Book Title: Tilakamanjiri Part 1
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 124
________________ टिप्पनक-परागविवृतिसंवलिता नम् [ला, नदीतटतरुमिव स्फुटोपलक्ष्यमाणजटम्, ग्रीष्मकूपमिव प्रकटतनुशिराजालम् , क्षेत्रगणितमिव लम्बभुजकर्णोद्भासितम्, अमरशैलमिव स्वयंपतितकल्पद्रुमदुकूलवल्कलावृतनितम्बम् , अम्बिकायौवनोदयमिव वशीकृतविषमाक्षचित्तम् , अकालविजिगीषुनृपतिसैन्यमिव यथासंख्यं तपोदयक्षपितानेकपापकलिम् , दक्षिणार्णवपारमिव त्रिकूटकटकोरःस्थलकमलसमकरम् , निष्परिग्रहमपि सकलत्रम् , विदितवस्तुसारेतरविभागमपि टिप्पणकम्-जटा-मिलितकेशा मूलानि च । एकत्र तनुशिराजालं-सूक्ष्मजलवाहस्थानम् , अन्यत्र च प्रकटशरीरनशावृन्दम् । एकत्र लम्बभुजकर्णैः-गणितभेदैः, शोभितम् , अन्यत्र लम्बा ये भुजकर्णास्तैः । नितम्बःकटीप्रदेशः, अधोभागश्च । [वशीकृतविषमाक्षचित्तं] वशीकृतक्रूरेन्द्रियमानसम् । तपोदयक्षपितानेकपापकलिम् एकत्र ग्रीष्मोदयेन क्षपिताः-हतवीर्याः सन्तः, अनेकपाः-करिणः, अपकलयः-गतकलहा यस्मिन् स तयोततस्तम्, सैन्यशब्दस्योभयलिङ्गत्वात् , अन्यत्र तपःकारुण्याभ्यां नाशितबहुपापकलिकालम् । त्रिकटकटकोर: स्थलङ्कमलसमकरम् एकत्र त्रिकूटाचलप्रस्थहृदयस्थितलकापुरम् , मन्दजलचरं च, अन्यत्र त्रिकूटकटकवद् उरःस्थलं निपतितप्राणिसार्थोद्धरणार्थमधःप्रवर्तितपुण्यरज्जुभिरिव दुरुत्तरः-दुःखेनोत्तरितुं शक्यः, यो भवकूपः-संसार । निपतितानां-स्वस्वकर्मविपाकानुगुणं निमग्नानाम् , प्राणिनां-जीवानाम् , सार्थस्य-समूहस्य, उद्धरणार्थम्--उन्नयनाथैम, अधःप्रवर्तिताभिः-अधःप्रक्षिप्ताभिः, पुण्यरभिः -पुण्यात्म करनुरूपाभिरिवेत्युत्प्रेक्षा, ‘रज्जभिः' इत्यस्य स्थाने 'रजना' इति पाठे चरणदूये तदन्वयः, अर्थस्तु स एव किन्तु स्त्रीलिङ्गत्वाद् 'रजना' इति न स्यादिति अधःप्रवर्तित पुण्या रजवः स्रगात्मका येनेति बहुव्रीहिणा व्याख्येयम्, पुनः कीदृशेन चरणद्वयेन ? स्वभावमृदुना प्रकृतिकोमलेन [ल]। पुनः कीदृशममुं मुनिम् ? नदीतटतरुमिव नदीतटे यस्तरुक्षस्तमिव, स्फुटोपलक्ष्यमाणजट स्फुटं यथा स्यात्तथा उपलक्ष्यमाणादृश्यमाना, जटा-अन्योन्यसंश्लिष्टकेशकलापः, पक्षे तरङ्गाभिघात विशीर्णशिफासंघो यस्य तादृशम् । 'जटा लग्नकचे मूले मांस्या लक्षे पुनर्जटी' इति मेदिनी । पुनः ग्रीष्मकूपमिव ग्रीष्मकालिक कूपमिच, प्रकरतनुशिराजालं प्रकट-कार्यातिशयेन स्फुटम् , तनोः-शरीरस्य, शिराजाल-नाडीसमूहो यस्य, पक्षे प्रकटं-जलशोषणेनाभिव्यक्तम् , तनु-सूक्ष्मम् , शिराजाल-निकटवृक्षशिफासमूहो यद्वा सूक्ष्मजलवाहस्थानानि यसिन् तादृशम् । पुनः क्षेत्रगणितमिव रेखागणितमिव, लम्बभजकोद्भासितं लम्बाभ्या-दीर्घाभ्याम् , भुजाभ्यां-बाहुभ्याम् , कर्णाभ्यां श्रोत्राभ्यां च, उद्भासित-सुशोभितम् , पक्षे त्रिभुजादिक्षेत्रस्य यद्विन्दुस्थानं तदारभ्य तदधोलम्बमाना रेखा लम्बः, त्रिभुजमध्ये या दीघरेखा स कर्णः, रेखासामान्यं तु भुजः, तैद्धासि-. तम् । पुनः अमरशैलमिव अमराणां-देवानाम् , शैलः-पर्वतः, सुमेरुः, तमिव, स्वयंपतितकल्पद्रुमदुकूलवल्कला. वृतनितम्ब खयं-स्खयमेव, पतितानि-जीर्णतयाऽधोगतानि, यानि कल्पद्रुमस्य-दिव्यवृक्षविशेपस्य, दुकूलानि-वस्त्ररूपाणि, वल्क लानि त्वचः, तैः, आवृत:-आच्छादितः, नितम्बः- कटिप्रदेशः, पक्षे मध्यप्रदेशश्च यस्य तादृशम् । पुनः अम्बिकायौवनोदयमिष अम्बिकाया:-पार्वत्याः, यौवनोदयमिव-तारुण्योद्ममिव, वशीकृतविषमाक्षचित्तं वशीकृतम्-आकृष्टम् , विषमकठिनम् , अक्षाणि- इन्द्रियाणि, चित्त-मनश्चेति अक्षचित्तम् , पक्षे विषमाक्षस्य-शिवस्य, चित्तं येन तादृशम् । “अक्षो ज्ञाना. ऽऽत्म-शकट-व्यवहारेषु पाशके । चके कर्षे पुमान् क्लीबं तुत्थे सौवर्चलेन्द्रिये" ॥ इति मेदिनी । पुनः अकालविजिगीषुनृपतिसैन्यमिव अकाले-संग्रामायोग्यकाले, विजिगीषोः-विजेतुमिच्छोः युयुत्सोरिति यावत् , नृपतेः सैन्यमिव, यथासङ्ख्यं क्रमेण, षक्षे युद्धानुसारेण, तपोदयक्षपितानेकपापकलिं तपश्च दया चेति तपोदयम् , तेन क्षपितानि वारितानि, अनेकानि पापानि, अनेके कलयः-युद्धानि च येन तादृशम् , तपसा पापानां क्षपणम् , दयया च युद्धानामिति बोध्यम् , यद्वा तपोदयक्षपितः-तप:कारुण्यां विनाक्षितः, अनेकपाप-बहुपापः, कलिः कलहः कलिकालो वा येन तादृशम्, 'यथासङ्ग्यम्' इति क्वचिनास्ति, पक्षे तपस्य-ग्रीष्मस्य, उदयेन-आविविन, क्षपिता:-निरुद्धाः, अनेकपानां-हस्तिनाम् , आपकलयः-अप्सु भवा आपाः, जलाधिकरणकाः, कलयः-युद्धानि यस्मिन् , यद्वा ग्रीष्मोदयेन क्षपिताः-शक्तिक्षयमापादिताः, सन्तः, अनेकपा:-हस्तिनः, अपकलयः-निवृत्त कलहा यस्मिंस्तादृशम् , “कलिः स्त्री कलिकायां ना शरा-ऽऽजि-कलहे युगे” इति मेदिनी । पुनः दक्षिणार्णवपारमिव दक्षिगार्णवस्य-दक्षिणसमुद्र स्थ, पारमिव-दक्षिणतीरमिव, त्रिकूटकटकोरःस्थलङ्कमलसमकरं त्रिकूटस्य- शिखरत्रयविशिष्टस्य

Loading...

Page Navigation
1 ... 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196