________________
तिलकमञ्जरी।
प्रासादललेषु प्रेमपरवशः प्रणयकुपिताः प्रेयसीः सानुनयमपाययत् [छ । कदाचिद् वदनमण्डनादिभिबिडम्बनाप्रकारैरुपहसन् विदूषकानन्तःपुरिकाजनमहासयत् ज]। कदाचिदङ्गनालोल इति मत्वा निपुणचित्रकारैश्चित्रपटेष्वारोप्य सादरमुपायनीकृतानि रूपातिशयशालिनीनामवनिपालकन्यकानां प्रतिबिम्बानि परित्यक्तान्यकर्मा दियसमालोकयत् [झ] । कदाचित् स्वयमेव रागविशेषेषु संस्थान्य समर्थितानि शृङ्गारप्रायरसानि स्वरचितसुभाषितानि स्वभावरक्तकण्ठ्या गाथकगोष्टया पुनरुक्तमुपगीयमानान्यनुरागभावितमनाः शुश्राव [अ] कदाचिदावेदितनिखिलनाट्यवेदोपनिषद्भिर्नर्तकोपाध्यायैरुपदर्शितानां नर्तकीनामक्षुण्णेन शास्त्रवर्त्मना कृतसूक्ष्मगुणदोषोपन्यासः पश्यलास्यविधिमासन्नवर्तिनो विदग्धराजलोकस्य मनांसि जहार [2]। कदाचिद् भवनदीर्घिकाम्भसि प्रवृत्तनिर्भरक्रीडारसानामन्तःपुरविलासिनीनां निपतिताङ्गुलीयकमुद्रा
अपाययत् पायितवान् , कीदृशम् ? ईर्ष्यारुणप्रतिप्रमदाकटाक्षकव॒रम् ईयया-सपत्नीशुभासहिष्णुतया, अरुणः-रक्को यः, प्रतिप्रमदायाः-अन्यकामिन्याः, सपढ्या इत्यर्थः, कटाक्षः-अपाङ्गदृष्टिः, तेन कर्बुरम्-चित्रम् , अत एव उपरिक्षिप्त रक्तोत्पलपलाशमिव उपरिक्षिप्तम्-उपरि स्थापितम् , रत्तोत्पलस्य-रक्तकमलस्य, पलाश-पत्रं यस्मिस्तादशमिवेत्युत्प्रेक्षा, स राजा कीदृशः प्रेमपरवशः कामिनीप्रीतिपराधीनः, अत एव स्वयमुत्क्षिप्तमाणिक्यचषकः खयम् , उत्क्षिप्तः-उत्थापितः, माणिक्यचषकः-मणिमयपानपात्रं येन तादृशः [छ । पुनः स राजा कदाचित् कस्मिंश्चिदवसरे, वदनमण्डना. दिभिः मुखरअनादिरूपैः, विडम्बनाप्रकारैः तिरस्कारप्रकारैः, विदूषकान् हासजनकतया नर्मसचिवान् , उपहसन् परिहसन् , अन्तःपुरिकाजनम् अन्तःपुरमस्ति यस्याः सा अन्तःपुरिका, तादृशजनम् , अन्तःपुरनारीजनमित्यर्थः, अहासयत् हासयति स्म [ज] । कदाचित् कस्मिंश्चित् समये, स राजा अङ्गनालोलः अङ्गनासु-कामिनीघु, लोलः-चञ्चलः, लम्पट इत्यर्थः, इति मत्वा अवधार्य, निपुणचित्रकारैः, चित्रपटेषु चित्रलेखनाधारवस्त्रेषु, आरोग्य आलेख्य, सादरम्
दरसहितं यथा स्यात्तथा, उपायनीकृतानि उपहाररूपेण दत्तानि, रूपातिशयशालिनीनां रूपोत्कर्षशोभिनीनाम्, अवनिपालकन्यकानां राजकन्यकानाम्, प्रतिबिम्बानि प्रतिकृतीः, परित्यक्तान्यकर्मी परित्यक्तं-परिवर्जितम्., अन्यत्-इतरत् , कर्म-कार्य येन तादृशः सन् , दिवसम् सम्पूर्णदिनम् , न तु कियत्क्षणम् , अलोकयत् अपश्यत् [झ]। स राजा कदाचित् कस्मिंश्चिदवसरे, रागविशेषेषु वसन्तादिसंज्ञकस्वरविशेषेषु, संस्थाप्य सम्यम् योजयित्वा, स्वयमेव खेनैव, समर्थितानि साधुतया स्वीकृतानि, समर्पितानीति पाठे गायकेभ्यो दत्तानि, शुङ्गारप्रायरसानि शृङ्गारप्रायाःशृङ्गाररसप्रचुराः, रसा येषु तादृशानि, स्वरचितसुभाषितानि स्वनिर्मितसुललितगाथाः स्वभावरक्तकण्ठ्या सभाबेन, रक्तः-प्रियः, कण्ठः-तत्कृतवनिर्यस्यास्तादृश्या, गायकगोट्या, पुनरुक्तं पुनीत यथा स्यात्तथा, उपगीयमानानि गानकर्माक्रियमाणानि, अनुरागभावितमनाः प्रीतिपूर्णहृदयः, शुश्राव शृणोति स्म []। स राजा कदाचित् क्वचित् काले तु, आवेदितनिखिलनाट्यवेदोपनिषद्भिः आवेदिता-समन्ताद् बोधिता, निखिला-समया, नाट्यवेदस्य-नाट्यशास्त्रस्य, उपनिषत्-रहस्यभावो यैस्तादृशैः, नर्तकोपाध्यायः नर्तकाचार्यैः, उपदर्शितानां शिक्षितानाम् , नर्तकीनां तृत्सनिपुणनारीणाम् , अक्षुण्णेन निदोषेण, शास्त्रवर्मना नाट्यशास्त्रानुशीलितमार्गेण, कृतसूक्ष्मगुणदोषोपन्यासः कृतः, सूक्ष्मयोः- जनसामान्यदुर्लक्षयोः, गुण-दोषयोः, उपन्यासः-उद्भावनं येन तादृशः सन् , लास्यविधि नाट्यक्रियाम् , पश्यन् , आसन्नवर्तिनः खपार्श्ववर्तिनः, विदग्धराजलोकस्य नाव्यनिपुणनृपतिजनस्य, मनांसि हृदयानि, जहार खवैदग्ध्यातिशयेन हरति स्म [2] 1 स राजा कदाचित् कस्मिंश्चित् समये च, भवनदीर्घिकाम्भसि भवनस्य-गृहस्य, गृहपार्श्ववर्तिन्या इत्यर्थः, दीर्घिकायाः-"शतेन धनुर्भिः पुष्करिणी, त्रिभिदीर्घिका, चतुभिद्रोणः, पञ्चमिस्तडागः” इत्युक्तपूर्वपरिमाणकजलाशयस्य, अम्भसि-जले, प्रवृत्तनिर्भरक्रीडारसानां प्रवृत्तः, निर्भरः-अत्यन्तः, क्रीडारस:-क्रीडाकौतुकं यास ताहशीनाम् , अन्तःपुरविलासिनीनाम् अन्तःपुरनारीणाम् , गृहीतजयनांशुकः गृहीतः-आकृष्टः, जघनस्य-कटिपुरोभागस्य, अंशुकः-वस्त्रं येन तादृशः, किं कृत्वा ? पतिताङ्गुलीयकमुद्रान्वेषणादिना पतितानां-जले स्खलितानाम् , णामअडलीयकमुद्रा अङ्गुलिभूषणरूपरत्नप्रतिमानाम् , अन्वेषणादिरूपेण तेन तेन अनेकप्रकारकेण, व्याजेन छद्मना,