Book Title: Tilakamanjiri Part 1
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 111
________________ तिलकमञ्जरी। प्रासादललेषु प्रेमपरवशः प्रणयकुपिताः प्रेयसीः सानुनयमपाययत् [छ । कदाचिद् वदनमण्डनादिभिबिडम्बनाप्रकारैरुपहसन् विदूषकानन्तःपुरिकाजनमहासयत् ज]। कदाचिदङ्गनालोल इति मत्वा निपुणचित्रकारैश्चित्रपटेष्वारोप्य सादरमुपायनीकृतानि रूपातिशयशालिनीनामवनिपालकन्यकानां प्रतिबिम्बानि परित्यक्तान्यकर्मा दियसमालोकयत् [झ] । कदाचित् स्वयमेव रागविशेषेषु संस्थान्य समर्थितानि शृङ्गारप्रायरसानि स्वरचितसुभाषितानि स्वभावरक्तकण्ठ्या गाथकगोष्टया पुनरुक्तमुपगीयमानान्यनुरागभावितमनाः शुश्राव [अ] कदाचिदावेदितनिखिलनाट्यवेदोपनिषद्भिर्नर्तकोपाध्यायैरुपदर्शितानां नर्तकीनामक्षुण्णेन शास्त्रवर्त्मना कृतसूक्ष्मगुणदोषोपन्यासः पश्यलास्यविधिमासन्नवर्तिनो विदग्धराजलोकस्य मनांसि जहार [2]। कदाचिद् भवनदीर्घिकाम्भसि प्रवृत्तनिर्भरक्रीडारसानामन्तःपुरविलासिनीनां निपतिताङ्गुलीयकमुद्रा अपाययत् पायितवान् , कीदृशम् ? ईर्ष्यारुणप्रतिप्रमदाकटाक्षकव॒रम् ईयया-सपत्नीशुभासहिष्णुतया, अरुणः-रक्को यः, प्रतिप्रमदायाः-अन्यकामिन्याः, सपढ्या इत्यर्थः, कटाक्षः-अपाङ्गदृष्टिः, तेन कर्बुरम्-चित्रम् , अत एव उपरिक्षिप्त रक्तोत्पलपलाशमिव उपरिक्षिप्तम्-उपरि स्थापितम् , रत्तोत्पलस्य-रक्तकमलस्य, पलाश-पत्रं यस्मिस्तादशमिवेत्युत्प्रेक्षा, स राजा कीदृशः प्रेमपरवशः कामिनीप्रीतिपराधीनः, अत एव स्वयमुत्क्षिप्तमाणिक्यचषकः खयम् , उत्क्षिप्तः-उत्थापितः, माणिक्यचषकः-मणिमयपानपात्रं येन तादृशः [छ । पुनः स राजा कदाचित् कस्मिंश्चिदवसरे, वदनमण्डना. दिभिः मुखरअनादिरूपैः, विडम्बनाप्रकारैः तिरस्कारप्रकारैः, विदूषकान् हासजनकतया नर्मसचिवान् , उपहसन् परिहसन् , अन्तःपुरिकाजनम् अन्तःपुरमस्ति यस्याः सा अन्तःपुरिका, तादृशजनम् , अन्तःपुरनारीजनमित्यर्थः, अहासयत् हासयति स्म [ज] । कदाचित् कस्मिंश्चित् समये, स राजा अङ्गनालोलः अङ्गनासु-कामिनीघु, लोलः-चञ्चलः, लम्पट इत्यर्थः, इति मत्वा अवधार्य, निपुणचित्रकारैः, चित्रपटेषु चित्रलेखनाधारवस्त्रेषु, आरोग्य आलेख्य, सादरम् दरसहितं यथा स्यात्तथा, उपायनीकृतानि उपहाररूपेण दत्तानि, रूपातिशयशालिनीनां रूपोत्कर्षशोभिनीनाम्, अवनिपालकन्यकानां राजकन्यकानाम्, प्रतिबिम्बानि प्रतिकृतीः, परित्यक्तान्यकर्मी परित्यक्तं-परिवर्जितम्., अन्यत्-इतरत् , कर्म-कार्य येन तादृशः सन् , दिवसम् सम्पूर्णदिनम् , न तु कियत्क्षणम् , अलोकयत् अपश्यत् [झ]। स राजा कदाचित् कस्मिंश्चिदवसरे, रागविशेषेषु वसन्तादिसंज्ञकस्वरविशेषेषु, संस्थाप्य सम्यम् योजयित्वा, स्वयमेव खेनैव, समर्थितानि साधुतया स्वीकृतानि, समर्पितानीति पाठे गायकेभ्यो दत्तानि, शुङ्गारप्रायरसानि शृङ्गारप्रायाःशृङ्गाररसप्रचुराः, रसा येषु तादृशानि, स्वरचितसुभाषितानि स्वनिर्मितसुललितगाथाः स्वभावरक्तकण्ठ्या सभाबेन, रक्तः-प्रियः, कण्ठः-तत्कृतवनिर्यस्यास्तादृश्या, गायकगोट्या, पुनरुक्तं पुनीत यथा स्यात्तथा, उपगीयमानानि गानकर्माक्रियमाणानि, अनुरागभावितमनाः प्रीतिपूर्णहृदयः, शुश्राव शृणोति स्म []। स राजा कदाचित् क्वचित् काले तु, आवेदितनिखिलनाट्यवेदोपनिषद्भिः आवेदिता-समन्ताद् बोधिता, निखिला-समया, नाट्यवेदस्य-नाट्यशास्त्रस्य, उपनिषत्-रहस्यभावो यैस्तादृशैः, नर्तकोपाध्यायः नर्तकाचार्यैः, उपदर्शितानां शिक्षितानाम् , नर्तकीनां तृत्सनिपुणनारीणाम् , अक्षुण्णेन निदोषेण, शास्त्रवर्मना नाट्यशास्त्रानुशीलितमार्गेण, कृतसूक्ष्मगुणदोषोपन्यासः कृतः, सूक्ष्मयोः- जनसामान्यदुर्लक्षयोः, गुण-दोषयोः, उपन्यासः-उद्भावनं येन तादृशः सन् , लास्यविधि नाट्यक्रियाम् , पश्यन् , आसन्नवर्तिनः खपार्श्ववर्तिनः, विदग्धराजलोकस्य नाव्यनिपुणनृपतिजनस्य, मनांसि हृदयानि, जहार खवैदग्ध्यातिशयेन हरति स्म [2] 1 स राजा कदाचित् कस्मिंश्चित् समये च, भवनदीर्घिकाम्भसि भवनस्य-गृहस्य, गृहपार्श्ववर्तिन्या इत्यर्थः, दीर्घिकायाः-"शतेन धनुर्भिः पुष्करिणी, त्रिभिदीर्घिका, चतुभिद्रोणः, पञ्चमिस्तडागः” इत्युक्तपूर्वपरिमाणकजलाशयस्य, अम्भसि-जले, प्रवृत्तनिर्भरक्रीडारसानां प्रवृत्तः, निर्भरः-अत्यन्तः, क्रीडारस:-क्रीडाकौतुकं यास ताहशीनाम् , अन्तःपुरविलासिनीनाम् अन्तःपुरनारीणाम् , गृहीतजयनांशुकः गृहीतः-आकृष्टः, जघनस्य-कटिपुरोभागस्य, अंशुकः-वस्त्रं येन तादृशः, किं कृत्वा ? पतिताङ्गुलीयकमुद्रान्वेषणादिना पतितानां-जले स्खलितानाम् , णामअडलीयकमुद्रा अङ्गुलिभूषणरूपरत्नप्रतिमानाम् , अन्वेषणादिरूपेण तेन तेन अनेकप्रकारकेण, व्याजेन छद्मना,

Loading...

Page Navigation
1 ... 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196