Book Title: Tilakamanjiri Part 1
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 133
________________ तिलकमञ्जरी । ९७ " यथा तव तथा ममाप्याराधनीया देवता, एवं च कस्मात् परित्यज्य मामेक एव व्रजसि वनम् अथ मन्यसे मदीयाराधनेनैव सिद्धं तचाराधनमिति कस्यात्र सन्देहः, किन्त्विदानीं त्वमुज्झितापरान्तःपुरिकासमीहितो मत्कृते व्रतं चरिष्यसीति वचनशतैरपि न प्रत्येमि, न च त्वया विरहिता मुहूर्तमपि स्थातुं शक्रोमि, तदवश्यं मयापि गन्तव्यमरण्यम्, अवमन्य चेदं गच्छसि मां गच्छ, सिध्यतु तवाभीघ्रम् दृष्टस्त्वमधुनैव' इत्यभिदधाना ललाटविलुलितविशृङ्खलालकपद्धतिरधोमुखीभूता, भूयोऽप्यनुबध्यमानया च निःशब्दमवजिताब्दजलधारैरश्रुधारै रुदितमनया, न पुनः किञ्चिदुदितम् [घ] । तदियमस्थान एवात्मानुगमनेन कुर्वती मे गमनभङ्ग भगतोऽपि युज्यते वक्तुं यथायुक्तम्' इत्युक्तवति पार्थिवे चित्तपरिभाविततदीयोपतापदन्तोद्वेगो मुनिस्तत्क्षणमेव योगनिद्राभगात् । उन्मुद्रितेक्षणञ्चानतिचिरेण सप्रहर्षो नृपमुवाच 'राजन् ! भुक्तभूयिष्ठमधुना वर्तते तवापत्यसन्ततिप्रतिबन्धकमदृष्टम्, अतो मनसि धृतिमाधेहि, मा विधाः स्वल्पमपि विषादम, मा समुत्पादय चित्तखेदमस्याः सदा सुखोचिताया निजप्रणयिन्याः प्रतिकूला . कार्यस्य, सिद्धये - निष्पत्तये, प्रस्थितस्य कृतारण्यप्रस्थानस्य, तव, अहं न प्रतिपन्थिनी प्रतिबन्धिनी । किञ्च किन्तु, पुनः, इदं विज्ञापयामि बोधयामि । किमित्याह - यथा येन प्रकारेण तव देवता आराधनीया, तथा तेन प्रकारेण ममापि । एवं च एवं सति च कस्मात् कुतः कारणात्, मां परित्यज्य इहैव त्यक्त्वा, एक एव एकाक्येव, वनं व्रजसि गच्छसि । अथ चेद् मदीयाराधनेनैव मत्कर्तृकाराधनयैव तवाराधनं स्वत्कर्तृकाराधनम्, सिद्धम्, आवयोरभेदात्, इति मन्यसे, अत्र अस्मिन् विषये, कस्य सन्देहः ? न कस्यापीत्यर्थः, किन्तु उज्झिता परान्तःपुरिकासमीहितः उज्झितं - त्यक्तम्, अपरान्तःपुरिकाणाम्-अन्यराज्ञीनाम्, समीहितम् - अभिलषितं येन तादृशस्त्वम्, इदानीं मत्कृते मदर्थमेव, त्रतंदेवताराधनम्, चरिष्यसि आचरिष्यसि, इति वचनशतैरपि शपथवाक्यशतैरपि न प्रत्येमि विश्वसिमि । न च नापि, त्वया विरहिता त्यताsहम्, मुहूर्तमपि क्षणमपि, स्थातुं जीवितुम्, शक्नोमि प्रभवामि । तत् तस्मात् मयाऽपि, अरण्यं वनम् अवश्यं निश्चितमेव, गन्तव्यम् । चेत् यदि, माम्, अवमन्य उपेक्ष्य, गच्छसि गच्छ । तय, अभीष्टम् अभिलषितम्, सिध्यतु | अधुनैव इदानीमेव त्वं दृष्टः मया खदृष्टिगोचरतां नीतः, त्वत्प्रयाणोत्तरं ममापि लोकान्तरप्रयाणावश्यम्भावेन पुनर्दर्शनासम्भवात् मत्यागस्वभावोऽधुनैव त्वं ज्ञातो मया न पुरेति वार्थः । इति इत्थम्, अभिदधाना कथयन्ती, ललाटविलुलितविशृङ्खलाल कपद्धतिः ललाटे - भालस्थले, विलुलिता - विक्षिप्ता, विशङ्खला- विमुक्तबन्धना, अलकपद्धतिःकेशश्रेणिर्यस्यास्तादृशी सती, अधोमुखीभूता अवनतमस्तका जाता । भूयोऽपि पुनरपि, अनुबध्यमानया च वक्तुमतुरुध्यमानया च, निषिध्यमानया चेति पाठे वनगमनान्निवार्यमाणया चेत्यर्थः, अनया मदिरावत्या, निःशब्दम् अन्यानवगतये शब्दरहितं यथा स्यात्तथा, अवजिताब्दजलधारैः अवजिता- तिरस्कृता, अब्दस्य- मेघस्य, जलधारा यैस्तादृशः, अश्रुधारैः नयनजलधारैः रुदितं रोदनं कृतम्, पुनः न किञ्चित् किमपि, उदितम् उक्तम् [घ] । तत् तस्मात्, अस्थाने व अनवसरे एव, आत्मानुगमनेन खानुत्रजनाग्रहेण मे मम, गमनभङ्गं गमननिरोधम्, कुर्वती, इयं मदिरावती, भगवतोऽपि तवापि विद्याधरमुनेः यथायुक्तं यथोचितम् वक्तं किमपि कथयितुम्, युज्यते योग्या वर्तते । इति इत्थम्, पार्थिवे राशि, उक्तवति निवेदितवति, मुनिः चित्तपरिभाविततदीयोपतापदत्तोद्वेगः चित्तेन मनसा, परिभावितः - समालोचितो यः, तदीयोपतापः- तत्सम्बन्धी उपतापः - अपत्याभावदुःखम् तेन दत्तः जनितः, उद्वेगः- उद्धमः, हृदयसम्भ्रम इति यावत्, यस्य तादृशः सन् "उद्वेग उमे" इत्यमरः, तत्क्षणमेव नृपनिवेदनसमय एव, योगनिद्रां समाधिरूपनिद्राम्, अगात् प्राप्तवान् । च पुनः, अनतिचिरेण अनतिविलम्बेन, उन्मुद्रितेक्षणः उन्मीलितलोचनः सन्, सप्रहर्षः प्रकृष्टहर्षसहितः, नृपम्, उधाच वक्ष्यमाणमाश्वासनवाक्यं कथयामास । किमित्याह - राजन् ! अधुना तव, अपत्यसन्ततिप्रतिबन्धकम् अपत्योत्पत्तिप्रतिरोधकम्, अदृष्टं दुरितविशेषः, भुक्तभूयिष्ठं भुक्ता भूयिष्ठा बहुतरा अंशा यस्य तादृशम्, घर्तते अवशिष्यते । अतः अस्माद्धेतोः, मनसि हृदि, धृतिं धैर्यम्, आधेहि जनय, स्वल्पमपि अल्पमपि विषादम् अपत्याभावदुःखम् मा विधाः न कुरु । सदा सर्वकाले, सुखोचितायाः सुखयोग्यायाः, १३ तिलक०

Loading...

Page Navigation
1 ... 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196