________________
टिप्पनक-परागविवृतिसंवलिता पात्रकृतोपकारतया कृतार्थमात्मानं मन्यमानस्तूष्णीक एव क्षणमात्र स्थित्वा किश्चिदलितकन्धरो भर्तुः पृष्ठभागे समुपविष्टां विनयनिभृतवपुषं प्रहर्षनिर्भरां मदिरावती प्रसादाया दृष्टया सुचिरमवलोक्य सस्मितमवादीत्
'राजपुत्रि ! निवर्तितस्तावदरण्यगमनादेष ते प्रणयी जनः, नियोजितश्चातिदुष्करे देवताराधनकर्मणि, मा स्म कुप्यश्चेतसि यदस्माभिरकृत्या प्रश्नमश्नुत्या प्रतिवचनमगृहीत्वाऽनुमतिं महाभागायाः कृतास्य चेतसो नियश्रणा, निवारणा च विषयोपभोगसुखानाम् , अत्र च भवत्कल्याणसम्पादनसत्वरा चित्तवृत्तिरेवापराध्यति, न बुद्धिः । कल्पश्चायं यतोऽस्य कतिचिद् दिनानि दूरस्थितयैव कल्याणभागिन्या सर्वापि कर्तव्या भर्तृजनोचिता प्रतिपत्तिः, तथाहि-आत्मा निवारणीयो धृत्या न वृत्त्या, स्वभावस्निग्धयोपसर्पणीयो दृष्ट्या न काययष्टया, सम्भाषयितव्यो मनसा न वचसा, प्रेषयितव्याः शरीरवार्तापलम्भाय सख्यश्चतुरवर्णरेखा नानङ्गलेखाः, बहु मन्तव्यमवस्थानं विरलपरिजने देवतायतनवने न रतिभवने, श्रावयितव्यः श्रवणहारीणि देवतास्तुति
टिप्पनकम्-मागधी-नग्नाचार्यभार्या । कण्टकिनि कण्टकयुक्ते, रोमाञ्चिते च [ज] ।
तृप्तमनाः, मुनिः, पात्रकृतोपकारतया पात्रे-योग्यजने, कृत उपकारो येन तादृशतया, आत्मानं कृतार्थ कृतकृत्यम् , मन्यमानः, तूषणीक एव गृहीतमौन एव, क्षणमान स्थित्वा, किञ्चिदलितकन्धरः किञ्चिद्-ईषद्, वलिता-चलिता, तिर्यग्भूतेत्यर्थः, कन्धरा-ग्रीवा यस्य तादृशः सन् ,भर्तुः पत्युः, मेघवाहननृपतेरिति यावत् , पृष्ठभागे पश्चाद्भागे, समुपविष्टां सम्यगासिताम् , बिनयनिभृतवपुषं विनयनिश्चलशरीराम , प्रहर्षनिर्भर प्रहर्षेण-प्रकृष्टहर्षेण, निर्भरा-पूर्णम् , मदिरावती तत्संज्ञकराज्ञीम्, प्रसादाया प्रसादेन-प्रसन्नतया, आर्द्रया-सरसया, दृष्टया, सुचिरं सुदीर्घकालम् , अवलोक्य निरीक्ष्य, सस्मितम् ईषद्धासान्वितं यथा स्यात्तथा, अवादीत् वक्ष्यमाणरीत्या अवोचत् । किमित्याह-राजपुत्रि! राजकन्ये!, ते तव, एष, प्रणयी प्रियो जनः, तापदिति वाक्यालङ्कारे, अरण्यगमनात् वनगमनात्, निवर्तितः निवारितः। च पुनः, अतिदुष्करे अतिदुस्सम्पादे, देवताराधनकर्मणि देवार्चनकार्ये, नियोजितः प्रवर्तितः, चेतसि मनसि, मा स्म कुप्यः न कोपं कुरु, यत् यस्मात् , अस्माभिः, प्रश्नमकृत्वा वामपृष्त्यर्थः, महाभागाया: महानुभावाया भवत्याः, प्रतिवचनम् उत्तरवाक्यम् , अश्रुत्वा, अनुमति सम्मतिम् , अगृहीत्वा अप्राप्य, अस्य तव पत्युः, चेतसः मनसः, नियन्त्रणा अरण्यगमन प्रतिबन्धः, विषयोपभोगसुखानां विषयाः-चक्षुरादीन्द्रियगोचरा रूप-रस-गन्धस्पर्श-शब्दाः, तेषामुपभोगः-तत्तदिन्द्रियेणानुभवः, तज्जन्यसुखानाम् , निवारणा च कृता विहिता । अत्र च अस्मिंस्तु, वनगमनादिसमर्थनकार्ये, भवकल्याणसम्पादनसत्वरा भवत्याः, कल्याणस्य-शुभस्य, सम्पादने-साधने, सत्वराक्षिप्रकारिणी, चित्तवत्तिरेव मदीयमनोवृत्तिरेव, अपराध्यति निवारणात्मकमपराधं करोति, न तु बद्धि मडीयमत्या तु सुखसाध्यकार्यापेक्षया कष्टसाध्यकार्यस्यैव फलसिद्धौ श्रेष्ठत्वसमर्थनात् । कल्पश्च देवतार्चनस्य विधिश्च, अयं विषयोपभोगसुखनिवारणाचारः, “कल्पे विधि-क्रमौ” इत्यमरः, यतः यस्माद्धेतोः, कतिचिहिनानि कतिपयदिवसान् , कल्याणभागिन्या सौभाग्यशालिन्या भवत्या, दूरस्थितयैव दूरत एव, अस्य स्खभर्तुः, भर्तृजनोचिता भर्तृयोग्या, प्रतिपत्तिः सत्किया, शुश्रूषेत्यर्थः, कर्तव्या विधातव्या, न तु समीपतः, तथा सति मनोविक्षेपापत्तेः । कथमित्याह तथाहि, आत्मा खः, धृत्या धैर्येण, तुष्ट्या वा हेतुना, निवारणीयः भर्तुावर्तनीयः, न तु वृत्य। तदुचितनिजाचरणेन सह, तवुचिताचारस्य दूरतोऽपि रक्षणसम्भवात् । स्वभावस्निग्धया नैसर्गिकस्नेहाईया, दृष्ट्या दृष्टिद्वारा, आत्मा, उपसर्पणीय: पतिपार्थ प्रेषणीयः, न तु स्वभावस्निग्धया प्रकृतिकोमलया, काययष्ट्या यष्टिवत्कृशकायद्वारा । मनसा मनोवृत्तिभूतया भर्तृचरणप्रीत्यैव, आत्मा, सम्भावयितव्यः सम्माननीयः, न तु वचसा भर्ता सह वाखिलासेन शरीरवातोपलम्भाय, तदीयवास्थ्यसमाचारबोधाय, चतरवर्णरेखा: मनोगतार्थसङ्केतनकुशलाक्षरपद्भिरूपा एव, सख्या, प्रेषयितव्या: प्रेषणाहीः, न तु चतुरः-पुरुषान्तःकरणहरणनिपुणः वर्ण:-गारवर्णः, रेखा-कपोलपत्र रचनादिचिहं च यासां तादृश्यः, अनङ्गलेखाः वेश्यारूपाः सख्यः, तासां मनोमादकत्वात् , "वेश्यायां तु खगालिका, वारवामिः कामलेखा क्षुद्रा" इत्यंभ्यत्रोक्तः । विरलपरिजने विरलाः खल्याः, परिजनाः-पान्धवजना यस्मिन् तादृशे, देवतायतनपने देवताधिष्ठितवने, अवस्थानं