________________
तिलकमञ्जरी। चेतसा भक्तिमजनैकचिन्तामणिमिमाम् , अतिमहाप्रभावा ह्यसौ प्रयत्नवता पुरुषविशेषेण सततमाराध्यमाना नास्ति तत् फलं यन्न साधयति, फलाभिमुखीभूता च त्रिलोकीपतेः पुरन्दरस्यापि चेतो विधेयीकरोति, किमुतापरासां देवतानाम् । केवलं कर्तव्येषु दृढमप्रमादिना भवितव्यम् , आलोचितव्यं च सम्यक्प्रज्ञया प्रस्तावोचितमनुष्ठानम् , प्रज्ञोद्यमावरणिमन्थाविव हविर्भुजः पितरौ कार्यसिद्धेः, तौ हि पुरुषव्यापारानुगृहीती नास्ति तद् वस्तु यन्न साधयतः' [च] इत्यभिधाय कृतपावलोकनो विहितमन्त्रदेवतानुध्यानविधिविधाय नरपतेरात्मनश्च वपुषि रक्षामन्त्राक्षरमयं कवचमुपकर्णमूलमनुच्चकैरुच्चरिताक्षरपदस्ता विद्यां न्यवेदयत् । राजाऽपि सविनयाबद्धकरसम्पुटः श्रद्धावता हृदयेन परमनुगृहीतमात्मानं मन्यमानो विधानतस्ता जग्राह, संज्ञादिष्टपरिजनसम्पादितैश्च सामान्यमनुजेश्वरगृहदुर्लभैः पुष्पैः फलैः पत्रैरंशुकै रत्नाभरणैश्च भूरिभिः परमया भक्त्या रोमाञ्चिततनुर्मुनिमर्चयाञ्चकार [ छ ]। विरते च पूजाया राजनि पुनः स्वस्थानोपविष्टे प्रीतहृदयो मुनिः
अशून्यं पूर्ण कुरु। च पुनः, तस्य देवतार्चनस्य, अवसाने अन्ते, जप्यचरितसमाहितेन जप्यचरितेषु-जप्यस्य जपयोग्यस्य देवस्य चरितेषु, समाहितेन-तद्भावनैकाग्रतां गमितेन, चेतसा मनसा, भक्तिमजनैकचिन्तामणि भक्तिमन्तः-सेवाकारिणः श्रद्धालवो वा ये जनास्तेषां कृते, एकम्-अद्वितीयम् , चिन्तामणि-सद्यश्चिन्तिताखिलेष्टसाधकमणिविशेषरूपाम् , इमां मयोपदिश्यमानां विद्याम् , जप जापं कुरु, अतिमहाप्रभावा निरतिशयशक्तिशालिनी, असौ विद्या, प्रयत्नवता उद्यमवता, पुरुषविशेषेण भक्तिमता पुरुषेण, सन्ततं निर्विच्छेदम् , आराध्यमाना उपास्यमाना सती, तत् फलं नास्ति जगति न विद्यते, यद् न साधयति न साधयितुं शक्नोति । च पुनः, असौ फलाभिमुखीभूता फलप्रदानपरा सती, त्रिलोकीपतेः लोकत्रयेश्वरस्य, पुरन्दरस्यापि इन्द्रस्यापि, चेतः हृद्यम् , विधेयीकरोति वशीकरोति, किमुत का कथा, अपरासाम् अन्यासां देवतानाम् , केवलं किन्तु, कर्तव्येषु देवार्चनादिनियमपालनेषु, दृढम् अत्यन्तम् , अप्रमादिना अनवधानशून्येन, निरन्तरमवहितहृदयेनेति यावत् , भवितव्यं वर्तितव्यम् । च पुनः, सम्यक्प्रशया विवेकनुध्या, प्रस्तावोचितं प्रस्तावस्यअवसरस्य, उचित-योग्यम् , अवसरानुकूलम् , अनुष्ठान कार्यसम्पादनम्, आलोचितव्यं विवेचनीयम।। हविर्भुजः अग्नेः, अरणिमन्थाविव अरणिः-अग्निप्रादुर्भावककाष्ठविशेषः, मन्थः-तयोः काष्ठयोः संघर्षः, ताविव, प्रशोद्यमौ प्रज्ञा-विवेकबुद्धिः, उद्यमः-उद्योगः, तौ, कार्यसिद्धेः कार्यसाफल्यस्य, पितरौ जनको । हि यतः, तौ प्रज्ञोद्यमौ, पुरुषव्यापारानुगृहीतौ पुरुषस्य व्यापारेण-कार्यानुष्ठानेन, अनुगृहीती-सहकृतौ सन्तो, तद्वस्तु तादृशमिष्टवस्तु, नास्ति न वर्तते, यन्न साध. यतः न सम्पादयतः, न प्रापयत इति यावत् । इति इत्यम् ,अभिधाय उक्त्वा, कृतपावलोकनः कृतं पार्श्वयोरवलोकन जनान्तराभावपरीक्षणं येन तादृशः सन् , विहितमन्त्रदेवतानध्यानविधिः विहितः-कृतः. मन्त्रदेवतायाः-मन्त्रा देवतायाः, अनुध्यानस्य-स्मरणस्य, विधिः-मनस्समाधानात्मकव्यापारो येन तादृशः सन् मुनिः, नरपते राज्ञः, आत्मनश्च खस्य च, वए रे, रक्षामन्त्राक्षरमयं रक्षायाः-शरीररक्षणस्य, यानि मन्त्राक्षराणि तन्मयं कवच-वर्म, विधाय परिधाय, उपकर्णमूलं कर्णमूलसमीपे, अनुच्चकैः अतिमन्दवरेण, उच्चरिताक्षरपदः उच्चरितानि अक्षराणि पदानि च येन तादृशः सन् , ताम् अपराजितां विद्याम् , न्यवेदयत् उपदिष्टवान् । सविनयाबद्धकरसम्पुटः सविनय-विनयसहित यथा स्यात्तथा, आ-समन्तात् , बद्धः-निर्मितः, करयोः-हस्तयोः, संपुट:-संश्लेषणं येन तादृशः, कृताम्रलिरित्यर्थः, राजाऽपि मेघवाहनोऽपि, श्रद्धावता प्रीतिपूर्णेन, हृदयेन, आत्मानं खम् , परम् अत्यन्तम् , अनुगृहीतम् अनुकम्पितम् , मन्यमानः खीकुर्वाणः, विधानतः विधिपूर्वकम् , तां विद्याम् , जग्राह गृहीतवान् । च पुनः, परमया अत्यन्तया, भक्त्या प्रीत्या, रोमाञ्चिततनुः पुलकितशरीरः, राजा, संज्ञादिष्टपरिजनसम्पादितैः सम्यग् ज्ञायते यया सा संज्ञासङ्केतविशेषः, तया, आदिष्टाः-प्रवर्तिता ये, परिजना-खजनास्तैः, सम्पादितैः समानीयोपकल्पितैः, सामान्यमनुजेश्वरगृहदुर्लभैः सामान्यमनुजेश्वरगृहे-साधारणनृपमन्दिरे, दुष्प्रापैः, भूरिभिः बहुभिः, पुष्पैः मनोहरकुसुमैः, फलैः नैवेद्यभूतकदल्यादिफलैः, पत्रैः तत्स्थापनाय कदलीप्रभृतिदलैः, रत्नाभरणैः रत्नालङ्करणैः, मुनि विद्याधरमुनिम् , अर्चयाञ्चकार पूजयामास [छ ] 1 च पुनः, राजनि पूजाया विरते निवृत्ते, पुनः खस्थानोपविष्टे खस्थानस्थिते च सति, प्रीतहदय:
.