________________
. तिलकमञ्जरी। सर्वभूतानन्दकारिणीमचिरपरिणतामङ्गलक्ष्मी दधानम् [उ], अस्थूलमुक्ताफलश्रियः श्रमस्वेदकणिका गगनगङ्गाजलविमुष इब जवादनिलानीता विशालोन्नतललाटदेशसङ्गिनीरुद्वहन्तम् [3], अञ्जनत्विषा निजशरीरच्छायापुरुषेण दक्षिणाशागमनपरिचयप्रतिबुद्धेन धर्मराजेनेव सद्योगृहीतदीक्षेण दक्षिणेतरभागवर्तिना सदृशवेषाकारधारिणा सततमनुगम्यमानम् [ऋ], अभिनवतमालखण्डहरितान्यप्सरोभिरिव सविभ्रमोन्मेषाभिरित स्ततो विलसन्तीभिस्तडिद्भिरध्यासितानि तपोभीतशतमखप्रदर्शितानि मायावनानीव सजलमेघमण्डलानि प्रतिमार्गमवलोकयन्तम् [ऋ], अर्धपथदृष्टसिद्धसादरोत्सृष्टाभिरायामिनीभिरर्धकुसुमस्रग्भिः समन्ततो जटिलीकृतेन दुरुत्तरभवकूपनिपतितप्राणिसार्थोद्धरणार्थमधःप्रवर्तितपुण्यरज्जुनैव स्वभावमृदुना चरणद्वयेन द्योतमाने
धर्मराजेन यमेन [
]
AAAMw
तिथिमिव, सर्वभूतानन्दकारिणी सर्वेषां भूतानां प्राणिनाम् , आनन्दः-दर्शनसुखम् , तत्कारिणीम् , पक्षे सर्वेषां भूतानां पिशाचादीनाम् , महोत्सवकारिणीम् , चतुर्दश्यां निशि तेषां खेच्छया विहारोत्सवश्रवणात् , “भूतं क्ष्मादौ पिशाचादौ” इति मेदिनी [उ] | पुनः कीदृशममुं मुनिम् ? श्रमस्वेदकणिका उद्वहन्तं श्रमेण-निरालम्बगगनमार्गातिक्रमणक्लेशेन हेतुना याः खेदकणिकाः - घोंदबिन्दवः, ता उद्-ऊर्ध्वदेशावच्छेदेन, वहन्तं-धारयन्तम् , तमूर्ध्वदेशं कणिकाविशेषण घटकतयाहविशालोनतललाटदेशसङ्गिनीः विशाल:-बृहत् , उन्नतः-उच्चश्व, यो ललाटदेशः, तत्सङ्गिनी:-तत्सङ्गताः, कीदृशीस्ताः कणिकाः ? अस्थूलमुक्ताफलश्रियः अस्थूलानि-लघूनि, यानि मुक्ताफलानि-मौक्तिकरनानि, तेषां श्रिय इव श्रियो यासां तादृशीः, पुनः कीदृशीः ? जवादनिलानीता गगनगङ्गाजलविघुष इव जवाद्-वेगतः अनिलेन-वायुना, आनीताःप्रापिताः, गगनगङ्गायाः-आकाशगङ्गायाः, विग्रुषः- बिन्दूनिवेत्युत्प्रेक्षा, "पृषन्ति बिन्दुपृषताः पुमांसो विषुषः स्त्रियाम्" इत्यमरः [ऊ] । पुनः कीदृशम् ? निजशरीरच्छायापुरुषेण स्वशरीरसम्बन्धिच्छायात्मकेन पुरुषेण, सततं निरन्तरम् , अनुगम्यमानम् आश्रीयमाणम् , कीदृशेन तेन ? अञ्जनत्विषा अञ्जनस्येव विद-कान्तिः कृष्णोज्वलकान्तिर्यस्य तादृशेन, पुनः कीदृशेन तेन ? दक्षिणेतरभागवर्तिना वामभागवर्तिना, पुनः कीदृशेन ? सदृशवेषाकारधारिणा मुनितुल्यवनादिवेष्टिताकारधारिणा, पुनः कीदृशेन? धर्मराजेनेव यमराजखरूपेणेवेत्युत्प्रेक्षा, कीदृशेन धर्मराजेन? दक्षिणाशागमनपरिचयप्रबुद्धेन दक्षिणस्याम् , आशायां-दिशि, यद् गमनं-विद्याधरमुनेः प्रस्थानम् , तेन हेतुना यः परिचयः-तदीयाध्यात्मिकशक्तिप्रतीतिः, तेन प्रतिबुद्धेन-उन्मीलितश्रद्धेन, अत एव सद्यः-तरक्षण एव, गृहीतदीक्षेण गृहीता-तन्मुनेः सकाशादवाप्ता, दीक्षा-प्रवज्या येन तादृशेन, तदीयशिष्यतां गतेनेत्यर्थः [ऋ] । पुनः कीदृशं मुनिम् ? प्रतिमार्ग मार्गे मार्गे, सजलमेघमण्डलानि सजलानि-जलपूर्णानि, मेघमण्डलानि-गगनलम्बमानातिनिकटजलदपटलानि, पश्यन्तं तदीयशोभामनुभवन्तमित्यर्थः, तानि कीदृशानि? अभिनवतमालखण्डहरितानि अभिनवानां नूतनानाम् , तमालाना-तज्जातीयवृक्षविशेषागाम , ये खण्डाः-अवान्तरविभागाः, तद्वत् हरितानि हरितवर्णानि, पुनः कीदृशानि ? तडिद्भिः विद्युल्लताभिः, अध्यासितानिअधिष्ठितानि, काभिरिव ताभिः? अप्सरोभिरिव खर्वेश्याभिरिव, कीदृशीभिरप्सरोभिः? सविभ्रमोन्मेषाभिः सविनमा:विभ्रमेण शृङ्गारचेष्टया सहिताः, पक्षे शृङ्गारचेष्टोद्भावकाः, उन्मेषाः-चक्षुरुन्मीलनानि, पक्षे आविर्भावा यासा तादृशीभिः, पुनः कीदृशीभिः ? इतस्ततः अनवस्थया, विलसन्तीभिः क्रीडन्तीभिः, पुनः कीदृशानि मेघमण्डलानि ? तपोभीतशतमखप्रदर्शितानि तपोभीतेन-तपसा-तन्मुनेस्तपस्यया, भीतेन-खपदाक्रमणत्रस्तेन, शतमखेन-इन्द्रेण, प्रदर्शितानि-तपोविच्छेदार्थमुद्भावितानि, मायावनानीव ऐन्द्रजालिकवनानीवेत्युत्प्रेक्षा [ऋ] | पुनः कीदृशममुं मुनिम् १ चरणद्वयेन खपादयुगलेन, द्योतमानम् उद्भासमानम् , कीडशेन तेन ? अर्घकुसुमनम्भिः अर्घस्य-पूजायाः, यानि कुसुमानि, पूजोपकरणभूतानीत्यर्थः, "मूल्ये पूजाविधावर्घः" इत्यमरः, तेषां-तन्मयीभिरित्यर्थः, स्वग्भिः-मालाभिः, जटिलीकृतेन गुरुतामापादितेन, कीदृशीभिस्वाभिः? अर्धपथदृष्टसिद्धसादरोत्सृष्टाभिः अर्धपथे-अर्धमार्गे, दृष्टाः-दृष्टिपथं गताः, ये सिद्धाः विद्यासिद्धादिपुरुषाः, तैः सादरम्-आदरसहितम् , उत्सृष्टाभिः-समर्पिताभिः, पुनः आयामिनीभिः दीर्घाभिः । काभिरिव ताभिः ? दुरुत्तरभवकूप