________________
तिलकमञ्जरी ।
९७
"
यथा तव तथा ममाप्याराधनीया देवता, एवं च कस्मात् परित्यज्य मामेक एव व्रजसि वनम् अथ मन्यसे मदीयाराधनेनैव सिद्धं तचाराधनमिति कस्यात्र सन्देहः, किन्त्विदानीं त्वमुज्झितापरान्तःपुरिकासमीहितो मत्कृते व्रतं चरिष्यसीति वचनशतैरपि न प्रत्येमि, न च त्वया विरहिता मुहूर्तमपि स्थातुं शक्रोमि, तदवश्यं मयापि गन्तव्यमरण्यम्, अवमन्य चेदं गच्छसि मां गच्छ, सिध्यतु तवाभीघ्रम् दृष्टस्त्वमधुनैव' इत्यभिदधाना ललाटविलुलितविशृङ्खलालकपद्धतिरधोमुखीभूता, भूयोऽप्यनुबध्यमानया च निःशब्दमवजिताब्दजलधारैरश्रुधारै रुदितमनया, न पुनः किञ्चिदुदितम् [घ] । तदियमस्थान एवात्मानुगमनेन कुर्वती मे गमनभङ्ग भगतोऽपि युज्यते वक्तुं यथायुक्तम्' इत्युक्तवति पार्थिवे चित्तपरिभाविततदीयोपतापदन्तोद्वेगो मुनिस्तत्क्षणमेव योगनिद्राभगात् । उन्मुद्रितेक्षणञ्चानतिचिरेण सप्रहर्षो नृपमुवाच
'राजन् ! भुक्तभूयिष्ठमधुना वर्तते तवापत्यसन्ततिप्रतिबन्धकमदृष्टम्, अतो मनसि धृतिमाधेहि, मा विधाः स्वल्पमपि विषादम, मा समुत्पादय चित्तखेदमस्याः सदा सुखोचिताया निजप्रणयिन्याः प्रतिकूला
. कार्यस्य, सिद्धये - निष्पत्तये, प्रस्थितस्य कृतारण्यप्रस्थानस्य, तव, अहं न प्रतिपन्थिनी प्रतिबन्धिनी । किञ्च किन्तु, पुनः, इदं विज्ञापयामि बोधयामि । किमित्याह - यथा येन प्रकारेण तव देवता आराधनीया, तथा तेन प्रकारेण ममापि । एवं च एवं सति च कस्मात् कुतः कारणात्, मां परित्यज्य इहैव त्यक्त्वा, एक एव एकाक्येव, वनं व्रजसि गच्छसि । अथ चेद् मदीयाराधनेनैव मत्कर्तृकाराधनयैव तवाराधनं स्वत्कर्तृकाराधनम्, सिद्धम्, आवयोरभेदात्, इति मन्यसे, अत्र अस्मिन् विषये, कस्य सन्देहः ? न कस्यापीत्यर्थः, किन्तु उज्झिता परान्तःपुरिकासमीहितः उज्झितं - त्यक्तम्, अपरान्तःपुरिकाणाम्-अन्यराज्ञीनाम्, समीहितम् - अभिलषितं येन तादृशस्त्वम्, इदानीं मत्कृते मदर्थमेव, त्रतंदेवताराधनम्, चरिष्यसि आचरिष्यसि, इति वचनशतैरपि शपथवाक्यशतैरपि न प्रत्येमि विश्वसिमि । न च नापि, त्वया विरहिता त्यताsहम्, मुहूर्तमपि क्षणमपि, स्थातुं जीवितुम्, शक्नोमि प्रभवामि । तत् तस्मात् मयाऽपि, अरण्यं वनम् अवश्यं निश्चितमेव, गन्तव्यम् । चेत् यदि, माम्, अवमन्य उपेक्ष्य, गच्छसि गच्छ । तय, अभीष्टम् अभिलषितम्, सिध्यतु | अधुनैव इदानीमेव त्वं दृष्टः मया खदृष्टिगोचरतां नीतः, त्वत्प्रयाणोत्तरं ममापि लोकान्तरप्रयाणावश्यम्भावेन पुनर्दर्शनासम्भवात् मत्यागस्वभावोऽधुनैव त्वं ज्ञातो मया न पुरेति वार्थः । इति इत्थम्, अभिदधाना कथयन्ती, ललाटविलुलितविशृङ्खलाल कपद्धतिः ललाटे - भालस्थले, विलुलिता - विक्षिप्ता, विशङ्खला- विमुक्तबन्धना, अलकपद्धतिःकेशश्रेणिर्यस्यास्तादृशी सती, अधोमुखीभूता अवनतमस्तका जाता । भूयोऽपि पुनरपि, अनुबध्यमानया च वक्तुमतुरुध्यमानया च, निषिध्यमानया चेति पाठे वनगमनान्निवार्यमाणया चेत्यर्थः, अनया मदिरावत्या, निःशब्दम् अन्यानवगतये शब्दरहितं यथा स्यात्तथा, अवजिताब्दजलधारैः अवजिता- तिरस्कृता, अब्दस्य- मेघस्य, जलधारा यैस्तादृशः, अश्रुधारैः नयनजलधारैः रुदितं रोदनं कृतम्, पुनः न किञ्चित् किमपि, उदितम् उक्तम् [घ] ।
तत् तस्मात्, अस्थाने व अनवसरे एव, आत्मानुगमनेन खानुत्रजनाग्रहेण मे मम, गमनभङ्गं गमननिरोधम्, कुर्वती, इयं मदिरावती, भगवतोऽपि तवापि विद्याधरमुनेः यथायुक्तं यथोचितम् वक्तं किमपि कथयितुम्, युज्यते योग्या वर्तते । इति इत्थम्, पार्थिवे राशि, उक्तवति निवेदितवति, मुनिः चित्तपरिभाविततदीयोपतापदत्तोद्वेगः चित्तेन मनसा, परिभावितः - समालोचितो यः, तदीयोपतापः- तत्सम्बन्धी उपतापः - अपत्याभावदुःखम् तेन दत्तः जनितः, उद्वेगः- उद्धमः, हृदयसम्भ्रम इति यावत्, यस्य तादृशः सन् "उद्वेग उमे" इत्यमरः, तत्क्षणमेव नृपनिवेदनसमय एव, योगनिद्रां समाधिरूपनिद्राम्, अगात् प्राप्तवान् । च पुनः, अनतिचिरेण अनतिविलम्बेन, उन्मुद्रितेक्षणः उन्मीलितलोचनः सन्, सप्रहर्षः प्रकृष्टहर्षसहितः, नृपम्, उधाच वक्ष्यमाणमाश्वासनवाक्यं कथयामास । किमित्याह - राजन् ! अधुना तव, अपत्यसन्ततिप्रतिबन्धकम् अपत्योत्पत्तिप्रतिरोधकम्, अदृष्टं दुरितविशेषः, भुक्तभूयिष्ठं भुक्ता भूयिष्ठा बहुतरा अंशा यस्य तादृशम्, घर्तते अवशिष्यते । अतः अस्माद्धेतोः, मनसि हृदि, धृतिं धैर्यम्, आधेहि जनय, स्वल्पमपि अल्पमपि विषादम् अपत्याभावदुःखम् मा विधाः न कुरु । सदा सर्वकाले, सुखोचितायाः सुखयोग्यायाः,
१३ तिलक०