Book Title: Tilakamanjiri Part 1
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 125
________________ तिलकमञ्जरी। समतृणप्रवालमुक्तालेष्टुलोष्टकाञ्चनम् [ल), परपुरुषदर्शनसावधानं सौविदल्लमिन्द्रियवृत्तिवनितानाम् , भूतापगुहमम्बुधरागमं साधुमयूराणाम् , दुर्विषहलेजसं महामन्त्रमनङ्गविकाराशीविषाणाम् , काशधवलगुणोद्भासितमगस्त्योदयं हृदयजलाशयानाम् [ए], आचारमिव चारित्रस्य, प्रतिज्ञानिर्वाहमिव ज्ञानस्य, शुद्धिसंचयमिव शौचस्य, धर्माधिकारमिव धर्मस्य, सर्वस्वदायमिव दयायाः, मार्गदेशकमिवापवर्गस्य [ऐ], तैजसं मूर्त्या, वक्षो यस्य स तथा तम्, विपुलवक्षसमित्यर्थः, पद्मतुल्यहस्तं च । निष्परिग्रहमपि यदि भार्यारहितं कथं सकलत्रम् ? मन्यन्त्र परिग्रहरहितं सकलजनरक्षकं च । विदितवस्तुसारेतरविभागमपि ज्ञातपदार्थप्रधानाप्रधानविवेक यदि कथं समे तृणप्रवाले मुक्तालेष्टुनी लोष्टकाञ्चने च यस्य स तथोक्तस्तम् ? अन्यत्र समतृणप्रवालमुक्तालेटलोष्टकाञ्चनं वीतरागत्वेन रागाभावात् ल । परपुरुषदर्शनसावधानं परपुरुषः अन्यनरः, अन्यत्र प हम् एकत्र पृथ्वीसन्तापहारिणम् , अन्यत्र प्राणिविपत्तिघातिनम् । दुर्विषहतेजसं तेजः-दीप्तिः, अन्यत्र वीर्यम् । कासधवलगुणोझासितम् एकत्र कासानां धवलगुणेन श्वेतत्वेनोद्भासितम्, अन्यत्र कासवद् ये धवला गुणाः क्षान्त्यादयस्तैः शोभितम् [ए]। तैजसम् आनेयम्, अन्यत्र तेजोविकारम् । पावनं वायव्यम् , अन्यत्र पवि पर्वतविशेषस्य, कटक इव-नितम्ब इव, मेखलाख्यमध्यभाग इव, विशालम् उरस्थलं वक्षःस्थलं यस्य तादृशम्, पुनः कमलसमकरं कमलकोमलहस्तम्, पक्षे त्रिकूटस्य-पर्वतविशेषस्य, यः कटक:-मेखलाख्यमध्यभागः, तस्य उरसि-ऊर्श्वभूमौ, तिष्ठतीति त्रिकूटकटकोरस्था, तादृशी लङ्का यस्मिस्तादृशम् , पुनः अलसमकरम् अलसाः-निश्शङ्कतया निश्चलाः, मकरा . यमिंस्तादृशम् । पुनः निष्परिप्रहमपि दारापत्यादिरहितमपि, सकलत्रं कलत्रेण-स्त्रिया, सहितमिति विरोधः, सकलान्सर्वान . त्रायते-रक्षतीति सकलत्रस्तादृशामित्यर्थेन तु तत्परिहारः "परिग्रहः परिजने शपथे च परिग्रहः । परिग्रहः कलन्चेच मूलस्त्रीकारयोरपि” ॥ इति शाश्वतः । पुनः विदितवस्तुसारेतरविभागमपि विदितः-निश्चितः, वस्तूनां-कनककाचादिपदार्थानाम् , सारस्य, तदितरस्य-असारस्य, विभागः-वैलक्षण्यं येन तादृशमपि, समतृणप्रवालमुक्तालोष्टलोष्टकाञ्चनं सम-तुल्यम्, तृणम् , प्रवालं-नवपल्लवो विद्रुमो वा, मुक्ता-मणिविशेषः, लेष्टुः-मृपिण्डः, लोष्ट-लोहमलम् , काञ्चनं-सुवर्ण च यस्य तादृशमिति विरोधः, तुल्यम्-अनपेक्षत्वेन सर्व समानं यस्येत्यर्थेन तु तत्परिहारः. "प्रवालोऽस्त्री किसलये वीणादण्डे च विहमे" इति मेदिनी, “लोष्टानि लेष्टवः पुंसि" इत्यमरः [ल.] । युनः इन्द्रियवृत्तिवनितानाम् इन्द्रियाणां-चक्षुराहीनाम् , या वृत्तयः-विषयाकारपरिणामविशेषाः, ता एव वनिताः-स्त्रियः, तासाम् , परपुरुषदर्शनसावधानं परपुरुषस्यअन्यपुरुषस्य, पक्षे उत्कृष्टपुरुषस्य, दर्शने-साक्षात्करणे, सावधान-वाधिकारपरम् , सौविदल्लम् अन्तःपुररक्षकम् । पुनः साधुमयूराणां साधवः-सज्जना एव, मयूरास्तेषां कृते, भूतापगृहं भुवः-पृथिव्याः, तापाय-रविकिरणसम्पातजनितोष्णताये, हुयति-तं हरतीति तादृशम् , पक्षे भूतानां-प्राणिनाम् , आपदे-विपत्तये, दुह्यति-तां विनाशयतीति तादृशम् , अम्बुधरा गमम् अम्बुधरस्य-मेघस्य, आगमम्-आगमनम् । पुनः अनङ्गविकाराशीविषाणाम् अनङ्गस्य-कामदेवस्य, ये विकाराःमोहादयः, त एवाशीविषाः-सर्पाः, तेषाम् , दुर्विषहतेजसं दुर्विषं-दुष्टविषम् , हन्ति-शमयतीति दुर्विषहम्, तादृशं तेजः शक्तिर्यस्य तादृशम् , महामन्त्रं महामश्रखरूपम् ; पक्षे दुःसहद्युतिम् । पुनः हृदयजलाशयानां हृदयान्येव जलाशयाःकासाराः, तेषां कृते, तत्स्वच्छताप्रयोजकमित्यर्थः, काशधवलगुणोद्भासितं काशस्य - काशाख्यतृणपुष्पस्य, यो धवल:शुभ्रताख्यो गुणः, तेन उद्भासितं प्रकाशितम् , कार्यविधया सूचितमित्यर्थः, पक्षे काशधवला:-काशपुष्पवच्छुभ्राः, ये गुणाः क्षान्त्यादयस्तैरुद्भासितम् , अगस्त्योदयमिव अगस्त्यस्य-तन्नान्नो नक्षत्रस्य, उदयमिव, तदुदये आश्विन-कार्तिकयोर्जलाना खच्छभावात् काशपुष्पोद्माचेति बोध्यम् [ए]। पुनः चारित्रस्य सम्यक्चारित्रस्य कृते, आचारमिव नियममिवेत्युस्प्रेक्षा, पुनः शानस्य सम्यग्ज्ञानस्य कृते, प्रतिक्षानिर्वाहमिव प्रतिज्ञायाः-तत्तद्रतसंकल्पस्य, निर्वाहमिव-पालनमिव, पुनः शौचस्य एकैकस्याः शुद्धः कृते, शुद्धिसञ्चयमिव शुद्धिपुञ्जमिव, शुद्धिकेन्द्रभूतमित्यर्थः, पुनः धर्मस्य धर्मस्य कृते, धर्माधिकारमिव धर्मविनियोक्तृत्वमिव, पुनः दयायाः करुणायाः, सर्वखदायमिव अशेषविभवरूपं भागमिव, अपवर्गस्य मोक्षस्य, मार्गदेशकमिव मार्गप्रदर्शकमिव [ऐ]। पुनः मूर्त्या आकृत्या, तैजसं तेजस्विनम् , सुवर्णादितेजोविकारभूतं १२ तिलकर

Loading...

Page Navigation
1 ... 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196