Book Title: Tilakamanjiri Part 1
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text ________________
टिप्पनक-परागविवृतिसंवलिता श्रुत्वा चोपजातहर्षश्चिन्तितवान्—'अहो महात्मनाऽनेन मागधपुत्रेण यदृच्छयाऽपि गायतेदमपरवक्रमावेदितः करणीयमूढस्य मे कार्यसिद्धथुपायः, तदिदमेवाङ्गीकरोमि सारस्वतमस्योपदेशवचनम् , आराधयामि गत्वाऽरण्यमुपनतशरण्यां कामपि प्रख्यातां देवताम्' इति, उत्थाय च यथाक्रियमाणं पौर्वाह्निकानुष्ठानमनुष्ठायाधिरुवान्तःपुरप्रासादमिममस्याश्चित्रशालिकायाः प्राङ्गणवितर्दिकोपविष्टां समाश्लिष्य देवीमिदं सदुःखमवदम्'देवि! त्वदपत्यसन्ततिनिमित्तमितो मया गत्वाऽरण्यमा वरप्रदानाद् देवताराधनं कर्तुमध्यवसितम् , यावश्च सिद्धप्रयोजनोऽहमागच्छामि तावत् त्वया शुश्रूषमाणया गुरुजनमिह स्थातव्यम्' इति, निशम्य चेदमश्रुतपूर्वमतिदुःसहं वचनमस्माकमकस्मादेव मूञ्छितेयम् , उच्छन्नसंज्ञा च तिर्यक् पतन्ती सत्वरेणोपसृत्य धारिता परिजनेन, स्थित्वा च क्षणं समाश्वस्ता, निःश्वस्य चातिदीर्घमिदमपारदुःखभारभज्यमानगलसरण्या गदितमनया स्वरेण गद्गदेन स्वैरम्-'आर्यपुत्र! सन्तानकार्यसिद्धये तव प्रस्थितस्य नाहं प्रतिपन्थिनी, किश्च पुनरिदं विज्ञापयामि
उदयति आविर्भवति, पक्षे सन्तत्या वर्धते, वर्धनोन्मुखमास्त इत्यर्थः, अतस्तत्प्रत्यूहापनोदनाय, निरपायं निरुपद्रवं यथा स्यात्तथा, देवताः खेष्टदेवान् , उपास्व आराधय । श्रुत्वा च तथा निशम्य च, उपजातहर्षः उत्पन्नानन्दः, चिन्तितवान् आलोचितवान् , अहमिति शेषः । किमित्याह-अहो इत्याश्चर्ये, अनेन निकटस्थितेन, महात्मना अतीतानागतादिज्ञात्रा, मागधपुत्रेण बन्दिसुतेन, इदं श्रूयमाणम् , अपरवकं तत्संज्ञकच्छन्दोविशेषम् , यहच्छयाऽपि खेच्छयाऽपि, गायता, करणीयमूढस्य कर्तव्यमूढस्य, मे मम, कार्यसिद्धधुपायः कार्यस्य-पुत्रोत्पत्तिरूपस्य, सिद्धेः, उपाय:देवतोपासनरूपः, आवेदितः ज्ञापितः, "स्युर्मागधास्तु मगधा बन्दिनः स्तुतिपाठकाः" इत्यमरः । तत् तस्माद्धेतोः, इदमेव श्रूयमाणमेव, अस्य मागधपुत्रस्य, तदुच्चारितमित्यर्थः, सारस्वतं सरखत्या उपदेशवचनम् , देवतोपासनोपदेशवाक्यम् , अङ्गीकरोमि तदनुसारमनुतिष्ठामीत्यर्थः । अरण्य वनम् , गत्वा, उपनतशरण्याम् उपनताना-खाश्रितानाम् , शरण्यांशरणे रक्षणे साधुः-शरण्यः, तादृशीम् , प्रख्यातां प्रसिद्धाम् , देवताम् आराधयामीति । उत्थाय च अनेन संकल्पेन शयनादपसृत्य च, यथाक्रियमाणं क्रियमाणमनतिक्रम्य, नित्यकृत्यरूपमिति यावत् , पौर्वाहिकानुष्ठानम् अहः पूर्व पूर्वाहः, दिवसप्रथमभागः, तत्र भवं पौर्वाह्निकम् , तादृशम् , अनुष्ठान कृत्यम् , अनुष्ठाय कृत्वा, इमं प्रत्यक्षभूतम् , अन्तःपुरप्रासादं राज्ञीनिकेतनम् , अधिरुह्य आरुह्य, अस्याः प्रत्यक्षभूतायाः, चित्रशालिकायाः चित्रवर्णशालायाः प्राङ्गणवितर्दिकोपविष्टां प्राङ्गणे या वितर्दिका-वेदिका, तस्यामुपविष्टाम् , “स्याद् वितर्दिस्तु वेदिका” इत्यमरः । देवीं राज्ञीम् , मदिरावतीमित्यर्थः, समाश्लिष्य सम्यगालिङ्गय, सदुःखं दुःखपूर्वकम् , इदं खसंकल्पादिवाक्यम् , अवदम् उक्तवान् । किमित्याह-देवि! राज्ञि!, त्वदपत्यसन्ततिनिमित्तं तवापत्यसन्ततिः-अपत्यसमूह एव, निमित्तं-फलविधया कारणं यस्मिस्तादृशं यथा स्यात्तथा, यद्वा स्वदपत्यसन्ततेः, निमित्त-प्रयोजक यथा स्यात्तथा, इतः अस्मात् स्थानात्, अरण्यं तपोवनम् , गत्वा, आ वरप्रदानात् पुत्रात्मकवरदानपर्यन्तम् , मया, देवताराधनं देवतोपासनम् , कर्तुम् अनुष्ठातुम् , अध्यवसितं निश्चितम् , यावश्च यावत्कालम् , सिद्धप्रयोजनः प्राप्तवरः, अहम् , आगच्छामि, तावत् तावत्कालम् , त्वया भवत्या, गुरुजनं स्वश्वश्रूप्रभृतिम् , शुश्रूषमाणया निषेवमाणया, इह अत्रैव, स्थातव्यं निवसनीयम् । इदम् उच्यमानम् , अश्रुतपूर्व पूर्व कदाऽप्यश्रुतम् , अतिदुःसहं विश्लेषावेदकत्वेन दुःश्रवम् , अस्माकम् वचनं वनगमनवाक्यम् , निशम्य च श्रुत्वा च, अकस्मादेव हेतुविशेषव्यतिरेकेणैव, इयं मदिरावती, मूञ्छिता मूर्छामवाप्तवती, उच्छन्नसंज्ञा च विध्वस्तचैतन्या च सती, तिर्यक् कुटिलम् , पतन्ती अधो लुठन्ती, सत्वरेण त्वराशालिना, परिजनेन खजनेन, उपसत्य समीपमेत्य, धारिता अवलम्बिता, च पुनः, क्षणं किञ्चित् कालम् , स्थित्या स्थैर्यमाश्रित्य, समाश्वस्ता प्रत्यावृत्तचैतन्या, समजनि, अतिदीघ निःश्वस्य च चैतन्यप्रत्यावृत्त्या महान्तं निःश्वासं गृहीत्वा च, अपारदुःखभारभज्य. मानगलसरपया अपारस्य-अनन्तदुःखस्य, भारेण, भज्यमाना- विदार्यमाणा, गलसरणि:-कण्ठश्वनिमार्गों यस्यास्तादृश्या, भिद्यमानकण्ठयेत्यर्थः, अनया मदिरावस्या, गद्देन विश्लेषवेदनयाऽव्यक्तेल, खरेण, स्वैरं स्वतन्त्रं यथा स्यात्तथा, इदम् अनुपदवक्ष्यमाणवाक्यम् , गदितं प्रतिपादितम् । आर्यपुत्र! राजकुमार!, सन्तानकार्यसिद्धये सन्तानस्य-पुत्रात्मकस्य,
Loading... Page Navigation 1 ... 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196