SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ टिप्पनक-परागविवृतिसंवलिता प्रारब्धकार्यतया निराकुलमनास्तत्कालं मनःपुरीमनुप्रवेष्टुकाम कार्मुकधारणापराधविलक्षमनसं मकरलक्ष्माणमनुप्राहयितुमागतेन विस्तारितचतुरोक्तिना दूतेनेव नवयौवनेनोपदर्शितेष्विन्द्रियग्रामहारिषु विषयेषु परिभोगलालसं मानसमासञ्जयामास [औ] | तथाहि-कदाचित् सकुतूहलगृहदेवतादरविलोकितः, कामिनीजनाभरणझात्कारवर्यतूर्यरवसंवर्धितैस्तारतरविलापिनां वैतालिकानामिव केलिशकुन्तानां ध्वनिभिराधीयमानरभसः, सरभसदशनापदंशदलितदन्तच्छदमदयकचग्रहोल्लसद्भुकुटीभूषितललाटदेशमावेशपरवशप्रवृत्तकरप्रहारव्याहरन्मणिवलयमविरलोद्गतश्रमस्वेदतिम्यद्रोमाञ्चकवचमनवरतमुक्तकौसुमशरासारव्यपदेशादुपजाततुष्टिनेव मानसभुवा देवेन पात्यमानपुष्पवृष्टिरुत्कृष्टकरणप्रयोगरमणीयमत्यद्भुतं रतसमरमात नान [ अं] । यः प्रगल्भमत्युपसितधिषणः-पटुबुद्धिपुरुषहसितबुद्धिः, स कथं प्रज्ञावतां धुर्यः?, प्रगल्भमत्युपहसितबृहस्पति [ओ] । उत्कृष्टकरणप्रयोगरमणीयं प्रकृष्टकरपादन्यासरम्यम् , अन्यत्र उत्कृष्टकसंग्रामरम्यम् [अं] | शृङ्गम् अखिलानि-सकलानि, प्रारब्धानि-स्वनारब्धानि कार्याणि यस्य तस्य भावस्तत्ता तया, निराकुलमना अव्यग्रहृदयः सन्, इन्द्रियग्रामहारिषु चक्षुरादीन्द्रियाकर्षणशीलेषु, विषयेषु कामिनीकमनीयरूपादिषु. अन्यत्र देशेषु, परिभोगलालसं . विषयभोगोत्कटतृष्णाकुलम् , मानसं खहृदयम् , अन्यत्र स्वशासनप्रवर्तनाभिलाषम् , आसञ्जयामास आ समन्ताद् योजयामास, कीदृशेषु तेषु ? नवयौवनेन अभिनवतारुण्येन, उपदर्शितेषु आस्वादितेषु, अन्यत्र सवर्णनं कथितेषु, केनेव तेन ? मनःपुरी तदीयहृदयनगरीम् , अनुप्रवेष्टुकामं प्रवेष्टुमिच्छुम् , कार्मुकधारणापराधविलक्षमनसं कार्मुक धारणं-धनुर्ग्रहणमेवापराधः, तेन विलक्षमनसं–विस्मयापन्नहृदयं "विलक्षो विस्मयान्विते" इत्यमरः, मकरलक्ष्माणं मकरो ग्राहः, स लक्ष्म चिहं यस्य तं कामदेवम् ; अनुग्राहयितुं तदपराधपरिमार्जनया तदनुपवेशनानुग्रहक्रियायामुपकर्तुम् , आगतेन अवतीर्णन, विस्तारितचतुरोक्तिना विस्तारिताः-विस्तरेणोक्ताः, चतुरा:-वैदग्ध्यपूर्णाः, उक्तयो वचनानि येन तादृशेन दूतेनेव कामदेवगुप्तचरेणेवेत्युत्प्रेक्षा [औ] ! मानसासजनमुपदर्शयति-तथाहीति । स राजा कदाचित् कस्मिंश्चित् काले, रतसमरं रतिसङ्ग्रामम् ; आततान विस्तारयामास, कीदृशः सन् ? सकुतूहलगृहदेवतादरविलोकितः सकुतूहलया-कुतूहलेन दर्शनलालसया सहितया, गृहदेवतया-गृहाधिष्ठातृदेवतया, आदरेण-प्रीत्या, विलोकितः-निरीक्षितः सन् , पुनः कामिनीजनाभरणझात्कारवर्यतर्यरवसंवर्धितः कामिनीजनाना-नारीजनानाम्, आभरणानि-अलङ्करणानि, तदीयझात्कारैः-झणत्काररूपैः, वर्याणाम्-उक्तमानाम् , तूर्याणां-वाद्यानाम् , रवैः-नादः, संवर्धितैः-सम्यग् वृद्धि प्रापितैः, . वैतालिकानामिव विविधेन तालेन-शब्देन, चरन्ति-राज्ञो जागरणं कुर्वन्तीति वैतालिकाः, राज्ञः प्रातर्जागारयित्तारः, तेषामिव, “वैतालिका बोधकराः" इत्यमरः, तारतरविलापिनाम् अत्युच्चैस्सलापिनाम् , केलिशकुन्तानां क्रीडोपकरणशुकानाम् , ध्वनिभिः शब्दैः, आधीयमानरमसः आधीयमानः-जन्यमानः, रभसः-सुरतसंग्रामवेगः, तदुत्साह इति यावत् , यस्य तादृशः सन् , "रभसो वेग-हर्षयोः” इति विश्वः, पुनः मानसभुवा मानसे-हृदये, भवति-आविर्भवतीति मानसभूः कामः, तेन, देवेन कामदेवेन, पात्यमानपुष्पवृष्टिः पात्यमाना-विमुच्यमाना, पुष्पवृष्टिः-विजयोपहारभूतकुसुमधारा यस्मिन् तादृशः सन् , कीदृशेन तेन ? अनवरतमुक्तकोसुमशरासारव्यपदेशात् अनवरतं सततम् , मुक्ताः-पातिताः, ये कौसुमाः-कुसुमसम्बन्धिनः, शरा:-बाणाः, तेषाम् , आसारः-धारासम्पातः, तद्व्यपदेशात्-तव्याजात्, उपजाततुष्टिनेव सातसन्तोषेणेच, कीदृशं रतसमरम् ? सरभसदशनापदंशदलितदन्तच्छदं सरभसं-सवेगं यथा स्यात्तथा, दशनाओण-दन्ताग्रेण, यो दंशः-दंशनम् , तेन दलितो-खण्डितौ, दन्तच्छदो-कामिन्या ओष्ठौ यस्मिंस्तादृशम् , पुनः अदयकचग्रहोल्लसद्धकुटीभूषितललाटदेशम् अदयं-निर्दयं यथा स्यात्तथा, यः कचग्रहः-केशग्रहणम् , तेन उल्लसन्त्या-शोभमानया, भ्रकुट्या-भ्रुवोः कौटिल्येन, भूषितो ललाटदेशो यस्मिंस्तादृशम् , पुनः आवेशपरवशप्रवृत्तकरप्रहारख्याहरन्मणिवलयम आवेशस्य-स्नेहस्य, परवश-पराधीनं यथा स्यात्तथा. प्रवृत्ताभ्यां कराभ्या-हस्ताभ्याम् , प्रहारेण कामिनीकर्तृकराजकर्मकाभिघातेन, व्याहरत्-कणत् , मणिवलयं-मणिमयमणिबन्धालङ्करणं यस्मिस्तादृशम् , पुनः अविरलोद्गतश्रमस्वेदतिम्यद्रोमाञ्चकवचम् अविरल-निरन्तरम् , उद्गतैः-स्यन्दितैः, श्रमखेदैः- सुरतायासधर्मैः, तिम्यन्तः
SR No.008455
Book TitleTilakamanjiri Part 1
Original Sutra AuthorN/A
AuthorDhanpal Mahakavi, Shantyasuri, Lavanyasuri
PublisherVijaylavanyasurishwar Gyanmandir Botad
Publication Year
Total Pages196
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy