SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ तिलकमञ्जरी । १०३ क्षमे तत्र निक्षिप्य निजराजसम्पदं समर्प्य प्रजाः प्रस्थितेन त्वयैव सहिता गमिष्यति पश्चिमे वयसि वनम् ; अस्माकमप्येतदर्थ एवायमारम्भः, अन्यथा गृहस्थकार्येषु कर्तव्येषु सर्वारम्भनिवृत्तानां को यतीनामधिकारः ' इत्युक्त्वा पुनरवादीत्- 'नरेन्द्र ! पुष्करद्वीपागतेन मयाऽपि जम्बूद्वीपवर्तिषु प्रधानतीर्थेषु सम्प्रति प्रयातव्यम्, अनुजानीहि माम्' इत्यभिधाय संवृतवल्कलांशुको जपञ्शनकैराकाशगमनदायिनीं विद्यामासनादुत्तस्थौ, अनूत्थितयोश्च तयोरादरकृतप्रणामयोः क्रमेण निक्षिप्य पक्षपातार्द्रतारकं चक्षुरीषदुत्क्षिप्त दक्षिणकरः स्फुटाक्षरोचारया गिरा दत्त्वाऽऽशिषमन्तरिक्षमुदपतत् [ अ ] । अन्तरितदर्शने च तस्मिन् रणरणकदूयमानः शून्य इव पार्थिवः स्थित्वा मुहूर्त हर्म्यशिखरादवततार । निर्वर्तितमाध्याह्निकविधिञ्च तत्कालकृतसन्निधीनां गुरूणां बान्धवानां बुद्धिसचिवानां च यथावृत्तं सर्वमेव मुनिवृत्तान्तमाख्यत्, देवताराधनविषये चापृच्छत् । उच्छिद्यमानभरतवंशदर्शननित्योद्विमैश्च तैरालोच्य कार्यगौरवमभ्यनुज्ञातः प्रमदवनमध्य एव सन्निधावाक्रोडपर्वतस्य अनुभवतु । ततः तदनन्तरम्, धृताधिज्यधनुषि घृतं स्वकरगृहीतम्, अधिज्यं - ज्यां मौनम्, अधिरूढम् आकृष्टमिति यावत्, धनुर्येन तादृशे भुवनभारधारणक्षमे राज्यभार ग्रहणसमर्थं तत्र तस्मिन् पुत्रे, निजराज्यसम्पदं स्वराज्यलक्ष्मीम्, निक्षिप्य निधाय, तदायत्तीकृत्येत्यर्थः । प्रजाः समर्प्य तदधीनयोगक्षेमाः कृत्वा, स्वस्थमनसा निश्चिन्तचित्तेन, पश्चिमे वयसि वार्धक्यावस्थायाम्, प्रस्थितेन वनं प्रव्रजितेन त्वया सहितैव वनं गमिष्यति, इयमिति शेषः । अस्माकमपि यतीनामपि एतदर्थं एव पुत्रोत्पादनेन गार्हस्थ्यावस्थां निस्तीर्य वानप्रस्थावस्थायां वनप्रस्थान सिद्ध्यर्थं एव, अयं प्रत्यक्षरूपः पुत्रवर वितरणात्मकः, आरम्भः प्रयासः, अन्यथा सर्वारम्भनिवृत्तानां वैराग्यवशेन बाह्यसकलकार्य व्यापारव्यावृत्तमनसाम, पतीनां मुनीनाम्, गृहस्थकार्येषु गृहस्थयोग्येषु, कर्तव्येषु कार्येषु, कोऽधिकारः ? न कोऽपीत्यर्थः । इति इत्थम्, उक्तत्वा वरदानवाक्यं कथयित्वा पुनः अधादीत् उक्तवान् । किमित्याह- नरेन्द्र !, पुष्करद्वीपात् पुष्कर नाम्नः “पढमो जंबूदीवो धाइयखण्डो य पुक्खरो तइयो । वारुणवरो चउत्थो खिरवरो पंचमो दीवो" ॥ इत्यभियुक्तोक्ततृतीयद्वीपात् आगतेन भवत्कल्याणार्थमत्रोपस्थितेन मयाऽपि, जम्बूद्वीपवर्तिषु जम्बूद्वीपस्थितेषु, प्रधानतीर्थेषु मुख्यपुण्यक्षेत्रेषु, संप्रति प्रयातव्यं प्रस्थातव्यम्, प्रस्थानं प्राप्तकालमित्यर्थः । माम् अनुजानीहि प्रस्थातुमनुमन्यस्व । इति इत्थम्, अभिधाय प्रस्थानमा वेद्य, संवृतवल्कलांशुकः आच्छादितो वल्कलांशुकः तरुत्वग्वस्त्रं येन तादृशः, वल्कलानृताङ्गः सन्नित्यर्थः, आकाशगमनदायिनीं गगनतलोत्पतन प्रयोजिकाम्, विद्यां देव्यधिष्टितं मन्त्रम्, शनकैः उपांशुखरेण, जपन् उचारयन्, आसनात्, उत्तस्थौ उत्थितवान् । च पुनः अनूत्थितयोः - अनु-पश्चाद् उत्थितयोः, आदरकृतप्रणामयोः श्रद्धाविहिताभिवादनयोः, तयोः दम्पत्योः क्रमेण प्रथमं पत्युरुपरि ततस्तद्भार्योपरीत्येवं क्रमेण, पक्षपातार्द्रतारकं पक्षपातेन-पक्ष्मनिमीलनेन, स्नेहेन था, आर्द्रा-सरसा, तारका - कनीनिका यस्य तादृशम्, चक्षुः, निक्षिप्य निधाय, निरीक्ष्येत्यर्थः । ईषदुत्क्षिप्तदक्षिणकरः किञ्चिदुन्नमितदक्षिणहस्तः, स्फुटाक्षरोच्चारया स्फुट: -व्यक्तः, अक्षराणाम्, उच्चारःउच्चारणं यस्यां तादृश्या, गिरा वाचा, आशिषं शुभाशंसनम्, दत्त्वा कृत्वा, अन्तरिक्षं गगनम्, उपतत् उत्पतित्तवान् [ अ ] । तस्मिन् मुनौ अन्तरितदर्शने अन्तरितं - व्यवहितम्, व्यवधानप्रतिबद्धमित्यर्थः, दर्शनमवलोकनं यस्य तादृशे सति, रणरणकदूयमानः रणरण केन तद्विरहव्याकुली भावेनोत्तप्यमानः सन् पार्थिवः राजा, शून्य इव मुग्ध इव, मुहूर्त क्षणम्, स्थित्वा, हर्म्यशिखरात् प्रासादशिरोगृहात् अवततार अधस्तादाजगाम । च पुनः निर्वर्तितमाध्याह्निकविधिः निर्वर्तितः - सम्पादितः, माध्याहिक: - मध्याह्नकालिकः, विधिः - अनुष्ठानं येन तादृशः, तत्कालकृतसन्निधीनां तत्क्षण सन्निहितानाम्, गुरूणां पूज्यानाम्, बान्धवानां बन्धुजनानाम्, बुद्धिसचिवानां बुद्धौ - विचारणायाम्, सचिवानांसहायानाम्, विचारकुशलानां मन्त्रिणामित्यर्थः यथावृत्तं यथाभूतम्, सर्वमेव समस्तमेव, मुनिवृत्तान्तं मुनिसमागमना• दिसमाचारम्, आस्यत् कथितवान् । देवताराधनविषये च अपृच्छत् अभ्यनुज्ञां पृष्टवान् । उच्छिद्यमानभरतवंश. दर्शननित्योद्विशैः उच्छियमानस्य- अवरुध्यमानपरम्पराकस्य भरतवंशस्य, दर्शनेन नित्यं सततमेव, - उद्विग्नैः विषण्णैः,
SR No.008455
Book TitleTilakamanjiri Part 1
Original Sutra AuthorN/A
AuthorDhanpal Mahakavi, Shantyasuri, Lavanyasuri
PublisherVijaylavanyasurishwar Gyanmandir Botad
Publication Year
Total Pages196
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy