________________
तिलकमञ्जरी। समतृणप्रवालमुक्तालेष्टुलोष्टकाञ्चनम् [ल), परपुरुषदर्शनसावधानं सौविदल्लमिन्द्रियवृत्तिवनितानाम् , भूतापगुहमम्बुधरागमं साधुमयूराणाम् , दुर्विषहलेजसं महामन्त्रमनङ्गविकाराशीविषाणाम् , काशधवलगुणोद्भासितमगस्त्योदयं हृदयजलाशयानाम् [ए], आचारमिव चारित्रस्य, प्रतिज्ञानिर्वाहमिव ज्ञानस्य, शुद्धिसंचयमिव शौचस्य, धर्माधिकारमिव धर्मस्य, सर्वस्वदायमिव दयायाः, मार्गदेशकमिवापवर्गस्य [ऐ], तैजसं मूर्त्या,
वक्षो यस्य स तथा तम्, विपुलवक्षसमित्यर्थः, पद्मतुल्यहस्तं च । निष्परिग्रहमपि यदि भार्यारहितं कथं सकलत्रम् ? मन्यन्त्र परिग्रहरहितं सकलजनरक्षकं च । विदितवस्तुसारेतरविभागमपि ज्ञातपदार्थप्रधानाप्रधानविवेक यदि कथं समे तृणप्रवाले मुक्तालेष्टुनी लोष्टकाञ्चने च यस्य स तथोक्तस्तम् ? अन्यत्र समतृणप्रवालमुक्तालेटलोष्टकाञ्चनं वीतरागत्वेन रागाभावात् ल । परपुरुषदर्शनसावधानं परपुरुषः अन्यनरः, अन्यत्र प हम् एकत्र पृथ्वीसन्तापहारिणम् , अन्यत्र प्राणिविपत्तिघातिनम् । दुर्विषहतेजसं तेजः-दीप्तिः, अन्यत्र वीर्यम् । कासधवलगुणोझासितम् एकत्र कासानां धवलगुणेन श्वेतत्वेनोद्भासितम्, अन्यत्र कासवद् ये धवला गुणाः क्षान्त्यादयस्तैः शोभितम् [ए]। तैजसम् आनेयम्, अन्यत्र तेजोविकारम् । पावनं वायव्यम् , अन्यत्र पवि
पर्वतविशेषस्य, कटक इव-नितम्ब इव, मेखलाख्यमध्यभाग इव, विशालम् उरस्थलं वक्षःस्थलं यस्य तादृशम्, पुनः कमलसमकरं कमलकोमलहस्तम्, पक्षे त्रिकूटस्य-पर्वतविशेषस्य, यः कटक:-मेखलाख्यमध्यभागः, तस्य उरसि-ऊर्श्वभूमौ, तिष्ठतीति त्रिकूटकटकोरस्था, तादृशी लङ्का यस्मिस्तादृशम् , पुनः अलसमकरम् अलसाः-निश्शङ्कतया निश्चलाः, मकरा . यमिंस्तादृशम् । पुनः निष्परिप्रहमपि दारापत्यादिरहितमपि, सकलत्रं कलत्रेण-स्त्रिया, सहितमिति विरोधः, सकलान्सर्वान . त्रायते-रक्षतीति सकलत्रस्तादृशामित्यर्थेन तु तत्परिहारः "परिग्रहः परिजने शपथे च परिग्रहः । परिग्रहः कलन्चेच मूलस्त्रीकारयोरपि” ॥ इति शाश्वतः । पुनः विदितवस्तुसारेतरविभागमपि विदितः-निश्चितः, वस्तूनां-कनककाचादिपदार्थानाम् , सारस्य, तदितरस्य-असारस्य, विभागः-वैलक्षण्यं येन तादृशमपि, समतृणप्रवालमुक्तालोष्टलोष्टकाञ्चनं सम-तुल्यम्, तृणम् , प्रवालं-नवपल्लवो विद्रुमो वा, मुक्ता-मणिविशेषः, लेष्टुः-मृपिण्डः, लोष्ट-लोहमलम् , काञ्चनं-सुवर्ण च यस्य तादृशमिति विरोधः, तुल्यम्-अनपेक्षत्वेन सर्व समानं यस्येत्यर्थेन तु तत्परिहारः. "प्रवालोऽस्त्री किसलये वीणादण्डे च विहमे" इति मेदिनी, “लोष्टानि लेष्टवः पुंसि" इत्यमरः [ल.] । युनः इन्द्रियवृत्तिवनितानाम् इन्द्रियाणां-चक्षुराहीनाम् , या वृत्तयः-विषयाकारपरिणामविशेषाः, ता एव वनिताः-स्त्रियः, तासाम् , परपुरुषदर्शनसावधानं परपुरुषस्यअन्यपुरुषस्य, पक्षे उत्कृष्टपुरुषस्य, दर्शने-साक्षात्करणे, सावधान-वाधिकारपरम् , सौविदल्लम् अन्तःपुररक्षकम् । पुनः साधुमयूराणां साधवः-सज्जना एव, मयूरास्तेषां कृते, भूतापगृहं भुवः-पृथिव्याः, तापाय-रविकिरणसम्पातजनितोष्णताये, हुयति-तं हरतीति तादृशम् , पक्षे भूतानां-प्राणिनाम् , आपदे-विपत्तये, दुह्यति-तां विनाशयतीति तादृशम् , अम्बुधरा गमम् अम्बुधरस्य-मेघस्य, आगमम्-आगमनम् । पुनः अनङ्गविकाराशीविषाणाम् अनङ्गस्य-कामदेवस्य, ये विकाराःमोहादयः, त एवाशीविषाः-सर्पाः, तेषाम् , दुर्विषहतेजसं दुर्विषं-दुष्टविषम् , हन्ति-शमयतीति दुर्विषहम्, तादृशं तेजः शक्तिर्यस्य तादृशम् , महामन्त्रं महामश्रखरूपम् ; पक्षे दुःसहद्युतिम् । पुनः हृदयजलाशयानां हृदयान्येव जलाशयाःकासाराः, तेषां कृते, तत्स्वच्छताप्रयोजकमित्यर्थः, काशधवलगुणोद्भासितं काशस्य - काशाख्यतृणपुष्पस्य, यो धवल:शुभ्रताख्यो गुणः, तेन उद्भासितं प्रकाशितम् , कार्यविधया सूचितमित्यर्थः, पक्षे काशधवला:-काशपुष्पवच्छुभ्राः, ये गुणाः क्षान्त्यादयस्तैरुद्भासितम् , अगस्त्योदयमिव अगस्त्यस्य-तन्नान्नो नक्षत्रस्य, उदयमिव, तदुदये आश्विन-कार्तिकयोर्जलाना खच्छभावात् काशपुष्पोद्माचेति बोध्यम् [ए]। पुनः चारित्रस्य सम्यक्चारित्रस्य कृते, आचारमिव नियममिवेत्युस्प्रेक्षा, पुनः शानस्य सम्यग्ज्ञानस्य कृते, प्रतिक्षानिर्वाहमिव प्रतिज्ञायाः-तत्तद्रतसंकल्पस्य, निर्वाहमिव-पालनमिव, पुनः शौचस्य एकैकस्याः शुद्धः कृते, शुद्धिसञ्चयमिव शुद्धिपुञ्जमिव, शुद्धिकेन्द्रभूतमित्यर्थः, पुनः धर्मस्य धर्मस्य कृते, धर्माधिकारमिव धर्मविनियोक्तृत्वमिव, पुनः दयायाः करुणायाः, सर्वखदायमिव अशेषविभवरूपं भागमिव, अपवर्गस्य मोक्षस्य, मार्गदेशकमिव मार्गप्रदर्शकमिव [ऐ]। पुनः मूर्त्या आकृत्या, तैजसं तेजस्विनम् , सुवर्णादितेजोविकारभूतं
१२ तिलकर