________________
टिप्पनक-परागविवृतिसंवलिता वाक्यमन्यथा, किं पुनरशेषभुवनवन्दितशासनस्य महातपोनिधेः, करिष्यति केवलं विहाय अपामवलम्ब्य धैर्यमुन्मुच्य स्त्रीस्वभावसुलभमप्रागल्भ्यम् ; अस्या अपि बुध्यते स्वयं वास्मन्मुखेन वा सखीवचनद्वारेण वा विवक्षितं वक्तुम् , अभ्युपगमावेदनेन च भगवतः प्रमोदं जनयितुम् , आत्मनो निर्वहणानिर्वहणे च चिन्तयितुम् ; अथवा न किञ्चिदुपदिष्टेनानेन, सम्प्रति प्रस्थिता वनमियम् , गलायां च तत्रास्यामिह स्थितस्य मे निष्प्रत्यूहमुपजातं देवताराधनम्' इत्यभिदधानं च पार्थिवमधिकतरमवनतानना रचितभङ्गुरभ्रुकुटिभूषणेन सा साभ्यसूयेव चक्षुषा तिर्यगैक्षत [ झ] | मुनिरपि मनागुपजातहास:-'राजन् ! अतिमात्रमुत्सुकस्त्वमिदानीमेव वनमिमां नेतुमिच्छसि, विधेहि तावन्मत्रजपविधिम् , आराधितप्रसन्नया राजलक्ष्म्या वितीर्णमाप्नोतु पुत्रवरमियम्, आसादयतु तत्प्रभावेण भुवनत्रयख्यातमहसमात्मजम्, पश्यतु तदीयमानन्दितसकलसंसारं कुमारभावम् , अनुभवतु तद्वधूजनोपजनितानि चरणपरिचर्यासुखानि, ततो धृताधिज्यधनुषि भुवनभारधारण
टिप्पनकम्-अनूस्थितयोश्च पश्चादुत्थितयोः []
बाहुल्येन, अपरस्यापि अन्यस्यापि, मान्यजनस्य गुरुजनस्य, वाक्यम् आदेशपरामुक्तिम् , न अन्यथा करोति अतिकामति, अशेषभुवनवन्दितशासनस्य निखिलजगदाहताऽऽदेशस्य, महातपोनिधेः तपखिप्रवरस्य, पुनः किं कथैव केत्यर्थः, केवलं किन्तु, त्रपां लज्जां विहाय, धैर्य सहनशक्तिम् , अघलम्ब्य गृहीत्वा, स्त्रीखभावसुलभम् अबलाजनोचितम् , अप्रागल्भ्यं कातरत्वम् , उन्मुच्य त्यक्त्वा, करिष्यति भगवत आदेशं पालयिष्यति, स्वयं वा साक्षाद्वा, साक्षाप्रतिपादने लजा चेदत आह-अस्मन्मुखेन घा अस्मद्वारा वा, तथाऽपि सा तदवस्थेत्यत आह-सखीवचनद्वारेण वा खसखी द्वारीकृत्य वा, अस्या अपि मदिरावत्या अपि, विवक्षितं वक्तुमभिमतम् , वक्तुं भगवतः पुरस्तात् प्रकाशयितुम् , युज्यते योग्यम् , च पुनः, अभ्युपगमावेदनेन स्वस्वीकारविज्ञापनेन, भगवतः, प्रमोदम् आनन्दम् , जनयितुम् उत्पादयितुं युज्यते, च पुनः, आत्मनः खस्य, निर्चहणानिर्वहणे खनियमपालनापालने, तदशक्यता-शक्यते इत्यर्थः, चिन्तयितुं पर्यालोचयितुम् । अथवा उपदिष्टेन कर्तव्यत्वेनानुपदमादिष्टेन, अनेन कार्यकलापेन, न किञ्चित् किमपि न प्रयोजनम् । सम्प्रति इयं वनं प्रस्थिता, तत्र वने, अस्यां मदिराक्त्याम् , गतायां सत्याम् , इह अत्र, निकेतन इत्यर्थः, स्थितस्य, मे मम, च तु, निष्प्रत्यूह निर्विघ्नम् , देवताराधनम् , उपजातं निष्पन्नम् , भविष्यतीति शेषः । इति इत्थम् , अभिदधानं कथयन्तम् , पार्थिवं राजानम् , अधिकतरम् अत्यधिकं यथा स्यात्तथा, अवनताऽऽनना अधोमुखी, सा मदिरावती, साभ्यसूयेव अभ्यसूयया-आक्षेपेण, सहितेवेत्युत्प्रेक्षा, रचितभङ्गुरझुकुटिभूषणेन रचिता-सम्पादिता,
रा-भज्जनशीला, चञ्चलेत्यर्थः, भ्रुकुटिः-नेत्रोपरितनरोमावलीकौटिल्यमेव, भूषणं यस्य तादृशेन चक्षुषा, तिर्यक सकटाक्ष यथा स्यात्तथा, ऐक्षत अपश्यत् [ झ] । मनाक किञ्चित् , “किञ्चिदीषन्मनागल्पे" इत्यमरः, उपजातहासः उत्पन्नमन्दहास इत्यर्थः, मुनिरपि इत्युक्त्वा पुनरवादीत्, किमित्याह-राजन! भो नृपते !, अतिमात्रम् अत्यन्तम् , उत्सुका खेष्टसिद्ध्यर्थमुत्कण्ठितः, स्वम् , इदानीमेव अधुनैव, इमां खभार्याम् , वनं नेतुं प्रेषयितुम् , इच्छसि, प्रवर्तसे इत्यर्थः । तावत् इदानीम् , मन्त्रजपविधि देवताभिमुखीकार कमन्त्रजपनियमम् , कुरु अनुतिष्ठ । आराधितप्रसन्नतया मन्त्रजपाद्यनुष्ठानेन पूर्वमाराधितया पश्चात् प्रसन्या वरवितरणोन्मुखीभूतया, राजलक्ष्म्या तदात्मकदेव्या, वित्तीर्ण दत्त , पुत्रवरं पुत्रस्ते भूयादित्याशिषम् , इयं मदिरावती, आमोतु प्राप्नोतु । तत्प्रभावेण वरमाहात्म्येन, भुवनत्रयख्यातमहसं जगत्त्रयविश्रुत. तेजसम् , आत्मजं पुत्रम् , आसादयतु लभताम् । आनन्दितसकलसंसारम् आनन्दितः-चेष्टाचमत्कृतिभिराहादितः, सकल:-समग्रः, संसारः-लोको येन तादृशम् , तदीयं तत्पुत्रसम्बन्धिनम् , कुमारभावं पञ्चमाब्दपर्यन्तां “जातः कुं पृथिवीं पन्यां मारयेत् स कुमारकः' इत्युक्तरूपा कौमारावस्थाम् , पश्यतु तद्दर्शनकौतुकमनुभवतु । तद्वधूजनोपजनितानि तस्य-पुत्रस्य, यो वधूजनः-यो भार्याजनः, तेनोपजनितानि-सम्पादितानि, चरणपरिचर्यासुखानि खचरणसेवाजन्यानन्दान् ,