Book Title: Tilakamanjiri Part 1
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 134
________________ ९८ टिप्पनक-परागविवृतिसंवलिता चरणेन, मुञ्चारण्यगमनस्पृहाम् , गृहावस्थित एव कुरु देवताराधनम् , अर्पय समस्तस्यापि वनवासोचितस्य क्लेशस्याङ्गम् , अङ्गीकुरु मुनिव्रतक्रियाम् । किं ते दूरवर्तिनीभिरपराभिर्दुराराध्याभिर्देवताभिः; इमामेव प्रकृतिसौम्यां सततसन्निहितामुपास्स्व सकलक्षितिपालकुलदेवतां राजलक्ष्मीम्, इयं हीक्ष्वाकुभरतभगीरथादिभूपालपराक्रमक्रीता त्वदन्वयनिसर्गपक्षपातिनी त्वया सकलभुवनप्रतीक्ष्येण शुचिना धार्मिकेण निगृहीतेन्द्रियवृत्तिना दृढभक्तिनात्युदाराशयेन प्रमादपरिहारिणा कालोचितज्ञेन प्रक्रमप्रकटितक्षात्रतेजसा विधिवदाराध्यमाना नियमात् प्रसादं गमिष्यति, अभिमतार्थविषयं च वरमचिरेण वितरिष्यति []। अमूं च भक्तिप्रवणेन चेतसा गृहाण निर्विकल्पमल्पपुण्यजनदुर्लभां त्रिभुवनख्यातयशसमपराजिताभिधानामशेषविद्याधरेन्द्रवन्दितां विद्याम् , कुरु दिवसस्य रात्रेश्च भागत्रयमशून्यं देवार्चनेन, अवसाने च तस्य जप जप्यचरितसमाहितेन टिप्पनकम्-प्रतीक्ष्यः-पूज्यः [क]। अस्याः पुरोवर्तिन्याः, निजप्रणयिन्याः स्वप्रियायाः, प्रतिकूलाचरणेन अनभिमताचरणेन, चित्तखेद हृदयविषादम् , मा समुत्पादय न जनय । अरण्यगमनस्पृहां वनगमनकामनाम् , मुश्च यज । गृहावस्थित एव निजनिकेतने स्थित एव, देवताराधनं खेष्टदेवतोपासनं कुरु । समस्तस्यापि सर्वस्यापि, वनवासोचितस्य वनवासभोग्यस्य, क्लेशस्य कष्टस्य, अङ्गं तादृशकष्टसहनक्षम शरीरम् , अर्पय समर्पय, गृहे स्थित्वैव वनवासोचितनियमान् सहस्खेत्यर्थः । मुनिवतक्रियां मुनिव्रतानां-तद्योग्योपवासादिनियमानाम् , क्रियाम्-अनुष्ठानम् , अङ्गीकुरु स्वीकुरु । दूरवर्तिनीभिः अरण्यरूपदूरस्थानस्थाभिः, दुराराध्याभिः दुःखेनाराधनीयाभिः, अपराभिः खराज्यलक्ष्या अन्याभिः, देवताभिः, ते तव, किम् ? न किमपि प्रयोजनमिति भावः। प्रकृतिसौम्यां निसर्गमनोहराम् , सततसन्निहिताम् अनवरतं समीपगाम् , सकलक्षितिपालकुलदेवतां सकलानां सर्वेषाम् , क्षितिपालाना-नृपाणाम् , कुलदेवतां कुलपरम्परोपास्यदेवताम् , इमां प्रत्यक्षभूताम् , राजलक्ष्मी राजसम्पत्तिमेव, राजसम्पदधिष्ठात्री लक्ष्मीनाम्नी देवीमेवेत्यर्थः, उपास्स्व आराध्य । हि यतः, इक्ष्वाकु-भरतभगीरथादिभूपालपराक्रमक्रीता इक्ष्वाकु-भरत-भगीरथादयो ये, भूपालाः-प्राचीननृपतयः, तेषां पराक्रमेण-सामर्थेन, क्रीता-अर्जिता वशीकृतेत्यर्थः । त्वदन्वयनिसर्गपक्षपातिनी त्वदन्वयस्य-स्वद्वंशस्य, निसर्गेण-खभावेन, पक्षपातिनीप्रणयिनी । इयं राजलक्ष्मीः । सकलभुवनप्रतीक्ष्येण निखिलजगतः, प्रतीक्ष्येण-पूज्येन, शुचिना पवित्रेण, धार्मिकेण धर्माचारिणा, निगृहीतेन्द्रियवृत्तिना वशीकृतेन्द्रियव्यापारेण, दृढभक्तिना पूजनीयजनविषयकस्थिरप्रीतिशालिना, अत्युदाराशयेन परमोच्चहृदयेन, प्रमादपरिहारिणा प्रमादमनवधानतां परिहर्तुं शीलमस्य तादृशेन, प्रमादशून्येन, कालोचितशेन यस्य कालस्य यत् कार्यमुचितं योग्यं तदभिज्ञेन, इदमस्मिन् काले कर्तव्यमित्येतादृशप्रज्ञासम्पन्चेनेत्यर्थः, प्रक्रमप्रकटित. क्षात्रतेजसा प्रक्रमेण--क्रमशः, यद्वा प्रक्रमे-अवसरे, प्रकटितम्-आविष्कृतम् , क्षात्रतेजः-क्षत्रस्येदं क्षात्रम् , क्षत्रियसम्बन्धि, तेजः-सामर्थ्य शौर्यमित्यर्थः, येन, यद्वा क्षात्रेषु-“शौर्य तेजो धृतिर्दाक्ष्यं युद्धे चाप्यपलायनम् । दानमीश्वरभावश्च क्षात्रं कर्म खभावजम्" ॥ इति गीतागीतेषु क्षत्रियसम्बन्धिकर्मसु, तेजः-पराक्रमो येन तादृशेन त्वया, यद्वा प्रक्रमे-देवताराधनावसरे, प्रकटितं-नानोपद्रवोपनिपातेऽप्यविचलतया प्रकाशितम् , क्षात्रतेजः-क्षत्रियपरम्परागतप्रौढसामर्थ्य येन तादृशेन त्वया, विधिवत् शास्त्रोक्तकमेण, आराध्यमाना उपास्यमाना सती, नियमात् निश्चयेन, प्रसादं प्रसन्नताम् , गमिष्यति अनुभवि. ध्यति । च पुनः, अभिमतार्थविषयम् अभिमतः-अभिलषितो योऽर्थः-पुत्ररूपः, तद्विषयं-तजनकम्, वरम् आशीवक्यिम् , अचिरेण अविलम्बेन, वितरिष्यति दास्यति [ङ]। च पुनः, अल्पपुण्यजनदुर्लभाम् अल्पं-परिमितम् , पुण्यं-सुकृतं येषां तादृशैर्जनैः, दुर्लभां-दुष्प्रापाम् , त्रिभुवनस्यातयशसं लोकत्रयप्रसिद्धप्रभावाम् , अशेषविद्याधरेन्द्रवन्दिताम् अशेषैः-समस्तैः, विद्याधरेन्द्रैः विद्याधर श्रेष्ठैः, वन्दिताम्-आदृताम् , अपराजिताभिधानां न पराजिता कदाचिदन्यविधयेत्यपराजिता, अभिधानम्-अन्वर्थनामधेयं यस्यास्तादृशीम् , अमूम् अनुपदमुपदेश्यमाणाम् , विद्यां देवीसमधिष्ठितमत्ररूपाम् , भक्तिप्रवणेन प्रीतिपूर्णेन, चेतसा, निर्विकल्पं ग्रहीतव्यत्वसंशयशून्यं यथा स्यात्तथा, गृहाण अवधारय । दिवसस्य दिनस्य, रात्रेश्च, भागत्रयं प्रातमध्याहसायरूपान् प्रदोषनिशीथोच्चन्द्ररूपास्नीन भागान् , देवतार्चनेन देवतापूजनेन,

Loading...

Page Navigation
1 ... 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196