________________
९८
टिप्पनक-परागविवृतिसंवलिता चरणेन, मुञ्चारण्यगमनस्पृहाम् , गृहावस्थित एव कुरु देवताराधनम् , अर्पय समस्तस्यापि वनवासोचितस्य क्लेशस्याङ्गम् , अङ्गीकुरु मुनिव्रतक्रियाम् । किं ते दूरवर्तिनीभिरपराभिर्दुराराध्याभिर्देवताभिः; इमामेव प्रकृतिसौम्यां सततसन्निहितामुपास्स्व सकलक्षितिपालकुलदेवतां राजलक्ष्मीम्, इयं हीक्ष्वाकुभरतभगीरथादिभूपालपराक्रमक्रीता त्वदन्वयनिसर्गपक्षपातिनी त्वया सकलभुवनप्रतीक्ष्येण शुचिना धार्मिकेण निगृहीतेन्द्रियवृत्तिना दृढभक्तिनात्युदाराशयेन प्रमादपरिहारिणा कालोचितज्ञेन प्रक्रमप्रकटितक्षात्रतेजसा विधिवदाराध्यमाना नियमात् प्रसादं गमिष्यति, अभिमतार्थविषयं च वरमचिरेण वितरिष्यति []। अमूं च भक्तिप्रवणेन चेतसा गृहाण निर्विकल्पमल्पपुण्यजनदुर्लभां त्रिभुवनख्यातयशसमपराजिताभिधानामशेषविद्याधरेन्द्रवन्दितां विद्याम् , कुरु दिवसस्य रात्रेश्च भागत्रयमशून्यं देवार्चनेन, अवसाने च तस्य जप जप्यचरितसमाहितेन
टिप्पनकम्-प्रतीक्ष्यः-पूज्यः [क]।
अस्याः पुरोवर्तिन्याः, निजप्रणयिन्याः स्वप्रियायाः, प्रतिकूलाचरणेन अनभिमताचरणेन, चित्तखेद हृदयविषादम् , मा समुत्पादय न जनय । अरण्यगमनस्पृहां वनगमनकामनाम् , मुश्च यज । गृहावस्थित एव निजनिकेतने स्थित एव, देवताराधनं खेष्टदेवतोपासनं कुरु । समस्तस्यापि सर्वस्यापि, वनवासोचितस्य वनवासभोग्यस्य, क्लेशस्य कष्टस्य, अङ्गं तादृशकष्टसहनक्षम शरीरम् , अर्पय समर्पय, गृहे स्थित्वैव वनवासोचितनियमान् सहस्खेत्यर्थः । मुनिवतक्रियां मुनिव्रतानां-तद्योग्योपवासादिनियमानाम् , क्रियाम्-अनुष्ठानम् , अङ्गीकुरु स्वीकुरु । दूरवर्तिनीभिः अरण्यरूपदूरस्थानस्थाभिः, दुराराध्याभिः दुःखेनाराधनीयाभिः, अपराभिः खराज्यलक्ष्या अन्याभिः, देवताभिः, ते तव, किम् ? न किमपि प्रयोजनमिति भावः। प्रकृतिसौम्यां निसर्गमनोहराम् , सततसन्निहिताम् अनवरतं समीपगाम् , सकलक्षितिपालकुलदेवतां सकलानां सर्वेषाम् , क्षितिपालाना-नृपाणाम् , कुलदेवतां कुलपरम्परोपास्यदेवताम् , इमां प्रत्यक्षभूताम् , राजलक्ष्मी राजसम्पत्तिमेव, राजसम्पदधिष्ठात्री लक्ष्मीनाम्नी देवीमेवेत्यर्थः, उपास्स्व आराध्य । हि यतः, इक्ष्वाकु-भरतभगीरथादिभूपालपराक्रमक्रीता इक्ष्वाकु-भरत-भगीरथादयो ये, भूपालाः-प्राचीननृपतयः, तेषां पराक्रमेण-सामर्थेन, क्रीता-अर्जिता वशीकृतेत्यर्थः । त्वदन्वयनिसर्गपक्षपातिनी त्वदन्वयस्य-स्वद्वंशस्य, निसर्गेण-खभावेन, पक्षपातिनीप्रणयिनी । इयं राजलक्ष्मीः । सकलभुवनप्रतीक्ष्येण निखिलजगतः, प्रतीक्ष्येण-पूज्येन, शुचिना पवित्रेण, धार्मिकेण धर्माचारिणा, निगृहीतेन्द्रियवृत्तिना वशीकृतेन्द्रियव्यापारेण, दृढभक्तिना पूजनीयजनविषयकस्थिरप्रीतिशालिना, अत्युदाराशयेन परमोच्चहृदयेन, प्रमादपरिहारिणा प्रमादमनवधानतां परिहर्तुं शीलमस्य तादृशेन, प्रमादशून्येन, कालोचितशेन यस्य कालस्य यत् कार्यमुचितं योग्यं तदभिज्ञेन, इदमस्मिन् काले कर्तव्यमित्येतादृशप्रज्ञासम्पन्चेनेत्यर्थः, प्रक्रमप्रकटित. क्षात्रतेजसा प्रक्रमेण--क्रमशः, यद्वा प्रक्रमे-अवसरे, प्रकटितम्-आविष्कृतम् , क्षात्रतेजः-क्षत्रस्येदं क्षात्रम् , क्षत्रियसम्बन्धि, तेजः-सामर्थ्य शौर्यमित्यर्थः, येन, यद्वा क्षात्रेषु-“शौर्य तेजो धृतिर्दाक्ष्यं युद्धे चाप्यपलायनम् । दानमीश्वरभावश्च क्षात्रं कर्म खभावजम्" ॥ इति गीतागीतेषु क्षत्रियसम्बन्धिकर्मसु, तेजः-पराक्रमो येन तादृशेन त्वया, यद्वा प्रक्रमे-देवताराधनावसरे, प्रकटितं-नानोपद्रवोपनिपातेऽप्यविचलतया प्रकाशितम् , क्षात्रतेजः-क्षत्रियपरम्परागतप्रौढसामर्थ्य येन तादृशेन त्वया, विधिवत् शास्त्रोक्तकमेण, आराध्यमाना उपास्यमाना सती, नियमात् निश्चयेन, प्रसादं प्रसन्नताम् , गमिष्यति अनुभवि. ध्यति । च पुनः, अभिमतार्थविषयम् अभिमतः-अभिलषितो योऽर्थः-पुत्ररूपः, तद्विषयं-तजनकम्, वरम् आशीवक्यिम् , अचिरेण अविलम्बेन, वितरिष्यति दास्यति [ङ]। च पुनः, अल्पपुण्यजनदुर्लभाम् अल्पं-परिमितम् , पुण्यं-सुकृतं येषां तादृशैर्जनैः, दुर्लभां-दुष्प्रापाम् , त्रिभुवनस्यातयशसं लोकत्रयप्रसिद्धप्रभावाम् , अशेषविद्याधरेन्द्रवन्दिताम् अशेषैः-समस्तैः, विद्याधरेन्द्रैः विद्याधर श्रेष्ठैः, वन्दिताम्-आदृताम् , अपराजिताभिधानां न पराजिता कदाचिदन्यविधयेत्यपराजिता, अभिधानम्-अन्वर्थनामधेयं यस्यास्तादृशीम् , अमूम् अनुपदमुपदेश्यमाणाम् , विद्यां देवीसमधिष्ठितमत्ररूपाम् , भक्तिप्रवणेन प्रीतिपूर्णेन, चेतसा, निर्विकल्पं ग्रहीतव्यत्वसंशयशून्यं यथा स्यात्तथा, गृहाण अवधारय । दिवसस्य दिनस्य, रात्रेश्च, भागत्रयं प्रातमध्याहसायरूपान् प्रदोषनिशीथोच्चन्द्ररूपास्नीन भागान् , देवतार्चनेन देवतापूजनेन,