________________
९०
टिप्पनक-परागविवृतिसंवलिता पावनं चरितैः, आप्यं पुण्यैः, पार्थिवमतीतावस्थया, विद्याधरमुनिमपश्यत् [ओ] । दृष्ट्वा च तमदृष्टपूर्वमुपजातकुतूहलो विस्मयस्तिमितदृष्टिरुपरतनिमेषतया दर्शनप्रीत्युपार्जितेन पुण्यराशिना तस्यामेव मूर्तावाविर्भूतदिव्यभाव इव मुहूर्तमराजत् । अभिमुखीभूतं च तं प्रासादस्य दिवसकरमिव पौरस्त्यभूधराभिलाषिणं सप्रभातसन्ध्यो वासरः सुदूरविकासितमुखः समं मदिरावत्या प्रत्युजगाम [औ] । धार्मिकजनानुवृत्त्यभिमुखानि हि भवन्ति सर्वदा धर्मतत्त्ववेदिनां हृदयानि, यतः स तं तथाकृताभ्युत्थानमादरातिशयपुनरुक्तोक्तस्वागतमुपारूढप्रौढपुलकप्रकटितान्तःप्रीतिमुत्पश्मलोचनयुगललक्ष्यीकृतमुखमग्रतः सपरिग्रहमवलोक्य समुपजातपक्षपातो विसृज्य मुनिभावसहभाविनीं निरपेक्षतामुपेक्षितनिजप्रयोजनो जन इवेतरस्तरसाभिमुख्यभवत् , अवा
अताकारकम् । आप्यम् भब्मयम् , अन्यत्र आप्यं प्राप्यम् । पार्थिवं पृथिवीविकारम् , अन्यत्र राजानम् [ ओ] । आविर्भूतदिव्यभावः संजातदेवत्व इव निश्चलदृष्ट्यादित्वात् । सुदूरविकसितमुखः एकत्र सुदूराद् विकसितं मुखं वक्रं यस्य स तथोक्तः, अन्यत्र सुदूरं विकसितानि मुखानि यस्य स तथोक्तः [ औ]।
वा, पुनः चरितैः सच्चारित्रैः, पावन पवित्रम् , वायव्यं वा, पुण्यैः, आप्यं प्राप्यं जलमयं वा, पुनः अतीतकालावस्थया भूतपूर्वावस्थया, अदीक्षितावस्थयेत्यर्थः, पार्थिवं राजानम्, पृथिवी विकारं वा, अत्र सर्वत्र पाक्षिकविषमालङ्कारविच्छित्तियोध्या। एतावद्विशेषणविशिष्टं विद्याधरमुनि गगनगमनादिविद्याबलसम्बलितं मुनिम् , अपश्यत् राजा दृष्टवान् [ओ] | अपूर्वम् अविद्यमानः तत्समानः पूर्वो यस्मात् तादृशं तं मुनिम्, यद्वा 'अपूर्वम्' अभूतपूर्व यथा स्यात्तथा, दृष्ट्वा निरीक्ष्य, मध्यमणिन्यायेन 'अपूर्वम्' इत्यस्योत्तरत्राप्यन्वयात् अपूर्वम् यथा स्यात्तथा, उत्पन्नकुतूहलः उत्पन्नतदवलोकनौत्सुक्यः, विस्मयस्तिमितदृष्टिः आश्चर्यनिश्चललोचनः, प्रीत्यर्जितेन तदवलोकश्रद्धासञ्चितेन, पुण्यराशिना सुकृतसम्पदा हेतुना, उपरतनिमेषतया निवृत्तनयनस्पन्दतया साधर्म्यण, आविर्भूतदिव्यभाव इव आविर्भूतः-अभिव्यक्तः, दिवि वर्गे भवः-दिव्यः, तस्य भावो दिव्यभावः देवत्वमित्यर्थः, यस्य तादृश इवेत्युत्प्रेक्षा, तस्यामेव मूर्ती मुनिशरीरे, मुहूर्ते किञ्चित्कालपर्यन्तम् , “मुहूर्तमल्पकाले स्याद् घटिकाद्वितयेऽपि च” इत्यनेकार्थसंग्रहः, अराजत मनसा लीनः सन्नशोभत, राजेति शेषः, पौरस्त्यभूधराभिलाषिणं पुरः-पूर्वस्यां दिशि, भवः पारस्त्यः, तस्य भूधरस्य, उदयाचलस्येत्यर्थः, अभिलाषिणम्-तदारोहणोन्मुखम् , दिघसकर सूर्यम् , सप्रभातसन्ध्यः प्रातरात्मकसन्ध्यया सहितः, वासरः दिवस इव, सुदूरविकासितमुखः सुदूरेण-अतिदूरस्थेनापि मुनिना, पक्षे सूर्येण च, यद्वा सुदूरम्-अतिरं यावत् , विकासितम्-उद्भासितम् , मुखं वदनं पक्षे आद्यभागश्च यस्य तादृशः, मदिरापत्या तश्नाम्न्या राश्या, समं सह, प्रासादस्य राजमन्दिरस्य, अभिमुखीभूतं तदभिमुखमवतरन्तम् मुनि प्रति. उजगाम उत्थाय तमुपजगाम, स राजेति शेषः | औ] हि यतः, धर्मतत्ववेदिनां धर्मतत्त्वज्ञानाम् , हृदयानि सर्वदा, धार्मिकजनानुवृत्यभिमुखानि धर्म चरन्ति आचरन्तीति धार्मिकाः, तादृशजनानाम् , अनुवृत्तौ-अनुकूलाचरणे, अभिमुखानि-अवहितानि, भवन्ति वर्तन्ते । यतः यस्माद्धेतोः, स मुनिः, तथाकृताभ्युत्थानं तथा-तेन प्रकारेण, कृतं-विहितम् , अभ्युत्थानम्-अभि अभिमुखम् उत्थानं येन तादृशम् , पुनः आदरातिशयपुनरुक्तोक्तस्वागतम् आदरातिशयेन-श्रद्धाऽऽधिक्येन, पुनरुक्तम्-उक्तम् उक्तपूर्वम् , स्वागतं-तदागमनश्लाघावाक्यं येन तादृशम् , पुनः उपारूढपुलकप्रकटितान्तःप्रीतिम् उपारूढः-उद्भूतैः, पुलकैः-रोमाञ्चैः, प्रकटिता-प्रकाशिता, अनुमापितेत्यर्थः, अन्तःप्रीतिः-हार्दिकश्रद्धा येन तादृशम् , पुनः उत्पक्ष्मलोचनयुगललक्ष्यीकृतमुखम् उद्-ऊर्ध्वमवस्थिते, पक्ष्मणी-नेत्रलोमलतिके यस्य तादृशेन लोचनयुगलेन, लक्ष्यीकृतं-लक्षितम् , मुखं यस्य तादृशम् , पुनः अग्रतः अग्रेसपरिग्रह सपत्नीकम् ,तं राजानम् , अक्लोक्य, समुपजातपक्षपातः समुत्पन्नतदनुकूलभावनः सन् , मुनिभावस्य, सहभाविनी सहावस्थायिनीम् , निरपेक्षताम् अन्यानपेक्षताम् , उदासीनतामित्यर्थः, विसृज्य परित्यज्य, इतरजन इव साधारणजन इव. उपेक्षितनिजप्रयोजनः अनुद्दिष्टस्वप्रयोजनः, तरसा वेगेन, अभिमख्यभवत अभिमुखीब
, तरसा वेगेन, अभिमुख्यभवत् अभिमुखीबभूव, च पुनः, अम्बरतलात् आकाशप्रदेशात् , अवातरत् अधस्तादागच्छत् [अं]।