Book Title: Tilakamanjiri Part 1
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 137
________________ तिलकमञ्जरी। गीतानि न निजचरणनूपुररणितानि, त्वरयितव्यः सायन्तनविधये सुघटितसन्धिभिर्मागधीश्लोकैर्न सुरतदूती. लोकैः, कारयितव्यः कण्टकिनि पत्रच्छेदविरचनं देवतार्चनकेतकदलेन कपोलतले' [ज] इत्युक्ते महर्षिगा मदिरावती त्रपातरलतारया दशाऽवलोक्य पत्युर्मुखमधोमुखीबभूव । तां च तथावस्थितां निर्वचनामधःसस्ताभिरलकवल्लरीभिर्विलक्षस्मितमिवाच्छादयितुमाच्छादितकपोलदर्पणां करनखशुक्तिभिरलग्नमपि विलेपनाकं चरणोमिकारत्नशकलेषु पुनः पुनरुल्लिखन्तीमवनतग्रीवतया सम्यगविभाव्यमानामपि तत्कालकन्दलितापूर्वशोभाकमनीयस्य मुखचन्द्रस्य चारुतां रत्नकुट्टिमावलम्बिना प्रतिबिम्बेन पिशुनयन्तीं पुनः पुनरवलोक्य कृतस्मितो नरपतिर्मुनि बभाषे- 'भगवन् ! किमिति वारं वारमेनां नियमयसि, नन्वेकवचसैव सर्वमवधारितमनया, प्रतिपन्नं चं मनसा, करिष्यति चाद्य प्रभृति सर्वं भगवदादिष्ठम् , अतिदक्षिणा ह्यसौ प्रायेणापरस्यापि मान्यजनस्य न करोति खस्य स्थितिः, बहु श्रेयस्कर मन्तव्यम् , न न तु, रतिभवने केलिगृहे । श्रवणहारीणि कर्णकौतुकावहानि, देवतास्तुतिगीतानि देवतास्तुतिरूपाणि, गायनानि, श्रावयितव्यः श्रावणेनोल्लासयितव्यः, आत्मेति शेषः, न न तु, निजचरणनूपुररणितानि खपादपरिहितनूपुरध्वनीन् , तेषां मनोव्यामोहकत्वात् । सायन्तनविधये सन्ध्यासमयोचितानुष्ठानाय, सुघटितसम्धिभिः सुघटितः-श्रवणसुखार्थ सम्पादितः, सन्धिः-व्याकरणोक्तवर्णसंश्लेषः, अनेकार्थबोधचम येषु तादृशैः, मागधीश्लोकैः स्तुतिपाठिकापठ्यमानपद्यैः, तादृशपद्यश्रवणेनेत्यर्थः, त्वरयितव्यः आत्मा शीघ्रयितव्यः, न तु सायम्तनविधये वेषभूषाविन्यासाय, सुघटितः-सुसम्पादितः, सन्धिः-नायक-नायिकयोः सम्मेलनं यैस्तादृशैः, सुरतदूतीलोकैः सम्भोगार्थसन्देहहारिस्त्रीजनैः, आत्मा त्वरयितव्यः । कण्टकिनि कण्टकान्विते, देवतार्चनकेतकदले देवतार्चनोपकरणभूतकेतकाख्यपुष्पगुमपत्रे, पत्रच्छेदविरचनम् अन्योऽन्यसंश्लिष्टपत्राणां खण्डशो विश्लेषणकार्यम् , कारयितव्यः, आत्मेति शेषः, न तु कण्टकिनि पुलकिते, कपोलतले गण्डमण्डले, पत्रच्छेदविरचनं चन्दनपङ्कादिना पत्रखण्ड निर्माणम् [ज] । महर्षिणा विद्याधरमुनिना, इति इत्थम् , उक्त कथिते सति, मदिरावती राज्ञी, पातरलतारया लजानवले. कमीनिकाशालिन्या, दृशा दृष्ट्या, पत्यु:-राज्ञः, मुखम् , अवलोक्य निरीक्ष्य, अधोमुखी नम्रमुखी, बभूव जाता । तथावस्थिताम् अधोमुखीभूयोपविष्टाम् , निर्थचना वचनरहिताम् , गृहीतमौनामिति यावत् , अधास्ताभिः खभर्तृविश्लेषनिश्चयोपचितवेदनावशेनासंयततया अधोनिपतिताभिः, अलकघल्लरीभिः कुटिलकेशरूपमअरीभिः विलक्षसितं साश्चर्यमीषद्धासम् , आच्छादयितुमिघ तिरोधातुमिवेत्युत्प्रेक्षा, आच्छादितकपोलदर्पणाम् आच्छादितौ-आवृतौ, चलकपोलौ यस्यास्तादृशीम . पुनः करनखशक्तिभिः करनखरूपाभिः शक्तिभिः, अलग्नामपि असं. सृष्टमपि, तामिरधृतमपीत्यर्थः, विलेपाकं कुङ्कुमद्रवचिह्नम् , चरणोर्मिकारत्नशकलेषु चरणाजुलीयकरमखम्लेषु, "आई. लीयकमूर्मिका" इत्यमरः, पुनः पुनः असकृत् , उल्लिखन्तीं प्रतिबिम्बयन्तीम् , कुङ्कुमादिद्रवलेपनाभावेऽपि नैसर्गिक्या एव करनखातेरङ्गुलीयकरत्नेषु सङ्क्रान्तिरासीदिति भावः, पुनः अवनतग्रीवतया अवनता-अधोलम्बिता, ग्रीवा-कन्धरा ययां तादृशतया, सम्यगविभाव्यमानामपि सम्यक-स्फुटं यथा स्यात्तथा, अलक्ष्यमाणामपि, तत्कालकन्द लितापूर्वशोभाकमनीयस्य तत्काले-तरक्षणे, कन्दलिता-मुनिवचनश्रवणोन्मीलिता, या अपूर्वशोभा, तया कमनीयस्य-स्पृहणीयस्य, मुखचन्द्रस्य, चारुतां सुन्दरताम् , रत्नकुट्टिमावलम्विना रत्नबद्धभूमिसंक्रामिणा, प्रतिबिम्बेन, पिशुनयन्ती सूचयन्तीम्, तां मदिरावतीम् , पुनःपुनः असकृत् , अवलोक्य, कृतस्मितः कृतमन्दहासः, नरपतिः मेघवाहनः, मुनिम् , आवभाषे वक्ष्यमाणक्रमेण वक्तुमारेभे । भगवन् ! आध्यात्मिकशक्तिशालिन् !, इति अनया रीत्या, वारं वारम् अनेकवारम् , एनां मदिरावतीम् , किं किमर्थम् , नियमयसि प्रतिज्ञापयसि, ननु निश्चये, एकवचसैव भगवतः सकृदुक्त्यैव, सर्वम् , अब. धारितं निश्चितम् , श्रुतात्मकसम्यग्ज्ञानगोचरीकृतमिति यावत्, च पुनः, मनसा मननात्मकव्यापारवताऽन्तःकरणेन, प्रतिपनं मननात्मकज्ञानगोचरीकृतम् , खीकृतमित्यर्थः,च पुनः, अद्य प्रभृति अद्यारभ्य, भगवदादिष्टं भगवदाज्ञप्तम्, सर्व करिष्यति अनुष्ठास्यति, हि यतः, अतिदक्षिणा अतिशयेन गुरुजनादेशानुवर्तननिपुणा, असौ मदिरावती, प्रायेण

Loading...

Page Navigation
1 ... 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196