________________
टिप्पनक-परागविवृतिसंपलिता त्याशः प्रान्तनिपतदम्बुधारान्धकारितोदरकुहरेषु धारागृहेषु विसिनीपलाशस्रस्तरशायी मनसिशयसंतापमत्यवा
ह्यत् [ग] । कदाचिद् देव्या सार्धमारब्धस्पर्धः स्वपरिगृहीतानां गृहोद्यानवीरुधामकालकुसुमोद्गतिकारिणस्तांस्तान दोड्दयोगानदात् [घ] । कदाचिद् धौतमृगमदाङ्गरागमनुरागज खेदजलमजस्रमुजिहानं बहु मन्यमानः प्रतिकर्मासमाप्तिकाम्यया कामिनीकुचकुम्भभित्तिष्वनेकभङ्गकुटिलाः पत्राङ्गुलीरकल्पयत् [3] । कदाचित् क्रीडास्तपराजितः पणितमप्रयच्छन् 'क गच्छसि ?' इति बद्धालीकभ्रुकुटिभिर्विदग्धवनिताभिराकृष्य कृतविषमपादपातो बलादिव दत्तकपाटसंपुटेषु घासवेश्मसु सपत्नीसमक्षमेवाक्षिप्यत [च] कदाचिदीर्ध्यारुणप्रतिप्रमदाकटाक्षकर्बुरमुपरिभितरक्तोत्पलपलाशमिव कापिशायनं स्वयमुत्क्षिप्तमाणिक्यचषकश्चन्द्रिकाप्रहासिधु
टिप्पनकम्म
न्युः-कोपः [ग] । कापिशायनं मयम् [ छ ।
उपशमितवान् , कुत्र? प्रान्तनिपतदम्बुधारान्धकारितोदरकुहरेषु प्रान्ते-समीपे, निपतन्तीभिः-नितरां सवन्तीभिः, अम्बुधाराभिः, अन्धकारितम्-अन्धीकृतम्, उदरकुहरं-मध्यवर्ल्सवकाशो येषु तादृशेषु, धारागृहेषु जलधारास्यन्दनयन्त्रान्वितगृहेषु, कुतस्तथाऽकरोत् ? यतः मन्युगौरवात् क्रोधाधिक्यात् , अतिलचितपादपतनविभ्रमाणाम् अतिलचितःअवहेलितः उपेक्षित इत्यर्थः, पादपतनविभ्रमः-तत्कर्तृकचरणोपरिपतनरूपा शृङ्गारचेष्टा याभिस्तादृशीनाम् , प्रेयसीनां प्रियतमानाम् , प्रसाद प्रति प्रसन्नताविषये, निष्प्रत्याशः आशारहितः [ग] । स राजा कदाचित् कस्मिंश्चित् समये च, देव्या राश्या, सार्ध सह, आरब्धस्पर्धः आरब्धा-प्रारब्धा, स्पर्धा-अनुपदवक्ष्यमाणकर्मणि संघर्षों येन तादृशः सन् , तांस्तान अनेकप्रकारान् , दोहदयोगान युज्यते यैस्ते योगाः, दोहदस्य-गभेस्य, असमयेऽपि पुष्पफलप्रसवस्येत्यर्थः, योगाःधूपादयस्तान् , अदात् प्रयुक्तवान् , तान् कीदृशान् ? स्वपरिगृहीतानां खेन, परिगृहीतानाम्-कुसुमाशयोद्यानेषु स्थापितानाम् , गृहोद्यानवीरुधां गृहस्य--गृहपार्श्ववर्ति, यद् उद्यानं-केलिकाननम् , आराम इत्यर्थः, तस्य वीरुधा-लतानां गुम्मानां च, अकालकुसुमोद्गतिकारिण: अकाले-अनवसरे, कुसुमोद्गतिकारिणः-पुष्पोद्गमप्रयोजकान् , तदुक्तम्-"ओषध्यः फलपाकान्ता लता गुल्माश्च वीरुधः । फली वनस्पतिशयो वृक्षाः पुष्पफलोद्गमाः" ॥ इति [घ]। स राजा कदाचित् , कस्मिंश्चिदवसरे, धौतमगमदारागं धौत:-क्षालितः मृगमदस्य-कस्तूरिकायाः, अङ्गरागः-शरीरविलेपनं येन तादृशम् अनरागजं स्नेह जम् , अजस्रं सन्ततम् , उजिहानम्-उद्गच्छत् , स्यन्दमानमित्यर्थः, स्वेदजलं घर्मोदकम् , प्रतिकर्मासमाप्तिकाम्यया प्रतिकर्मणः-शरीरप्रसाधनरूपकार्यस्य, असमाप्तिकाम्यया-अविधामकामनया, बहु इष्टसाधकतया साधु, मन्यमानः, कामिनीकुचकुम्भभित्तिषु कामिन्याः कुचौ कुम्भाविव तदाकारकत्वादिति कामिनीकुचकुम्भौ, तयोभित्तिषु ऊर्श्वभागेषु, अनेकभङ्गकुटिलाः अनेकैः, भङ्गैः-प्रकारविशेषः, कुटिलाः-अनृज्वीः, पत्राङ्गुली पत्रसहिताडुल्याकारान्, अकल्पयत् चन्दनद्रवेण चित्रयाञ्चकार, “भनस्तरले भेदे च रुग्विशेषे पराजये । कौटिल्ये भय-विच्छित्त्योः” इति हैमः [3] | स राजा कदाचित् कस्मिंश्चित् समये, क्रीडाद्यूतपराजितः क्रीडायां छूतेन प्रतिकूलपतितेन पराजितोऽपि, पणितं सति पराजये देयत्वेन प्रतिज्ञातम् , अप्रयच्छन् अप्रददत् , अप्रदाय क्वचित् प्रस्थातुमुद्यतः सन्नित्यर्थः, क कुत्र स्थले, गच्छसि पलायसे, इति कथयन्तीभिः, बद्धालीकभृकुटिभिः बद्धा-विरचिता, अलीका-प्रणयकोपेन मिथ्यारूपा, न तु वास्तविककोपप्रयुक्ता, भ्रकुटि:-भ्रवोः कौटिल्यं याभिस्ताभिः, विदग्धवनिताभिः नर्मनिपुणनारीभिः, आकृष्य स्थानान्तरगमनानिरुथ्य, कृतविषमपादपातः कृतः, विषमः-कठिनः, चिरपर्यन्त इत्यर्थः, पादपातः-तादृशवनितया चरणाघातो यस्य, यद्वा तादृश. वनिताचरणोपरिपातो येन तादृशोऽपि, स राजा दत्तकपाटसम्पुटेषु दत्तः-कृतः, कपाटयोः-द्वारपिधानफलकयोः, सम्पुटःसंयोजनं येषु तादृशेषु, वासवेश्मसु निजनिवासगृहेषु, बलादिव बलात्कारेणेव, सपत्नीसमक्षमेव सपनीजनानां सन्मुख एव, अक्षिप्यत क्षिप्तः, क्षित्वा नियन्त्रितः, नियन्त्रणव्याजेन तत्संयोगरक्षणमकार्षुरिति तासां वनितानामिदमेव वैदग्ध्यम् [च] । स सजा कदाचित् कस्मिंश्चिदवसरे, चन्द्रिकाप्रहासिषु ज्योत्स्नोपहसनशीलेषु, तदधिकोजवलेवित्यर्थः, “चन्द्रिका कौमुदी ज्योत्स्ना" इत्यमरः, प्रासादतलेषु राजभवनोपरिभागेषु, प्रणयकुपिताः प्रीतिप्रयुक्तकोपवतीः, प्रेयसीः प्रियतमाः, सानुनयम् अनुनयेन-अनुरञ्जनेन, सहितं यथा स्यात्तथा, कापिशायनं द्राक्षारसात्मकं मद्यविशेषम् ,