________________
तिलकमञ्जरी।
७१
स राजा बाल एवाधिगतराज्याभिषेकः सकलभुवनाभिभाविना भुजबलेन निर्जित्य सप्ताम्बुराशिरशनाकलापां काश्यपीम् , कृत्वा सततसंचरणशीलस्य यशसः सुखप्रचारार्थमिव निष्कण्टकाः ककुभः, दिक्कुम्भिनामालानस्तम्भानुकारिणः समारोपितस्वनामवर्णश्रेणीकानारोप्य दिशामष्टानामपि पर्यन्तेषु जयस्तम्भान् , उपार्जितप्रभूतकोशं वशीकृतसमस्तसामन्तमायत्तमत्रिमण्डलमुपगृहीतमित्रवर्गमाप्तपुरुषाधिष्ठितदुर्ग समग्रमपि राज्यमाजन्मनः प्ररूढपरमसौहृदस्य हृदयस्येवातिविश्वसनीयस्य बाहोरिव वसुन्धराभारवहनक्षमस्कन्धस्य प्रगल्भमत्युपहसितधिषणस्यापि. प्रज्ञावतां धौरेयस्य विदितनिश्शेषनीतिशास्त्रसंहतेरमात्यवर्गस्यायत्तमकरोत् [ओ] | आत्मनापि निश्शेषितारिवंशतया विगतशङ्कः, स्वधर्मव्यवस्थापितवर्णाश्रमतया जातनिर्वृतिः, पर्यवसिताखिल
सः अनुपदवर्णितो राजा मेघवाहनः, बाल एव बाल्यावस्थायामेव, अधिगतराज्याभिषेकः सम् , सकलभुवनाभिमाविना निखिलभुवनविजयिना, भुजबलेन बाहुबलेन, सप्ताम्बुराशिरशनाकलापां सप्ताम्बुराशयःसप्त समुद्राः, त एव रशनाकलापः-काञ्चीश्रेणी यस्यास्तादृशीम् , समुद्रपर्यन्तामित्यर्थः, काश्यपी पृथिवीम्, निर्जित्य समन्तादायत्तीकृत्य, “काश्यपी क्षितिः” इत्यमरः, सततसश्चरणशीलस्य अविरतप्रसरणखभावकस्य, यशसः खकीर्तेः, सुखप्रचारार्थमिव सुखेन सञ्चारमुद्दिश्येवेत्युत्प्रेक्षा, ककुभः दिशः, “दिशस्तु ककुभः काष्ठाः” इत्यमरः, निष्कण्टकाः कण्टकायमानशत्रुशून्याः, “रोमाञ्चे क्षुदशत्रौ च तरोरङ्गे च कण्टकः” इति शाश्वतः, कृत्वा सम्पाद्य, दिक्कुम्भिनाम् कुम्भौ-शिरःपिण्डौ स्तो येषां ते कुम्भिनः, दिशः कुम्भिनः दिकुम्भिनस्तेषाम् , “कुम्भो राश्यन्तरे हस्तिमूर्धाशे” इति मेदिनी, दिग्गजानाम् , आलानस्तम्भानुकारिणः दायोच्छ्रायाभ्यां बन्धेन स्तम्भायमानान् , “आलानं बन्धस्तम्भे” इत्यमरः, समारोपितस्वनामवर्णश्रेणिकान् समारोपिता-लिखित्वा स्थापिता, स्वनाम्नः वर्णश्रेणिः-अक्षरसमूहो येषु तादृशान् , जयस्तम्भान् जयसूचकशङ्कन , अष्टानामपि दिशां पर्यन्तेषु-सीमाप्रदेशेषु, आरोग्य स्थापयित्वा; उपार्जितप्रभूतकोशम् उपार्जिताः-निर्मिताः, प्रभूताः-प्रचुराः, कोशाः-हिरण्यादिनिधयो यस्मिन् तादृशम् , वशीकृतसमस्तसामन्तं वशीकृताः समस्ताः-सकलाः, सामन्ताः-संलग्नोऽन्तश्वरमावयवो यस्याः सा समन्ता, खदेशाव्यवहितभूमिः, तस्या ईश्व यत्र तादृशम् , “अन्तः स्वरूपे निकटे प्राप्ते निश्चयनाशयोः अवयवेऽपि" इति हैमः, आयत्तमन्त्रिमण्डलं स्वाधीनसचिवसमूहम् ; उपगृहीतमित्रवर्गम् उपगृहीतः-अनुकूलितो मित्रवर्गो यस्मिस्तादृशम् , “उपग्रहः पुमान् वन्द्यामुपयोगेऽनुकूलने" इति मेदिनी, आप्तपुरुषाधिष्ठितदुर्ग आप्तपुरुषैः-विश्वस्तपुरुषैः, अधिष्ठितः-रक्षणार्थमाश्रितः, दुर्ग:-प्राकारो यस्मिंस्ताहशम् , "आप्तः प्रत्ययितस्त्रिषु" इत्यमरः, समग्रमपि सम्पूर्णमपि, राज्यम् , अमात्यवर्गस्य मन्त्रिमण्डलस्य, आयत्तम् अधीनम् , अकरोत् कृतवान् , कीदृशस्य तस्य ? आ जन्मनः जन्मप्रभृति, प्ररूढपरमसौहृदस्य प्ररूढं-प्रवृद्धम् , परमसौहृदं-सान्द्रसख्यं येन तादृशस्य, हृदयस्येव खान्तःकरणस्येव, अतिविश्वसनीयस्य, बाहोरिव स्वभुजस्येव, वसुन्धराभारवहनक्षमस्कन्धस्य वसुन्धराभारवहनक्षमः-भूभारग्रहणसमर्थः, स्कन्धो यस्य तादृशस्य, प्रगल्भमत्युपहसितधिषणः प्रगल्भमतिभिः-प्रत्युत्पन्नबुद्धिशालिभिः, उपहसिता-निन्दिता, धिषणा-बुद्धिर्यस्य तादृशस्यापि, मन्दप्रज्ञस्यापीत्यर्थः, "प्रगल्भः प्रतिभान्वितः” इत्यमरः, प्रज्ञावतां बुद्धिमताम् , धौरेयस्य अग्रेसरस्येति विरोधः, तदुद्धारे तु प्रगल्भमत्याप्रत्युत्पन्नबुद्ध्या, उपहसितो धिषणो बृहस्पतिर्येनेति व्याख्येयम् , “गीष्पतिर्धिषणो गुरुः" इत्यमरः, पुनः विदितनिःशेषनीतिशास्त्रसंहतेः विदिता-ज्ञाता, निःशेषाणां समग्राणाम् , नीतिशास्त्राणां संहतिः-समूहो येन तादृशस्य [ ओर अपि च आत्मनाऽपि खेनापि, निःशेषितारिवंशतया निःशेषितः-निःशेष यथा स्यात्तथा विध्वंसितः, अरिवंशः-शत्रुवंशो येन तस्य भावस्तत्ता तया, विगतशङ्कः शत्रुशङ्काशून्यः, स्वधर्मव्यवस्थापितवर्णाश्रमतया स्वधर्मेण-स्वधर्मानुसारेण, व्यवस्थापिताः-विभज्यावस्थापिताः, वर्णाः-ब्राह्मणादयः, आश्रमा:-ब्रह्मचर्यादयो येन तस्य भावस्तता तया हेतुना, जातनिर्वृतिः जातधर्मव्यवस्थापनात्मककार्यजन्यपरमसुखः पर्यवसिताखिलप्रारब्धकार्यतया पर्यवसितानि-निष्पन्नानि,