SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ टिप्पनक-परागविवृतिसंवलिता नातिखवं नातिविस्तीर्णमल्पस्तम्भपरिकरमप्रांशुप्राकारकृतपरिक्षेपमनुपलक्षितान्योऽन्यसन्धिभागैराभोगशालिभिः प्रकाममसृणैर्मणिशिलातलैरवनद्धविस्तीर्णाङ्गणमतिमनोहरतया सुरलोकवासिनामप्युत्पादितनिवासस्पृहं देवतागृहमकारयत् । तत्र चातिप्रशस्तेऽहनि यथायोग्यमर्चितसमस्तपूज्यवर्गः परिपूर्णसर्वावयवां सर्वप्रतिमालक्षणोपेतां सर्वालङ्कारभूषितवपुर्ललां सर्वलोकलोचनानन्दजननी सर्वदोषनिर्मुक्तामत्युदारमुक्ताशैलदारुसम्भवां भगवत्याः श्रियः प्रतिकृति यथाविधि प्रतिष्ठाप्य प्रतिपन्ननैष्ठिकोचितक्रियो मुनिप्रदर्शितेन क्रमेण प्रतिदिनमुपासाञ्चके [2]। तथाहि-प्रातरेवोत्थाय प्रस्थितः प्रथमतरमुत्थितैरितस्ततो निपतितावश्यायजलदलितकेसराणि प्रत्यप्रविकसितानामुद्यानवीरुधां कुसुमान्यवचिन्वानैः प्रयत्नवद्भिः परिचारकैरनुगम्यमानः, गत्वा कृत्रिमाद्रिपरिसर तैः गुरुबन्धुबुद्धिसचिवजनैः, कार्यगौरवं कार्यस्य-देवताऽऽराधनस्य, गौरवं माहात्म्यम् , आलोच्य विविच्य, अभ्यनुज्ञातः दत्ताभ्यनुज्ञः सन् राजा, आकीडपर्वतस्य "आक्रीडः पुनल्यानं राज्ञामन्तःपुरोचितम्" इति कोशोक्तस्य अन्तःपुरक्रीडापर्वतस्य, सन्निधौ निकटे, प्रमदवनमध्ये अन्तःपुरक्रीडोपवनमध्ये एव, देवतागृहं देवतामन्दिरम् , अकारयत् निर्मापितवान् । तत् कीदृशम् ? नातिखर्व नातिविस्तीर्ण नातिहखं नातिदीर्घम् , पुनः अल्पस्तम्भपरिकरम् अल्पःअनधिकः, स्तम्भपरिकरः-स्तम्भपरिवारो यस्मिंस्तादृशम् , पुनः अप्रांशुप्राकारकृतपरिक्षेपम् अप्रांशुभिः-अनतिशयोचतैः, प्राकारैः आवेष्टनकुडथैः, कृतः, परिक्षेपः-परिवेष्टनं यस्य तादृशम् , पुनः अवनद्धविस्तीर्णाङ्गणम् अवनद्धं-सम्यग्बद्धम् , विस्तीर्ण-विशालम् , अङ्गण-प्राङ्गणं यस्य तादृशम् , कैः ? मणिशिलातलैः मणयः-मौक्तिकहीरकादयः, शिला-मनःशिला, मणिमय्यः शिला वा-मणिशिलाः, तासां तलैः, कीदृशैस्तैः ? अनुपलक्षितान्योऽन्यसन्धिभागैः अनुपलक्षितः-सुश्लिष्टतया अप्रतीतः, अन्योऽन्यसन्धिभागः-परस्परश्लिष्टांशो येषां तादृशैः, पुनः आभोगेन-अतिविस्तरेण, शालन्ते-शोभन्ते ये तैःआभोगशालिभिः, प्रकाममसणैः अतिकोमलैः, पुनः कीदृशं देवतागृहम? अतिमनोहरतया निरतिशयसुन्दरतया. मुरलोकवासिनामपि स्वर्गवास्तव्यानामपि, देवानामपीत्यर्थः, उत्पादितनिवासस्पृहम् उत्पादिता-उन्मीलिता, निवासस्मृहा-निवासेच्छा येन तादृशम् , स्वर्गीयगृहादपि सुन्दरमित्यर्थः । च पुनः, तत्र तस्मिन् देवतामन्दिर इत्यर्थः, अतिप्रशस्ते शुभयोग-नक्षत्र-लग्नादिशालिनि, अहनि दिने, यथायोग्यं यथोचितम् , अर्चितसमस्तपूज्यवर्गः अर्चितः-प्रथम पूजितः, समस्तः-समग्रः, पूज्यानां-मुख्यदेवताङ्गभूतपूजनीयदेवानाम् , वर्ग:-समूहो येन तादृशः सन् , राजेति शेषः, परिपूर्णसर्वावयवां परिपूर्णाः-प्रतिमावयवपरिमाणपरिमिताः, अवयवाः-हस्तपादादयो यस्यास्तादृशीम् , सर्वप्रतिमालक्षणोपेतां सर्वैःसमस्तैः, प्रतिमालक्षणैः-लक्षणशास्त्रोक्तमूर्तिचिह्नः, उपेतां लक्षिताम् , सर्वालङ्कारभूषितवपुलतां सर्वैः, अलङ्कारः-कङ्कणकेयूरादिमिः, भूषिता-अलङ्कृता, वपुलता-वपुः शरीरमेव कोमलत्वादायतत्वाच लता यस्यास्तादृशीम् , सर्वलोकलोचनानन्दजननीं सर्वेषां लोकानाम् , लोचनाना-नेत्राणाम् , आनन्दजननीम्-उल्लासिनीम् , सर्वदोषनिर्मुक्ता छिद्रादिनिखिलदोषशन्याम् , अत्युदारमुक्काशैलदारुसम्भवाम् अत्युदारा:-अतिशयेनोदारा उत्कृष्टाः, या मुक्ताः-मौक्तिकाख्यमणिविशेषाः, शैलदारु-तदाख्यमणिविशेषः, काष्ठविशेषो वा, तत्सम्भवां-तन्मयीम् , भगवत्याः श्रियः लक्ष्म्याः , प्रतिकृति प्रतिमाम् , यथाविधि विधिसहितम्, प्रतिष्ठाप्य, प्रतिपन्ननैष्टिकोचितक्रियः प्रतिपन्ना-खीकृता. नैष्ठिकस्य-आजन्मब्रह्मचारिणः, उचिता-योग्या, क्रिया-स्त्रीसङ्गादिवर्जन!त्मिका येन तादृशः सन् , क्रमेण यथाक्रमम् , प्रतिदिनं सर्वस्मिन् दिने, उपालाञ्चके राजश्रियमाराधयामास [ट ] | तत्क्रममुपदर्शयति-तथाहीति । प्रातरेय ब्राह्ममुहूर्त एव, उत्थाय जागरित्वा, प्रस्थितः शयनागारान्निर्गतः, प्रथमतरं सर्वप्रथमम् , उत्थितैः जागरितैः, इतस्ततः यत्र तत्र, निपतितावश्यायजलदलितकेसराणि निपतितेन, अवश्यायजलेन-हिमजलेन, "आवश्यायस्तु नीहारः" इत्यमरः, दलिताः-खण्डिताः उत्फुल्ला वा, केसराः-तन्तवो येषाम् , तादृशानि, प्रत्यप्रविकसितानाम् अभिनवपुष्पितानाम् , उद्यानवीरुधां क्रीडाकाननलतिकानाम् , कुसुमानि पुष्पाणि, अवचिन्वानः त्रोटयित्वा संगृहद्भिः, प्रयत्नवद्भिः श्रमशीलः, परिचारकैः खसेवकः, अनुगम्यमानः पश्चादेशावच्छेवेनाश्रीयमाणः, कृत्रिमाद्रिपरिसरसरिति कृत्रिमः-क्रियया निवृत्तः, नेतरादिरिव
SR No.008455
Book TitleTilakamanjiri Part 1
Original Sutra AuthorN/A
AuthorDhanpal Mahakavi, Shantyasuri, Lavanyasuri
PublisherVijaylavanyasurishwar Gyanmandir Botad
Publication Year
Total Pages196
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy