________________
तिलकमञ्जरी।
गीतानि न निजचरणनूपुररणितानि, त्वरयितव्यः सायन्तनविधये सुघटितसन्धिभिर्मागधीश्लोकैर्न सुरतदूती. लोकैः, कारयितव्यः कण्टकिनि पत्रच्छेदविरचनं देवतार्चनकेतकदलेन कपोलतले' [ज] इत्युक्ते महर्षिगा मदिरावती त्रपातरलतारया दशाऽवलोक्य पत्युर्मुखमधोमुखीबभूव । तां च तथावस्थितां निर्वचनामधःसस्ताभिरलकवल्लरीभिर्विलक्षस्मितमिवाच्छादयितुमाच्छादितकपोलदर्पणां करनखशुक्तिभिरलग्नमपि विलेपनाकं चरणोमिकारत्नशकलेषु पुनः पुनरुल्लिखन्तीमवनतग्रीवतया सम्यगविभाव्यमानामपि तत्कालकन्दलितापूर्वशोभाकमनीयस्य मुखचन्द्रस्य चारुतां रत्नकुट्टिमावलम्बिना प्रतिबिम्बेन पिशुनयन्तीं पुनः पुनरवलोक्य कृतस्मितो नरपतिर्मुनि बभाषे- 'भगवन् ! किमिति वारं वारमेनां नियमयसि, नन्वेकवचसैव सर्वमवधारितमनया, प्रतिपन्नं चं मनसा, करिष्यति चाद्य प्रभृति सर्वं भगवदादिष्ठम् , अतिदक्षिणा ह्यसौ प्रायेणापरस्यापि मान्यजनस्य न करोति
खस्य स्थितिः, बहु श्रेयस्कर मन्तव्यम् , न न तु, रतिभवने केलिगृहे । श्रवणहारीणि कर्णकौतुकावहानि, देवतास्तुतिगीतानि देवतास्तुतिरूपाणि, गायनानि, श्रावयितव्यः श्रावणेनोल्लासयितव्यः, आत्मेति शेषः, न न तु, निजचरणनूपुररणितानि खपादपरिहितनूपुरध्वनीन् , तेषां मनोव्यामोहकत्वात् । सायन्तनविधये सन्ध्यासमयोचितानुष्ठानाय, सुघटितसम्धिभिः सुघटितः-श्रवणसुखार्थ सम्पादितः, सन्धिः-व्याकरणोक्तवर्णसंश्लेषः, अनेकार्थबोधचम येषु तादृशैः, मागधीश्लोकैः स्तुतिपाठिकापठ्यमानपद्यैः, तादृशपद्यश्रवणेनेत्यर्थः, त्वरयितव्यः आत्मा शीघ्रयितव्यः, न तु सायम्तनविधये वेषभूषाविन्यासाय, सुघटितः-सुसम्पादितः, सन्धिः-नायक-नायिकयोः सम्मेलनं यैस्तादृशैः, सुरतदूतीलोकैः सम्भोगार्थसन्देहहारिस्त्रीजनैः, आत्मा त्वरयितव्यः । कण्टकिनि कण्टकान्विते, देवतार्चनकेतकदले देवतार्चनोपकरणभूतकेतकाख्यपुष्पगुमपत्रे, पत्रच्छेदविरचनम् अन्योऽन्यसंश्लिष्टपत्राणां खण्डशो विश्लेषणकार्यम् , कारयितव्यः,
आत्मेति शेषः, न तु कण्टकिनि पुलकिते, कपोलतले गण्डमण्डले, पत्रच्छेदविरचनं चन्दनपङ्कादिना पत्रखण्ड निर्माणम् [ज] ।
महर्षिणा विद्याधरमुनिना, इति इत्थम् , उक्त कथिते सति, मदिरावती राज्ञी, पातरलतारया लजानवले. कमीनिकाशालिन्या, दृशा दृष्ट्या, पत्यु:-राज्ञः, मुखम् , अवलोक्य निरीक्ष्य, अधोमुखी नम्रमुखी, बभूव जाता । तथावस्थिताम् अधोमुखीभूयोपविष्टाम् , निर्थचना वचनरहिताम् , गृहीतमौनामिति यावत् , अधास्ताभिः खभर्तृविश्लेषनिश्चयोपचितवेदनावशेनासंयततया अधोनिपतिताभिः, अलकघल्लरीभिः कुटिलकेशरूपमअरीभिः विलक्षसितं साश्चर्यमीषद्धासम् , आच्छादयितुमिघ तिरोधातुमिवेत्युत्प्रेक्षा, आच्छादितकपोलदर्पणाम् आच्छादितौ-आवृतौ,
चलकपोलौ यस्यास्तादृशीम . पुनः करनखशक्तिभिः करनखरूपाभिः शक्तिभिः, अलग्नामपि असं. सृष्टमपि, तामिरधृतमपीत्यर्थः, विलेपाकं कुङ्कुमद्रवचिह्नम् , चरणोर्मिकारत्नशकलेषु चरणाजुलीयकरमखम्लेषु, "आई. लीयकमूर्मिका" इत्यमरः, पुनः पुनः असकृत् , उल्लिखन्तीं प्रतिबिम्बयन्तीम् , कुङ्कुमादिद्रवलेपनाभावेऽपि नैसर्गिक्या एव करनखातेरङ्गुलीयकरत्नेषु सङ्क्रान्तिरासीदिति भावः, पुनः अवनतग्रीवतया अवनता-अधोलम्बिता, ग्रीवा-कन्धरा ययां तादृशतया, सम्यगविभाव्यमानामपि सम्यक-स्फुटं यथा स्यात्तथा, अलक्ष्यमाणामपि, तत्कालकन्द लितापूर्वशोभाकमनीयस्य तत्काले-तरक्षणे, कन्दलिता-मुनिवचनश्रवणोन्मीलिता, या अपूर्वशोभा, तया कमनीयस्य-स्पृहणीयस्य, मुखचन्द्रस्य, चारुतां सुन्दरताम् , रत्नकुट्टिमावलम्विना रत्नबद्धभूमिसंक्रामिणा, प्रतिबिम्बेन, पिशुनयन्ती सूचयन्तीम्, तां मदिरावतीम् , पुनःपुनः असकृत् , अवलोक्य, कृतस्मितः कृतमन्दहासः, नरपतिः मेघवाहनः, मुनिम् , आवभाषे वक्ष्यमाणक्रमेण वक्तुमारेभे । भगवन् ! आध्यात्मिकशक्तिशालिन् !, इति अनया रीत्या, वारं वारम् अनेकवारम् , एनां मदिरावतीम् , किं किमर्थम् , नियमयसि प्रतिज्ञापयसि, ननु निश्चये, एकवचसैव भगवतः सकृदुक्त्यैव, सर्वम् , अब. धारितं निश्चितम् , श्रुतात्मकसम्यग्ज्ञानगोचरीकृतमिति यावत्, च पुनः, मनसा मननात्मकव्यापारवताऽन्तःकरणेन, प्रतिपनं मननात्मकज्ञानगोचरीकृतम् , खीकृतमित्यर्थः,च पुनः, अद्य प्रभृति अद्यारभ्य, भगवदादिष्टं भगवदाज्ञप्तम्, सर्व करिष्यति अनुष्ठास्यति, हि यतः, अतिदक्षिणा अतिशयेन गुरुजनादेशानुवर्तननिपुणा, असौ मदिरावती, प्रायेण