________________
टिप्पनक-परागविवृतिसंवलिता नम् [ला, नदीतटतरुमिव स्फुटोपलक्ष्यमाणजटम्, ग्रीष्मकूपमिव प्रकटतनुशिराजालम् , क्षेत्रगणितमिव लम्बभुजकर्णोद्भासितम्, अमरशैलमिव स्वयंपतितकल्पद्रुमदुकूलवल्कलावृतनितम्बम् , अम्बिकायौवनोदयमिव वशीकृतविषमाक्षचित्तम् , अकालविजिगीषुनृपतिसैन्यमिव यथासंख्यं तपोदयक्षपितानेकपापकलिम् , दक्षिणार्णवपारमिव त्रिकूटकटकोरःस्थलकमलसमकरम् , निष्परिग्रहमपि सकलत्रम् , विदितवस्तुसारेतरविभागमपि
टिप्पणकम्-जटा-मिलितकेशा मूलानि च । एकत्र तनुशिराजालं-सूक्ष्मजलवाहस्थानम् , अन्यत्र च प्रकटशरीरनशावृन्दम् । एकत्र लम्बभुजकर्णैः-गणितभेदैः, शोभितम् , अन्यत्र लम्बा ये भुजकर्णास्तैः । नितम्बःकटीप्रदेशः, अधोभागश्च । [वशीकृतविषमाक्षचित्तं] वशीकृतक्रूरेन्द्रियमानसम् । तपोदयक्षपितानेकपापकलिम् एकत्र ग्रीष्मोदयेन क्षपिताः-हतवीर्याः सन्तः, अनेकपाः-करिणः, अपकलयः-गतकलहा यस्मिन् स तयोततस्तम्, सैन्यशब्दस्योभयलिङ्गत्वात् , अन्यत्र तपःकारुण्याभ्यां नाशितबहुपापकलिकालम् । त्रिकटकटकोर: स्थलङ्कमलसमकरम् एकत्र त्रिकूटाचलप्रस्थहृदयस्थितलकापुरम् , मन्दजलचरं च, अन्यत्र त्रिकूटकटकवद् उरःस्थलं
निपतितप्राणिसार्थोद्धरणार्थमधःप्रवर्तितपुण्यरज्जुभिरिव दुरुत्तरः-दुःखेनोत्तरितुं शक्यः, यो भवकूपः-संसार
। निपतितानां-स्वस्वकर्मविपाकानुगुणं निमग्नानाम् , प्राणिनां-जीवानाम् , सार्थस्य-समूहस्य, उद्धरणार्थम्--उन्नयनाथैम, अधःप्रवर्तिताभिः-अधःप्रक्षिप्ताभिः, पुण्यरभिः -पुण्यात्म करनुरूपाभिरिवेत्युत्प्रेक्षा, ‘रज्जभिः' इत्यस्य स्थाने 'रजना' इति पाठे चरणदूये तदन्वयः, अर्थस्तु स एव किन्तु स्त्रीलिङ्गत्वाद् 'रजना' इति न स्यादिति अधःप्रवर्तित पुण्या रजवः स्रगात्मका येनेति बहुव्रीहिणा व्याख्येयम्, पुनः कीदृशेन चरणद्वयेन ? स्वभावमृदुना प्रकृतिकोमलेन [ल]। पुनः कीदृशममुं मुनिम् ? नदीतटतरुमिव नदीतटे यस्तरुक्षस्तमिव, स्फुटोपलक्ष्यमाणजट स्फुटं यथा स्यात्तथा उपलक्ष्यमाणादृश्यमाना, जटा-अन्योन्यसंश्लिष्टकेशकलापः, पक्षे तरङ्गाभिघात विशीर्णशिफासंघो यस्य तादृशम् । 'जटा लग्नकचे मूले मांस्या लक्षे पुनर्जटी' इति मेदिनी । पुनः ग्रीष्मकूपमिव ग्रीष्मकालिक कूपमिच, प्रकरतनुशिराजालं प्रकट-कार्यातिशयेन स्फुटम् , तनोः-शरीरस्य, शिराजाल-नाडीसमूहो यस्य, पक्षे प्रकटं-जलशोषणेनाभिव्यक्तम् , तनु-सूक्ष्मम् , शिराजाल-निकटवृक्षशिफासमूहो यद्वा सूक्ष्मजलवाहस्थानानि यसिन् तादृशम् । पुनः क्षेत्रगणितमिव रेखागणितमिव, लम्बभजकोद्भासितं लम्बाभ्या-दीर्घाभ्याम् , भुजाभ्यां-बाहुभ्याम् , कर्णाभ्यां श्रोत्राभ्यां च, उद्भासित-सुशोभितम् , पक्षे त्रिभुजादिक्षेत्रस्य यद्विन्दुस्थानं तदारभ्य तदधोलम्बमाना रेखा लम्बः, त्रिभुजमध्ये या दीघरेखा स कर्णः, रेखासामान्यं तु भुजः, तैद्धासि-. तम् । पुनः अमरशैलमिव अमराणां-देवानाम् , शैलः-पर्वतः, सुमेरुः, तमिव, स्वयंपतितकल्पद्रुमदुकूलवल्कला. वृतनितम्ब खयं-स्खयमेव, पतितानि-जीर्णतयाऽधोगतानि, यानि कल्पद्रुमस्य-दिव्यवृक्षविशेपस्य, दुकूलानि-वस्त्ररूपाणि, वल्क लानि त्वचः, तैः, आवृत:-आच्छादितः, नितम्बः- कटिप्रदेशः, पक्षे मध्यप्रदेशश्च यस्य तादृशम् । पुनः अम्बिकायौवनोदयमिष अम्बिकाया:-पार्वत्याः, यौवनोदयमिव-तारुण्योद्ममिव, वशीकृतविषमाक्षचित्तं वशीकृतम्-आकृष्टम् , विषमकठिनम् , अक्षाणि- इन्द्रियाणि, चित्त-मनश्चेति अक्षचित्तम् , पक्षे विषमाक्षस्य-शिवस्य, चित्तं येन तादृशम् । “अक्षो ज्ञाना. ऽऽत्म-शकट-व्यवहारेषु पाशके । चके कर्षे पुमान् क्लीबं तुत्थे सौवर्चलेन्द्रिये" ॥ इति मेदिनी । पुनः अकालविजिगीषुनृपतिसैन्यमिव अकाले-संग्रामायोग्यकाले, विजिगीषोः-विजेतुमिच्छोः युयुत्सोरिति यावत् , नृपतेः सैन्यमिव, यथासङ्ख्यं क्रमेण, षक्षे युद्धानुसारेण, तपोदयक्षपितानेकपापकलिं तपश्च दया चेति तपोदयम् , तेन क्षपितानि वारितानि, अनेकानि पापानि, अनेके कलयः-युद्धानि च येन तादृशम् , तपसा पापानां क्षपणम् , दयया च युद्धानामिति बोध्यम् , यद्वा तपोदयक्षपितः-तप:कारुण्यां विनाक्षितः, अनेकपाप-बहुपापः, कलिः कलहः कलिकालो वा येन तादृशम्, 'यथासङ्ग्यम्' इति क्वचिनास्ति, पक्षे तपस्य-ग्रीष्मस्य, उदयेन-आविविन, क्षपिता:-निरुद्धाः, अनेकपानां-हस्तिनाम् , आपकलयः-अप्सु भवा आपाः, जलाधिकरणकाः, कलयः-युद्धानि यस्मिन् , यद्वा ग्रीष्मोदयेन क्षपिताः-शक्तिक्षयमापादिताः, सन्तः, अनेकपा:-हस्तिनः, अपकलयः-निवृत्त कलहा यस्मिंस्तादृशम् , “कलिः स्त्री कलिकायां ना शरा-ऽऽजि-कलहे युगे” इति मेदिनी । पुनः दक्षिणार्णवपारमिव दक्षिगार्णवस्य-दक्षिणसमुद्र स्थ, पारमिव-दक्षिणतीरमिव, त्रिकूटकटकोरःस्थलङ्कमलसमकरं त्रिकूटस्य- शिखरत्रयविशिष्टस्य