Book Title: Tilakamanjiri Part 1
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text ________________
टिप्पनक-परागविवृतिसंवलिता श्रवणार्हमस्ति ? एष विज्ञपयामि-असावस्य सकलस्यापि भारतवर्षस्य चूडालङ्कारभूता गोत्रराजधानी रघुदिलीपदशरथप्रभृतीनां नराधिपानामयोध्याभिधाना पुरी प्रधानभूता सर्वनगरीणाम् , अहमपीक्ष्वाकुकुलसम्भवो भोक्ताऽस्य कियतोऽपि भारतक्षेत्रस्य वर्तमानक्षोणीपालापेक्षया भूयसा विभवेन भूयसा प्रभावेन भूयसा सेनापरिच्छदेन भूयस्या प्रभुशक्त्या भूयस्या च भूमण्डलावाप्त्या समेतो मेदिनीपतिर्मेघवाहनाख्यः, इयमप्युपजातजन्मा महति मूर्धाभिषिक्तक्षत्रियाम्नाये माननीया समग्रस्यापि मत्परिग्रहस्य सर्वान्तःपुरप्रधानभूता मदिरावती नाम प्रेमपात्रं मे कलत्रम् ; अनयास्माकमविकला त्रिवर्गसम्पत्तिः, अनुद्वेजको राज्यचिन्ताभारः, आकीर्णा महीस्पृहणीया भोगाः, सफलं यौवनम्, अजनितव्रीडः क्रीडारसः, अभिलषणीया विलासाः, प्रीतिदायिनो महोत्सवाः, रमणीयो जीवलोकः, माननीया मन्मथाज्ञा, पालनीया गृहस्थाश्रमस्थितिः; अस्वस्थताकारणं चावयोर्गुरुजनदेवताभक्त्यनुभावादनुदिनोपत्रीयमानसकलसंकल्पितार्थयोर्धनविसरकृतार्थीकृतेन ज्ञातिसार्थेन सकलकालमविरहितपार्श्वयोः प्रायेण नाल्पमप्यपरमस्ति मुक्त्वैकमनपत्यतादुःखम् , तत् तु दैवादतिशयेना
अश्रवणाहं श्रवणायोग्यम् , अस्ति ? नास्तीत्यर्थः, एष भवदभिमुखक्ती, अहमिति शेषः, विज्ञापयामि भवज्जिशासितं सर्व बोधयामि । तथाहि-सकलस्यापि समग्रस्यापि, अस्य प्रत्यक्षभूतस्य, भारतवर्षस्य भरतक्षेत्रस्य, चूडालङ्कारभूता मस्तकालङ्कारभूता, रघु-दिलीप-दशरथप्रभृतीनाम् , नराधिपानां प्राचीनानां राज्ञाम् , गोत्रराजधानी कुलपरम्परागतराजधानी, सर्वनगरीणाम् , प्रधानभूता श्रेष्ठा, अयोध्याभिधाना अयोध्यानान्नी, असौ पुरी । इक्ष्वाकुकुलसम्भवः इक्ष्वाकुवंशोत्पनः, अहमपि, कियतोऽपि कतिपयभागावच्छिन्नस्य, भारतवर्षस्य, भोक्ता अधिकर्ता । वर्तमानक्षोणीपालापेक्षया वर्तमानाः-साम्प्रतिका ये, क्षोणीपाला:-पृथ्वीपालाः, तदपेक्षया, भूयसा बहुतरेण, विभवेन धनेन, भूयसा प्रभावेण कोशदण्डतेजसा, भूयसा सेनापरिच्छदेन सेनायाः परिच्छदः-हस्त्यश्वरथादिपकरणम् , तेन, भूयस्या प्रचुर. तरया, प्रभुशच्या मन्त्रोत्साहशक्त्या, भूयस्या च महत्या च, भूपमण्डलावास्या खवशवर्तिराजसमूहप्राप्या, भूमण्डलेति पाठे भूमण्डलस्य, आवाया-प्राप्त्या, खामितयेत्यर्थः, समेतः, मेघवाहनाख्यः मेघवाहननामा, मेदिनीपतिः भूपतिः, अस्मीति शेषः । इयमपि मत्पार्श्ववर्तिनी स्त्री, महति प्रशस्ते, मूर्धाभिषिक्तक्षत्रियान्नाये मूर्धाभिषिक्तानां-मूर्धनि मस्तकेऽभिषिक्तानां कृताभिषेकाणाम् , अत्याहतानामित्यर्थः, क्षत्रियाणाम , आम्नाये-वंशे, उपजातजन्मा जातोत्पत्तिका, उच्चकुलप्रसूतेत्यर्थः । समग्रस्यापि समस्तस्यापि, मत्परिग्रहस्य मत्परिवारस्य, माननीया आदरणी
पुरप्रधाना सर्वस्मिन्-समप्रे, अन्तःपुरे-राजस्त्रीमण्डले, प्रधानभूता-श्रेष्ठा, मदिरावती, नामेति प्रसिद्धौ, प्रेमपात्रं मेहास्पदम् , मे मम, कलत्रं भार्या, अस्तीति शेषः । अनया मदिरावल्या, अस्माकम् , त्रिवर्गसम्पत्तिः त्रयाणां-धर्मार्थकामानाम् , वर्गःसमूहः, त्रिवर्गः, तद्रूपा सम्पत्तिः, अविकला परिपूर्णा । अनयेत्यस्य प्रतिवाक्यं सम्बन्धाद् अनया राज्यचिन्ताभारः, अनुद्वेजका उद्वेगाजनकः, महीस्पृहणीयाः मयां-पृथिव्याम् , स्पृहणीयाः-अभिलषणीयाः, भोगाः, अनया आकीर्णाः पुञ्जिताः, यद्वा आकीर्णा मही स्पृहणीयाश्च भोगा इति । यौवनं मत्तारुण्यम् , अनया, सफलं फलसहितम् । अजनितवीडः अजनिता-अनुत्पादिता, ब्रीडा-लजा येन तादृशः, अनया, क्रीडारसः खेलनानन्दः, भवति । अनया विलासा: “गतिस्थानासनादीनां मुखनेत्रादिकर्मणाम् । विशेषस्तु विलासः स्यादिष्टसंदर्शनादिना" । इति परिभाषितचेष्टाविशेषाः, अभिलषणीयाः स्पृहणीयाः । अनया महोत्सवा नृत्यादिरूपाः, प्रीतिदायिनः प्रीतिजनकाः । अनया जीवलोकः मत्येलोकः, रमणीयः मनोहरः, अस्तीति शेषः । अनया मन्मथाना कामदेवाज्ञा, माननीया आदरणीया, भवतीति शेषः । अनया गृहस्थाश्रमस्थितिः गृहस्थाश्रममर्यादा, पालनीया रक्षणीया. भवतीति शेषः । आवयोः दम्पत्योः. अ अस्वस्थताहेतुस्तु, एकम् , अनपत्यतादुःखं सन्तानशून्यतादुःखम् , मुक्त्वा त्यक्त्वा, प्रायेण अल्पमपि किश्चिदपि, अपरम् अन्यद् , दुःखमिति शेषः, नास्ति । कीदृशयोरावयोः ? गुरुजनदेवताभत्त्यनुभावात् गुरुजने देवतायां च या, भक्तिःप्रीतिः, तदनुभावात्-तत्प्रभावात् , अनुदिनोपचीयमानसकलसंकल्पितार्थयोः अनुदिन-प्रतिदिनम् ; उपचीयमानाःवर्धमानाः, सकलाः-समग्राः, संकल्पितार्थाः-अभिलषितार्था ययोस्तादृशयोः । पुनः धनविसरकृतार्थीकृतेन धनविसरेणधनसमूहेन, कृतार्थीकृतेन-सन्तोषितेन, झातिसार्थेन आत्मीयजनतया, सर्वकालम् , अविरहितपार्श्वयोः अत्यतपार्श्वयोः ।
Loading... Page Navigation 1 ... 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196