Book Title: Tilakamanjiri Part 1
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 123
________________ . तिलकमञ्जरी। सर्वभूतानन्दकारिणीमचिरपरिणतामङ्गलक्ष्मी दधानम् [उ], अस्थूलमुक्ताफलश्रियः श्रमस्वेदकणिका गगनगङ्गाजलविमुष इब जवादनिलानीता विशालोन्नतललाटदेशसङ्गिनीरुद्वहन्तम् [3], अञ्जनत्विषा निजशरीरच्छायापुरुषेण दक्षिणाशागमनपरिचयप्रतिबुद्धेन धर्मराजेनेव सद्योगृहीतदीक्षेण दक्षिणेतरभागवर्तिना सदृशवेषाकारधारिणा सततमनुगम्यमानम् [ऋ], अभिनवतमालखण्डहरितान्यप्सरोभिरिव सविभ्रमोन्मेषाभिरित स्ततो विलसन्तीभिस्तडिद्भिरध्यासितानि तपोभीतशतमखप्रदर्शितानि मायावनानीव सजलमेघमण्डलानि प्रतिमार्गमवलोकयन्तम् [ऋ], अर्धपथदृष्टसिद्धसादरोत्सृष्टाभिरायामिनीभिरर्धकुसुमस्रग्भिः समन्ततो जटिलीकृतेन दुरुत्तरभवकूपनिपतितप्राणिसार्थोद्धरणार्थमधःप्रवर्तितपुण्यरज्जुनैव स्वभावमृदुना चरणद्वयेन द्योतमाने धर्मराजेन यमेन [ ] AAAMw तिथिमिव, सर्वभूतानन्दकारिणी सर्वेषां भूतानां प्राणिनाम् , आनन्दः-दर्शनसुखम् , तत्कारिणीम् , पक्षे सर्वेषां भूतानां पिशाचादीनाम् , महोत्सवकारिणीम् , चतुर्दश्यां निशि तेषां खेच्छया विहारोत्सवश्रवणात् , “भूतं क्ष्मादौ पिशाचादौ” इति मेदिनी [उ] | पुनः कीदृशममुं मुनिम् ? श्रमस्वेदकणिका उद्वहन्तं श्रमेण-निरालम्बगगनमार्गातिक्रमणक्लेशेन हेतुना याः खेदकणिकाः - घोंदबिन्दवः, ता उद्-ऊर्ध्वदेशावच्छेदेन, वहन्तं-धारयन्तम् , तमूर्ध्वदेशं कणिकाविशेषण घटकतयाहविशालोनतललाटदेशसङ्गिनीः विशाल:-बृहत् , उन्नतः-उच्चश्व, यो ललाटदेशः, तत्सङ्गिनी:-तत्सङ्गताः, कीदृशीस्ताः कणिकाः ? अस्थूलमुक्ताफलश्रियः अस्थूलानि-लघूनि, यानि मुक्ताफलानि-मौक्तिकरनानि, तेषां श्रिय इव श्रियो यासां तादृशीः, पुनः कीदृशीः ? जवादनिलानीता गगनगङ्गाजलविघुष इव जवाद्-वेगतः अनिलेन-वायुना, आनीताःप्रापिताः, गगनगङ्गायाः-आकाशगङ्गायाः, विग्रुषः- बिन्दूनिवेत्युत्प्रेक्षा, "पृषन्ति बिन्दुपृषताः पुमांसो विषुषः स्त्रियाम्" इत्यमरः [ऊ] । पुनः कीदृशम् ? निजशरीरच्छायापुरुषेण स्वशरीरसम्बन्धिच्छायात्मकेन पुरुषेण, सततं निरन्तरम् , अनुगम्यमानम् आश्रीयमाणम् , कीदृशेन तेन ? अञ्जनत्विषा अञ्जनस्येव विद-कान्तिः कृष्णोज्वलकान्तिर्यस्य तादृशेन, पुनः कीदृशेन तेन ? दक्षिणेतरभागवर्तिना वामभागवर्तिना, पुनः कीदृशेन ? सदृशवेषाकारधारिणा मुनितुल्यवनादिवेष्टिताकारधारिणा, पुनः कीदृशेन? धर्मराजेनेव यमराजखरूपेणेवेत्युत्प्रेक्षा, कीदृशेन धर्मराजेन? दक्षिणाशागमनपरिचयप्रबुद्धेन दक्षिणस्याम् , आशायां-दिशि, यद् गमनं-विद्याधरमुनेः प्रस्थानम् , तेन हेतुना यः परिचयः-तदीयाध्यात्मिकशक्तिप्रतीतिः, तेन प्रतिबुद्धेन-उन्मीलितश्रद्धेन, अत एव सद्यः-तरक्षण एव, गृहीतदीक्षेण गृहीता-तन्मुनेः सकाशादवाप्ता, दीक्षा-प्रवज्या येन तादृशेन, तदीयशिष्यतां गतेनेत्यर्थः [ऋ] । पुनः कीदृशं मुनिम् ? प्रतिमार्ग मार्गे मार्गे, सजलमेघमण्डलानि सजलानि-जलपूर्णानि, मेघमण्डलानि-गगनलम्बमानातिनिकटजलदपटलानि, पश्यन्तं तदीयशोभामनुभवन्तमित्यर्थः, तानि कीदृशानि? अभिनवतमालखण्डहरितानि अभिनवानां नूतनानाम् , तमालाना-तज्जातीयवृक्षविशेषागाम , ये खण्डाः-अवान्तरविभागाः, तद्वत् हरितानि हरितवर्णानि, पुनः कीदृशानि ? तडिद्भिः विद्युल्लताभिः, अध्यासितानिअधिष्ठितानि, काभिरिव ताभिः? अप्सरोभिरिव खर्वेश्याभिरिव, कीदृशीभिरप्सरोभिः? सविभ्रमोन्मेषाभिः सविनमा:विभ्रमेण शृङ्गारचेष्टया सहिताः, पक्षे शृङ्गारचेष्टोद्भावकाः, उन्मेषाः-चक्षुरुन्मीलनानि, पक्षे आविर्भावा यासा तादृशीभिः, पुनः कीदृशीभिः ? इतस्ततः अनवस्थया, विलसन्तीभिः क्रीडन्तीभिः, पुनः कीदृशानि मेघमण्डलानि ? तपोभीतशतमखप्रदर्शितानि तपोभीतेन-तपसा-तन्मुनेस्तपस्यया, भीतेन-खपदाक्रमणत्रस्तेन, शतमखेन-इन्द्रेण, प्रदर्शितानि-तपोविच्छेदार्थमुद्भावितानि, मायावनानीव ऐन्द्रजालिकवनानीवेत्युत्प्रेक्षा [ऋ] | पुनः कीदृशममुं मुनिम् १ चरणद्वयेन खपादयुगलेन, द्योतमानम् उद्भासमानम् , कीडशेन तेन ? अर्घकुसुमनम्भिः अर्घस्य-पूजायाः, यानि कुसुमानि, पूजोपकरणभूतानीत्यर्थः, "मूल्ये पूजाविधावर्घः" इत्यमरः, तेषां-तन्मयीभिरित्यर्थः, स्वग्भिः-मालाभिः, जटिलीकृतेन गुरुतामापादितेन, कीदृशीभिस्वाभिः? अर्धपथदृष्टसिद्धसादरोत्सृष्टाभिः अर्धपथे-अर्धमार्गे, दृष्टाः-दृष्टिपथं गताः, ये सिद्धाः विद्यासिद्धादिपुरुषाः, तैः सादरम्-आदरसहितम् , उत्सृष्टाभिः-समर्पिताभिः, पुनः आयामिनीभिः दीर्घाभिः । काभिरिव ताभिः ? दुरुत्तरभवकूप

Loading...

Page Navigation
1 ... 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196