Book Title: Tilakamanjiri Part 1
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text ________________
टिप्पनक-परागविवृतिसंवलिता तपनीयपिङ्गलेन समन्ततः प्रसर्पता देहप्रभाप्रवाहेण सन्तर्पयन्तमिव बालातपं दिवसम्, अजातशत्रुणा सत्यव्रताधिष्ठितेन कृष्णद्वैपायनमिव युधिष्ठिरेण तपोजन्मना जनितबहुमानं जगति महत्त्वेन [६], त्रयीमिव महामुनिसहस्रोपासितचरणां विन्ध्यगिरिमेखलामिवाक्षमालोपशोभितां त्रिभुवनसृष्टिमिव प्रकटोपलक्ष्यमाणब्रह्मसूत्रां सत्तर्कविद्यामिव विधिनिरूपितानवद्यप्रमाणां सुकविवाचमिव मार्गानुसारिप्रसन्नदृष्टिपातामसितपक्षचतुर्दशीमिव
टिप्पनकम्-कृष्णद्वैपायन मिव व्यासमिव, युधिष्ठिरेण, महत्वेन माहात्म्येन, जनितबहुमानम् , विशेषणानि समानि [ई] चरणाः-अध्ययनविशेषाः पादाश्च । अक्षमाला-बिभीतकराजिः, अक्षसूत्रं च । ब्रह्मसूत्रं-प्रजापतिसूत्रणं यज्ञोपवीतं च । विधिः-विधाता यथावच, अनवद्यप्रमाणां-प्रशस्यमानां प्रशस्यप्रत्यक्षादिप्रमाणाम् । दृष्टि:-दर्शन चक्षुश्च । भूताः-प्रेताः सत्त्वाश्च । अलक्ष्मी शरीरशोभा द्वादशाङ्गानि उ11
कुतूहलात् वैश्रवणस्य-विश्रवसोऽपत्यस्य कुबेरस्य, यो रत्नकोशः-रत्ननिधिः, तद्दर्शनकुतूहलात्-तद्दर्शनाभिलाषात् , अलकापरीम अलकानाम्नी कुबेरपुरीम, उचलितं प्रचलितम, अन्तरात्मानमिव अन्तःकरणावच्छिन्नमात्मानमिवेत्यप्रेक्षा। पुनः तप्ततपनीयपिङ्गलेन तप्तं वाहिनोद्दीपितम् , यत्तपनीयं-सुवर्णम् , तद्वत् पिङ्गलेन-पीतवर्णेन, समन्ततः सर्वतः, प्रसपंता प्रसरता, देहप्रभाप्रवाहेण स्वशरीरथुतिधारया, क्षीणातपं क्षीण:- मान्द्यमापन्नः, आतपः प्रकाशो यस्मिंस्तादृशम् , दिवसं दिनम् , सन्तपर्यन्तमिव खप्रकाशेन प्रसादयन्तमिवेत्युत्प्रेक्षा । “बालातपम्” इतिपाठे बालः मन्दः, शेषं प्राग्वत् । पुनः अजातशत्रुणा अजातः-अनुत्पन्नः, शत्रुर्विद्वेषी यस्य तादृशेन, सर्वस्यैव युधिष्ठिरहितैषित्वात् कौरवाणामपि भीमादीन्
, पुनः सत्यव्रताधिष्ठितेन सत्यमेव यद् व्रतं-नियतकृत्यम् , तदधिष्ठितेन-तदन्वितेन, युधिष्ठिरेण कृष्णद्वैपायनमिव द्वीपः-यमुनाकच्छः, अयनं-स्थानं यस्य स द्वीपायनः, द्वीपायन एव द्वैपायनः, खार्थिकाणप्रत्ययेन तभिपत्तेः, तदुक्तम् - "द्वीपे न्यस्तस्तया बालस्तस्माद् द्वैपायनोऽभवत्" इति, धीवरात्मजया सत्यवत्या प्रसूय यमुनाकच्छे स निक्षिप्तः पराशरेणाऽऽसादित आसीदिति पौराणिकवृत्तम्, कृष्णः-विष्णुः, तद्रूपो यो द्वैपायन:-व्यासः, अथवा कृष्ण:-कृष्णवों यो द्वैपायनो व्यासः, तमिव, स यथा तेन जनित बहुमानः कृतपरमादर आसीत् तथैव अजातशत्रुणा अनुत्पन्नकामादिप्रतिपक्षकेण, सत्यव्रताधिष्ठितेन सत्याख्ययमनिबन्धनेन, तपोजन्मना तपस्याजनितेन, महत्त्वेन गौरवेण, जनितबहुमानं समुपचितनिरतिशयादरम् [ई ] । पुनः अचिरपरिणताम् अभिनवमुपचिताम् , अङ्गलक्ष्मी शरीरावयव. शोभाम् , यद्वा अङ्गानि आचाराङ्गादीनि द्वादश, तेषां शोभाम् , दधानं धारयन्तम् , कीदृशीम् ? यीमिव वेदत्रयमिव, महामुनिसहनोपासितचरणां महामुनीनां-मुनिप्रवराणाम् , सहनेण उपासितो-सेवितो, चरणौ-पादौ यस्या यया वा, पक्षे चरणाः-शाखा अध्ययनविशेषा यस्यास्तादृशीम् , पुनः विन्ध्यगिरेः विन्ध्याचलस्य, मेखलामिव नितम्बप्रदेशमिव, अक्षमालोपशोभिताम् अक्षमालया-जपमालया, पक्षे विमीतकवृक्षपङ्गया, उपशोभितां जनितशोभा, त्रिभवनसष्टिमिव त्रिभुवनरचनामिव, प्रकटोपलक्ष्यमाणब्रह्मसूत्रां प्रकट-विस्पष्टं यथा स्यात्तथा, उपलक्ष्यमाणं-वक्षसि प्रतीयमानम्, ब्रह्मसूत्र-यज्ञोपवीतं यस्याम् ; पक्षे उपलक्ष्यमाणानि इदानीं श्यमानानि, यानि ब्रह्मसूत्राणि-यज्ञोपवीतानि, तानि प्रकटानि-ब्रह्मणः सकाशादाविर्भूतानि यस्यां तादृशीम् , यद्वा प्रकटं यथा स्यात् तथा उपलक्ष्यमाणं ब्रह्मणः विधातुः, सूत्र-व्यवस्था यस्यां तादृशीम्, "सूत्रं तु सूचनाकारिग्रन्थे तन्तुव्यवस्थयोः" इत्यनेकार्थसंग्रहः, पुनः तर्कविद्यामिव न्यायविद्यामिव, विधिनिरूपितान घद्यप्रमाणां विधिना-विधात्रा, निरूपितं-सर्जनेन दर्शितम्, अनवद्यप्रमाणं--प्रशस्यदेहमानं यस्यास्तादृशीम् , यद्वा विधिनाब्रह्मणा, निरूपितः-निर्णीतः, अनवद्यः-श्लाघनीयः, प्रमाण:-प्रकृष्टः, मानः सम्मानो यस्याः, पक्षे विधिना यथावद् युक्त्या निरूपितम् , अनवयम्-अनिन्द्यम् , आवश्यकमिति यावत् , प्रमाण-प्रत्यक्षानुमानादिकं यया तादृशीम् ; पुनः सुकविवाच.
नां सत्कवीनाम् , पाठान्तरे शसयोरेक्ये वा शुकवीनां-शुकपक्षिणाम् , वाचमिच-वाणीमिच, मार्गानुसारिप्रसन्नधिपातां मार्गानुसारी-जन्तुरक्षणाय गन्तव्यमार्गानुसरणशीलः, प्रसन्नः-करुणापूर्णत्वात् प्रसादान्वितः, दृष्टयोः-चक्षुषोः, . पातः-विक्षेपो यस्याम् , पक्षे मार्गानुसारिषु-रीतियुक्तेषु, प्रसन्नेषु-प्रसादगुणयुक्तेषु पदेषु, दृष्टिपातः-अन्तश्चक्षुःप्रसारो यस्यां ताहशीम. उक्तपाठान्तरपक्षे तु मार्गानुसारिणां-शुकाधिष्ठितपादपनिकटमार्गगामिनाम्, प्रसन्नयो:-तदीयशब्दश्रवणोरफुल्लयोः. दृष्टयोः पातः-शुकोपरि विक्षेपो यया तादृशीम् ; पुनः असितपक्षचतुर्दशीमिव असित्तपक्षस्य-कृष्णपक्षस्य, चतुर्दशी
Loading... Page Navigation 1 ... 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196