________________
७०
टिप्पनक-परागविवृतिसंवलिता श्रेणिचूडामणिमरीचिचक्रविरचितेन्द्रचापकलापेषु प्रत्यावृत्तप्रथमजलधरसमयशङ्काविधायिषु लोकस्य यदीयसैन्येषु सकलप्रतिपक्षलक्ष्मीजिघृक्षया शरत्समये समन्ततः प्रचलितेषु विषमजलनिधिमध्यवासिनोऽपि कंसद्विष इव द्वीपावनीपालनिवहस्य निद्रा क्षयमगच्छत् [ऋ] । अन्यच्च
यस्य दोष्णि स्फुरद्धेतौ प्रतीये विबुधैर्भुवः । बौद्धतर्क इवार्थानां नाशो राज्ञां निरन्वयः ॥१॥[ल] । लतावनपरिक्षिप्ते निन्ये यदरिभिर्निशा । विन्ध्यातस्तस्परुचिरे न वेश्मनि नवेऽश्मनि ।। २॥ [ल]। अन्तर्दग्धागुरुशुचावाय यस्य जगत्पतेः । नारीणां संहतिश्चारुवेषाकारागृहे रतिम् ॥ ३ ॥ [ए]। दृष्ट्वा वैरस्य वैरस्यमुज्झितास्रो रिपुव्रजः । यस्मिन् विश्वस्य विश्वस्य कुलस्य कुशलं व्यधात् ॥४॥[ऐ]।
कणा इत्यर्थः, तेषां प्रकरस्य-समूहस्य, पात इव-अधस्ताद्विकिरणमिव, मुखराः-शब्दायमानाः, ये सप्तीनाम्-अश्वानाम् , खुरपुटा:-सम्पुटितखुराः, तेषां ध्यानैः-ध्वनिभिः, जनितः-उद्भावितः, जगज्वरः-जगतां कर्णज्वरो यैस्तादृशेषु, “हय-सैन्धवसप्तयः" इत्यमरः, पुनः प्रसर्पन्नृपश्रेणिचूडामणिमरीचिचक्रविरचितेन्द्रचापकलापेषु प्रसर्पन्तः-सम्भ्रमेण खसिंहासनात् प्रचलन्तो ये, नृपाः-राजानः, तेषां याः श्रेणयस्तासां चूडामणिमरीचिचक्रेण-मौलिमणिकिरणनिकरण, विरचितः, इन्द्रचापानां-"रविकिरणा बहुवर्णा वातेन विलोडिता नभसि। शकायुधसंस्थाना दृश्यन्ते तत्त इन्द्रधनुः" । इत्युक्तानामिन्द्रधनुषाम् , कलापः समूहो यैस्तादृशेषु, पुनः लोकस्य जनतायाः,प्रत्यावृत्तप्रथमजलधरसमयशङ्काविधायिषु प्रत्यावृत्तःपुनरागतो यः, प्रथमः-प्रारम्भिकः, जलधरसमयः-वर्षाकालः, तस्य या शङ्का-संशयः, तद्विधायिषु-तत्प्रयोजकेषु [ अन्यश्च अपि च, यस्य मेघवाहनसंज्ञकस्य प्रकृतनृपतेः, दोष्णि नाही, “भुज-बाहू प्रवेष्टो दोः" इत्यमरः, स्फुरद्धेतौ स्फुरन्ती-भ्राजन्ती, हेतिः-बाणः, यस्मिन् तादृशे सति, “हेतिः स्यादायुध-ज्वाला-सूर्यतेजस्सु योषिति" इति मेदिनी, विबुधैः विशिष्टैः-तर्कवितर्ककुशलैः, बुधैः-पण्डितैः, ध्रुवः अवश्यम्भावी, राज्ञां प्रतिकूलनृपतीनाम् , निरन्वयः अन्वयाद्वंशात् , निर्गतः, निःशेषतया ततो निर्गत्य प्रतियोगिभावेन तदमात्यादिकमभिव्याप्त इत्यर्थः, यद्वा अन्वयो नाम कथञ्चिदस्तित्वम् , तदभावात्मकः, नाशः, प्रतीये तर्कितः, कस्मिन्निव केषाम् ? स्फरद्धेतौ स्फुरन्-आरोपगोचरीभवन , हेतु:-लिङ्गव्याप्यधर्मो यस्मिन् तादृशे, बौद्धतर्के बुद्धो देवता येषां ते बौद्धास्तेषां तर्के-'यदि पदार्थानां क्षणिकत्वं न स्यात्तर्हि सत्त्वमपि न स्यादर्थक्रियाकारित्वायोगाद्' इत्याकारके व्याप्यारोपजन्यव्यापकारोपात्मके, इव यथा, अर्थानां पदार्थानां द्वितीयक्षणे निरन्वयो नाम सर्वथैव नाशः प्रतीतिपथमवतरति तथैव तस्य तादृशभुजदर्शनेन शत्रूणामुक्तरूपो नाश इत्यर्थः॥१॥ अत्र श्लेषानुप्राणितो.. पमालङ्कारः [ल]।
___यदरिभिः यस्य प्रकृतनृपतेः, अरिभिः-शत्रुभिः, लतावनपरिक्षिते लतामयवनपरिक्षिप्ते, विन्ध्याद्रेः विन्ध्यगिरेः, नवे नवीने, अश्मनि प्रस्तरे, निशा निन्ये तत्र निलीय व्यतीये, न तु तत्परुचिरे तल्पेन-कोमलशय्यया, रुचिरेमनोहरे, वेश्मनि, तत्र तेषां ततो भीरुत्वादिति भावः ॥ २ ॥ अत्र परिसंख्या यमकं चालङ्कारः [ ]।
यस्य प्रकृतस्य, जगत्पतेः नृपतेः, चारुवेषाकारा चारु:-सुन्दरः, वेषः-कृत्रिमरूपं यस्य तादृश आकारो यस्या असो, नारीणां संहतिः-समूहः, अन्तर्दग्धागुरुशुचौ अन्तर-मध्ये, दग्धः-ज्वलितः, योऽगुरुस्तेन शुचौ-शोधिते, सुरभित इति यावत् , गृहे, रतिं प्रीतिम् , आप प्राप, पक्षे अगुरुशुचा राज्यापहरणजनितमहाशोकानलेन, अन्तर्दग्धा अन्तःअन्तःकरणावच्छेदेन, दग्धा, यस्य जगत्पतेः, अरीणां शत्रूणाम् , संहतिः, यतः चारुवेषा राजोचितचारूपकरणविप्रयुक्ता, अतः कारागृहे बन्धनालये, रतिं न अबाप, “कारा दूत्यां प्रसेवके, बन्धने बन्धनागारे हेम-कारिकयोरपि" इति विश्वः ॥३॥ अत्र सभङ्गश्लेषालकारः[ए] .
वैरस्य शत्रुतायाः, वैरस्यं विरसता दुष्परिणामताम् , दृष्ट्वा, यस्य प्रकृतनृपतेः, रिपुव्रजः शत्रुसमूहः, उज्झितात्रः उज्झितानि-त्यक्तानि, अस्त्राणि-अस्यन्ते शत्रूपरि क्षिप्यन्ते यानि तानि शरादीनि येन तादृशः सन् , यस्मिन् मेघवाहने, विश्वस्य खहितकारित्वेन विश्वासं कृत्वा, विश्वस्थ समग्रस्य, कुलस्य खवंशस्य, कुशलं कल्याणम्, व्यधात् अकाषीत् । अत्र यमकं काव्यलिङ्गं चालङ्कारः, उज्झितानपदार्थस्य अत्रत्यागरूपस्य कुशलविधानं प्रति हेतुत्वात् ॥ ४॥ [ऐ