SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ तिलकमञ्जरी। कदाचिनीलपटावगुण्ठिताङ्गो लागलीव कालिन्दीजलवेणिकाः प्रत्यप्रमृगमदाङ्गरागमलिनवपुषो बहुलप्रदोषाभिसारिकाः सुदूरमाचकर्ष [अ]। कदाचिटुल्लसितकनकशृङ्गसुन्दरो मन्दराद्रिरिव क्षीरोदजलवीचिभिरागृहीतविविधशङ्खशुक्तिपुटाभिरवरोधपुरन्ध्रीभिरुपसृत्योपसृत्य सिच्यमानो जलक्रीडामकरोत् [क]। कदा. चिन्मुदितसुहृद्भणोपदिश्यमानमार्गो मृगाङ्कमौलिरिव कैलासशिखरे मुखरशिखण्डिनि क्रीडागिरौ देवीसमेतः सविभ्रमं बभ्राम [ख] | कदाचिन्मन्युगौरवादतिलकिलपादपतनविभ्रमाणां प्रेयसीनां प्रसादनं प्रति निष्प्र जलक्रीडायचं शिखरं च [क]। सुहृद्गणः-मित्रवृन्द सुहृत्प्रमथश्च, देव्यः-स्वभायाः, देवी-गौरी च [ख]। आर्दीभवन्तः, रोमाञ्चकवचाः-सुरतसगरेऽत्राणानि यस्मिस्तादशम् , पुनः उत्कृष्टकरणप्रयोगरमणीयम् उत्कृष्टा ये करणप्रयोगा:-हस्तादीन्द्रियविक्षेपाः, तै रमणीयं-सुन्दरम् , अत्यद्भुतम् आश्चर्यजनकम् , जनसामान्यासाध्यमित्यर्थः [अं]। कदाचित् कस्मिंश्चित् काले, नीलपटावगुण्ठिताङ्गः नीलपटेन-अभिसारिकानुरूपकृष्णवस्त्रेण, अवगुण्ठित-तिरोहितम् , आई-शरीरं यस्य तादृशः सन् , कालिन्दीजलवेणिकाः यमुनाजलमिव कृष्णा येणी-केशपाशो यासां ताः, प्रत्यग्रमृगमदाङ्गरागमलिनवपुषः प्रत्यग्रः-नवः, यो मृगमदः-कस्तूरिका, तत्सम्बन्धिना अङ्गरागेण-शरीरानुलेपनद्रव्येण, मलिनं-लिप्तम् , वपुः-शरीरं यासां ताः, बहुलप्रदोषाभिसारिकाः बहुलस्य- कृष्णपक्षस्य, प्रदोषेषु-रजनीमुखेषु, अभिसारिकाः-नीलपटेनात्मानमवगुण्य कान्ताभिमुखगामिनीः स्त्रीः, सुदूरम् अतिदूरम् , आचकर्ष आकर्षयति स्म, तदेकवेषशालित्वात् , काः कीटक् क इव ? प्रत्यग्रमृगमदाङ्गरागमलिनवपुषः स्नान्तीनां गोपाङ्गनानां कुचकलशाच्च्यवता प्रत्यग्रभृगमदारागेण कलुषितजलीयशरीराः, पुनः बहुलप्रदोषाभिसारिकाः बहुल:-कृष्णः, प्रदोषः-अभिसरणसमयो यासा तादृश्यः, अभिसारिका यासु ताः, कृष्णाभिसारिकाविहारयोग्या इत्यर्थः, कालिन्दीजलवेणिकाः कालिन्दीजलस्य-यमुनाजलस्य, वेण्यः-प्रवाहा एव वेथिकाः, ताः, नीलपटावगुण्ठिताङ्गो लाङ्गली बलराम इव, स यथा यमुनामाकृष्टवानासीत् तथेत्यर्थः, बलरामः कदाचन यमुनामाचकर्षेति पौराणिकमितिवृत्तम् [अ] । स राजा कदाचित् कस्मिंश्चित् काले तु, जलक्रीडां जलैः खेलाम. अकरोत कृतवान् , कीदृशः सन् ? उलसितकनकासन्टर: उल्लसितम-उत्कृष्टम. यत कनककनकं सुवर्ण तन्मयं शृङ्गं शनाकारो जलक्रीडोपकरणयन्त्रविशेषः, तेन सुन्दरः सन् , पुनः अवरोधपुरन्ध्रीभिः अन्तःपुरस्त्रीभिः, उपसृत्य उपसृत्य असकृत् समीपमागत्य, सिच्यमानः उत्क्षिप्यमाणजलः सन् , काभिः कीदक इव ? आगृहीतविविधशङ्कशुक्तिपुटाभिः आगृहीताः-आ समन्ताद् गृहीताः, उद्धृता इत्यर्थः, विविधानाम्-अनेकविधानाम् , शङ्खशुक्तीनां पुटा याभिस्तादृशीभिः, क्षीरोदजलवीचिभिः क्षीरमेवोदकम्-उदकस्थानीयं यस्मिनसौ क्षीरोदः क्षीरसागरः, यत्रेन्द्रभयेन मन्दराचलो निपपात, तवीयजलवीचिभिः-तदीयजलतरः, .उल्लसितकनकङ्गसुन्दरः उदु-ऊर्ध्वम् लसितेन-शोभितेन, कनकशृङ्गेण-सुवर्णमयशिखरेण, सुन्दरः-मनोहरः, मन्दाद्रिः मन्दराचल इव [क]। पुनः कदाचित् कस्मिंश्चित् काले, मुदितसुहृद्रणोपदिश्यमानमार्गः मुदितेन-विहारकौतुकानन्दितेन, सुहृद्गणेन-मित्रमण्डलेन, उपदिश्यमानः-निर्दिश्यमानः, मार्ग:-विहारमार्गो यस्मै तादृशः सन् , देवीसमेतः देवीभिः-राजीभिः, समेतः-सहितः, क्रीडागिरी क्रीडापर्वते, सविभ्रमं विश्रमेण-शकारचेष्टया, सहितं यथा स्यात्तथा, बभ्राम विहारं कृतवान् , कीदृशे ? मुखरशिखण्डिनि मुखराः-शब्दायमानाः, शिखण्डिनः-मयूरा यस्मिंस्तादृशे, कुत्र कीदृशः क इव ? मुखरशिखण्डिनि कैलासशिखरे कैलासपर्वतोपरिभागे, मुदितसुद्रणोपदिश्यमानमार्गः मुदितेन-विहारहेतोः प्रसन्नेन, सुहृदणेनशोभमानं शिवप्रीतिप्रवणं हृदयं यस्य तादृशेन, गणेन-प्रमथगणेन, उपदिश्यमानमार्गः-निर्दिश्यमानविहारभूमिपथः, देवीसमेतः पार्वतीसहितः, शशाङ्कमौलिः शशाङ्क-चन्द्रः, मौलौ-मस्तके यस्य स शशाङ्कमौलिः शिवः, स इव, स यथा तादृशः सन् कैलासशिखरे भ्रमति तथेत्यर्थः [ख] । स राजा कदाचित् कस्मिंश्चित् समये, बिसिनीपलाशनस्तरशायी बिसिनीनां-कमलिनीनाम् , यानि पलाशानि-पत्राणि, “पत्रं पलाशं छदनम्" इत्यमरः, तरखस्तरे-तन्मयशव्यायाम् , शयनशील: सन् , मनसिशयसन्तापं मनसि-कामिनां हृदये, शेत इति मनसिशयः कामदेवः, तत्सन्तापं-तत्सश्वरम् , अत्यवायत् १.तिलक.
SR No.008455
Book TitleTilakamanjiri Part 1
Original Sutra AuthorN/A
AuthorDhanpal Mahakavi, Shantyasuri, Lavanyasuri
PublisherVijaylavanyasurishwar Gyanmandir Botad
Publication Year
Total Pages196
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy