्वातिक्रान्ते कियत्यपि समये विनिर्गत्य देवतागृहाद् दर्शनार्थमागतमुचितस्थान
प्रथमत एव स्थितः, एवंविधो यः, अद्रिः - पर्वतः, तस्य यः परिसरः- समीपदेशः, तत्र या कृत्रिमा, सरित् नदी, तत्र गत्वा, गृहीतदन्तधावनः कृतदन्तमार्जनः निर्वर्तितस्तानजपविधिः निर्वर्तितौ- सम्पादितौ स्नानं च जपश्च तौ, विधी - व्यापारौ न तादृशः, तत्कालधौते तत्क्षणप्रक्षालिते, अतः कालधौते कलधौतस्य- रजतस्य, विकारभूते, इव, अतिधवल`तया अतिशुभ्रतया, विभाव्यमाने प्रतीयमाने, कलधौते इवेति पाठे कलधौते रजते इवेत्येवं व्याख्येयम्, दुकूलवाससी श्लक्ष्ण-सूक्ष्मवस्त्ररूपे अधरीयोत्तरीयवस्त्रे परिधाय धृत्वा, सन्ध्योपासनकृत्यं प्रातः सन्ध्यावन्दनात्मक कार्यम्, विधाय - अनुष्ठाय, आयतनं निकेतनम्, देवतामन्दिरमिति यावत्, आगत्य प्रत्यागत्य, उत्तमाङ्गघटितग्रन्थिता उत्तमाङ्गे - शिरसि, घटिता लग्ना, ग्रन्थिर्यस्य सादृशेन, उत्तरीयपल्लवेन ऊर्ध्वदेहधृतवसनाभ्ञ्चलेन, मुद्रितमुखः मुद्रितं खनिःश्वासेन देवताथा आशांतनापरिहारार्थमाश्रुतम् मुखं येन तादृशः, मुखोद्गीर्णमुखर वारिस्रोतोभिः मुखात्- प्रीषोर्ध्वभागात्, उद्गीर्णनिःसृतम्, मुखरं ध्वनिपूर्णम्, वारिस्रोतः- जलधारा येषां तादृशैः, कनककुम्भैः सुवर्णकलशैः सुचिरं सुदीर्घकालम्, uri लक्ष्मीम् अभ्यषिञ्चत् अभिषिञ्चति स्म । एणनाभिकर्पूरकणसन्तर्पितामोदेन एणस्य- कृष्णमृगस्य, नाभिःकस्तूरिका, तया, कर्पूरकणैः - कर्पूरचूर्णैश्च, मिश्रितैः सन्तर्पितः - समेधितः, आमोदः - परिमलो यस्य तादृशेन, स्पर्शनेन्द्रियहारिणा त्वगिन्द्रियाकर्षणशीलेन, चन्दनद्रवेण चन्दनपङ्केन, विरचिताङ्गरागां विरचितः - सम्पादितः, अङ्गरागः-अनलेपनं यस्यास्तादृशीम् । पुनः अङ्गलेखारोपितरुचिरमौक्तिकाभरणाम् अभे अङ्गलतायाम्, लेखारोपितानि राजिरूपेण 'स्थापितानि, विन्यस्तानीत्यर्थः, रुचिराणि - मनोहराणि भौक्तिकाभरणानि - मौफिक भूषणानि यस्यास्तादृशीम् । पुनः उदारमालतीदामप्रथितशेखराम् उदारेण महता, निर्मलेनेत्यर्थः, मालतीदाना - मालत्याख्य कुसुमावल्या, प्रथितः - संघटितः, सम्पा दित इति यावत्, शेखरो मस्तकमाल्यं यस्यास्तादृशीम् । पुनः श्रवणशिखरावतंसितैककेतकगर्भपत्रां श्रवणशिखरे - 'श्रवणोपरिभागे, अवर्तसितम् अलङ्कृतम्, एकम् , केतकस्य तदाख्यपुष्पवृक्षविशेषस्य, गर्भपत्रम् - अन्तर्गतपत्रं यस्यास्तादृशीम् । पुनः अवदातवेषतया अतिशुभ्रवेषशालितया, साक्षात् अमृतमथनोद्भूताम् अमृतमथनेन - सुधासागरालोडनेन, उद्भू'ताम्- भाविर्भूताम्, इव उपलक्ष्यमाणां प्रतीयमानाम्, सादरम् आदरसहितम्, निरीक्ष्य दृद्वा, उत्क्षिप्तकृष्णागुरुक्षोदधूपः उत्क्षिप्तः- उन्मीलितः, कृष्णागुरोः “कृष्णं गुणाधिकं तत्तु लोहवद् वारि मज्जति" इत्युक्तगुणकस्य काष्टविशेषस्य, मः क्षोदः - चूर्णम्, तत्सम्बन्धी धूपो येन तादृशः, परमया अत्यन्तया, भत्तया प्रीत्या, प्रणम्य, पुरस्तात् तस्या अग्रे, नातिदूरे समीपे समुपविष्टः सम्यगासितः सन् मुखनिविष्टनिश्चलदृष्टिः मुखे-लक्ष्म्या चदनप्रदेशे, निविष्ठालमा, निश्चला - निःस्पन्दा, दृष्टिर्येन तादृशः, आनर्तितशिखण्डिना आ - समन्तात्, नर्तितः- उल्लासातिशयेन नाटितः, शिखण्डी - मयूरो येन तादृशेन, दत्तमार्जन मृदङ्गस्तनितगम्भीरेण दत्तं सम्पादितम्, मार्जनं प्रोञ्छना दिद्वारेण शोधनं यस्य तादृशस्य, मृदङ्गस्य-वाद्यविशेषस्य यत् स्तनितं - ध्वनिविशेषः, तद्वद् गम्भीरेण-धीरेण, "खरे सत्त्वे च नाभौ च त्रिषु गम्भीरता शुभा” इत्यत्रोक्तसौन्दर्यकेणेत्यर्थः, खरेण, पुष्टार्थाभिः पुष्टः- पूर्णः, अर्थो यासां तादृशीभिः स्तुतिमिः देव्या गुणोक्तिभिः, सङ्गीतकं नृत्यवादिनादिविशिष्टगीतम्, प्रस्तावयन्निव निष्पादयन्निव गायन्निवेति यावत्, अतिचिरम् अतिदीर्घकालम्, तुष्टाव लक्ष्मीमस्तौषीत् [ ] । च पुनः समापितमन्त्रजपविधिः सम्पादितमन्त्र जपानुष्ठानः, किथस्यपि कतिपयेऽपि, समये, अतिक्रान्ते व्यतीते, देवतागृहात् लक्ष्मीमन्दिरात्, विनिर्गत्य निःसृत्य, दर्शनार्थे लक्ष्मी
१४ तिलक०