Book Title: Tilakamanjiri Part 1
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 141
________________ तिलकमञ्जरी । १०५ सरिति गृहीतदन्तधावनो निर्वर्तितस्नानजपविधिः, परिधाय तत्कालधौते कालधौते इवातिधवलतया विभा. oयमाने दुकूलवाससी, विधाय सन्ध्योपासनकृत्यम्, आगत्यायतनमुत्तमाङ्गघटितप्रन्थिनोत्तरीयपल्लवेन मुद्रित•मुख मुखोद्गीर्णमुखर वारिस्रोतोभिः कनककुम्भैः सुचिरमेनामभ्यषिचत् । एणनाभिकर्पूरकणसन्तर्पितामोदेन च • स्पर्शनेन्द्रियहारिणा चन्दनद्रवेण विरचिताङ्गरागामङ्गलेखारोपितरुचिरमौक्तिका भरणामुदारमालतीदामप्रथित'शेस्वरां श्रवणशिखरावतंसितैककेतकगर्भपत्रामवदातवेषतया साक्षादमृतमथनोगतामिवोपलक्ष्यमाणां निरीक्ष्य सादरमुत्क्षिप्तकृष्णागुरुक्षोदधूपः प्रणम्य परमया भक्त्या पुरस्तान्नातिदूरे समुपविष्टो मुखनिविष्टनिश्चलदृष्टिरानर्तित'शिखण्डिना दत्तमार्जनमृदङ्गस्तनितगम्भीरेण स्वरेण संगीतकमिव प्रस्तावयन् पुष्टार्थाभिः स्तुतिभिरतिचिरं तुष्टाव । [5] | समापितमन्त्रजपविधिश्वातिक्रान्ते कियत्यपि समये विनिर्गत्य देवतागृहाद् दर्शनार्थमागतमुचितस्थान प्रथमत एव स्थितः, एवंविधो यः, अद्रिः - पर्वतः, तस्य यः परिसरः- समीपदेशः, तत्र या कृत्रिमा, सरित् नदी, तत्र गत्वा, गृहीतदन्तधावनः कृतदन्तमार्जनः निर्वर्तितस्तानजपविधिः निर्वर्तितौ- सम्पादितौ स्नानं च जपश्च तौ, विधी - व्यापारौ न तादृशः, तत्कालधौते तत्क्षणप्रक्षालिते, अतः कालधौते कलधौतस्य- रजतस्य, विकारभूते, इव, अतिधवल`तया अतिशुभ्रतया, विभाव्यमाने प्रतीयमाने, कलधौते इवेति पाठे कलधौते रजते इवेत्येवं व्याख्येयम्, दुकूलवाससी श्लक्ष्ण-सूक्ष्मवस्त्ररूपे अधरीयोत्तरीयवस्त्रे परिधाय धृत्वा, सन्ध्योपासनकृत्यं प्रातः सन्ध्यावन्दनात्मक कार्यम्, विधाय - अनुष्ठाय, आयतनं निकेतनम्, देवतामन्दिरमिति यावत्, आगत्य प्रत्यागत्य, उत्तमाङ्गघटितग्रन्थिता उत्तमाङ्गे - शिरसि, घटिता लग्ना, ग्रन्थिर्यस्य सादृशेन, उत्तरीयपल्लवेन ऊर्ध्वदेहधृतवसनाभ्ञ्चलेन, मुद्रितमुखः मुद्रितं खनिःश्वासेन देवताथा आशांतनापरिहारार्थमाश्रुतम् मुखं येन तादृशः, मुखोद्गीर्णमुखर वारिस्रोतोभिः मुखात्- प्रीषोर्ध्वभागात्, उद्गीर्णनिःसृतम्, मुखरं ध्वनिपूर्णम्, वारिस्रोतः- जलधारा येषां तादृशैः, कनककुम्भैः सुवर्णकलशैः सुचिरं सुदीर्घकालम्, uri लक्ष्मीम् अभ्यषिञ्चत् अभिषिञ्चति स्म । एणनाभिकर्पूरकणसन्तर्पितामोदेन एणस्य- कृष्णमृगस्य, नाभिःकस्तूरिका, तया, कर्पूरकणैः - कर्पूरचूर्णैश्च, मिश्रितैः सन्तर्पितः - समेधितः, आमोदः - परिमलो यस्य तादृशेन, स्पर्शनेन्द्रियहारिणा त्वगिन्द्रियाकर्षणशीलेन, चन्दनद्रवेण चन्दनपङ्केन, विरचिताङ्गरागां विरचितः - सम्पादितः, अङ्गरागः-अनलेपनं यस्यास्तादृशीम् । पुनः अङ्गलेखारोपितरुचिरमौक्तिकाभरणाम् अभे अङ्गलतायाम्, लेखारोपितानि राजिरूपेण 'स्थापितानि, विन्यस्तानीत्यर्थः, रुचिराणि - मनोहराणि भौक्तिकाभरणानि - मौफिक भूषणानि यस्यास्तादृशीम् । पुनः उदारमालतीदामप्रथितशेखराम् उदारेण महता, निर्मलेनेत्यर्थः, मालतीदाना - मालत्याख्य कुसुमावल्या, प्रथितः - संघटितः, सम्पा दित इति यावत्, शेखरो मस्तकमाल्यं यस्यास्तादृशीम् । पुनः श्रवणशिखरावतंसितैककेतकगर्भपत्रां श्रवणशिखरे - 'श्रवणोपरिभागे, अवर्तसितम् अलङ्कृतम्, एकम् , केतकस्य तदाख्यपुष्पवृक्षविशेषस्य, गर्भपत्रम् - अन्तर्गतपत्रं यस्यास्तादृशीम् । पुनः अवदातवेषतया अतिशुभ्रवेषशालितया, साक्षात् अमृतमथनोद्भूताम् अमृतमथनेन - सुधासागरालोडनेन, उद्भू'ताम्- भाविर्भूताम्, इव उपलक्ष्यमाणां प्रतीयमानाम्, सादरम् आदरसहितम्, निरीक्ष्य दृद्वा, उत्क्षिप्तकृष्णागुरुक्षोदधूपः उत्क्षिप्तः- उन्मीलितः, कृष्णागुरोः “कृष्णं गुणाधिकं तत्तु लोहवद् वारि मज्जति" इत्युक्तगुणकस्य काष्टविशेषस्य, मः क्षोदः - चूर्णम्, तत्सम्बन्धी धूपो येन तादृशः, परमया अत्यन्तया, भत्तया प्रीत्या, प्रणम्य, पुरस्तात् तस्या अग्रे, नातिदूरे समीपे समुपविष्टः सम्यगासितः सन् मुखनिविष्टनिश्चलदृष्टिः मुखे-लक्ष्म्या चदनप्रदेशे, निविष्ठालमा, निश्चला - निःस्पन्दा, दृष्टिर्येन तादृशः, आनर्तितशिखण्डिना आ - समन्तात्, नर्तितः- उल्लासातिशयेन नाटितः, शिखण्डी - मयूरो येन तादृशेन, दत्तमार्जन मृदङ्गस्तनितगम्भीरेण दत्तं सम्पादितम्, मार्जनं प्रोञ्छना दिद्वारेण शोधनं यस्य तादृशस्य, मृदङ्गस्य-वाद्यविशेषस्य यत् स्तनितं - ध्वनिविशेषः, तद्वद् गम्भीरेण-धीरेण, "खरे सत्त्वे च नाभौ च त्रिषु गम्भीरता शुभा” इत्यत्रोक्तसौन्दर्यकेणेत्यर्थः, खरेण, पुष्टार्थाभिः पुष्टः- पूर्णः, अर्थो यासां तादृशीभिः स्तुतिमिः देव्या गुणोक्तिभिः, सङ्गीतकं नृत्यवादिनादिविशिष्टगीतम्, प्रस्तावयन्निव निष्पादयन्निव गायन्निवेति यावत्, अतिचिरम् अतिदीर्घकालम्, तुष्टाव लक्ष्मीमस्तौषीत् [ ] । च पुनः समापितमन्त्रजपविधिः सम्पादितमन्त्र जपानुष्ठानः, किथस्यपि कतिपयेऽपि, समये, अतिक्रान्ते व्यतीते, देवतागृहात् लक्ष्मीमन्दिरात्, विनिर्गत्य निःसृत्य, दर्शनार्थे लक्ष्मी १४ तिलक०

Loading...

Page Navigation
1 ... 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196