________________
तिलकमञ्जरी। वैशेषिकमते द्रव्यस्य प्राधान्यं गुणानामुपसर्जनभावो बभूव [ ऊ] । किं बहुना । यस्य धारणे कूर्मपतिनापि पराङ्मुखीभूतमादिवराहेणापि वक्रितं मुखमुरगराजस्यापि सहस्रधा भिन्नाः फणाभित्तयः, तमपि भुवनभारमनायासेनैव धृतासिना भुजेन यो बभार । निर्यत्नधृतसमस्तभुवनभारतया च तं द्वितीयं शेषं तृतीयमादिवराहदंष्ट्राकुरमष्टमं कुलाचलं नवममाशागजममन्यन्त जनाः [] | किञ्च, मुक्तमदजलासारकरिघटासहस्रमेघमण्डलान्धकारिताष्टदिग्विभागेषु घनस्तनितघर्घरघूर्णमानरथनिर्घोषेषु दर्पोत्पतत्पदातिकरतलतुलिततरवारितडिल्लताप्रतानदन्तुरितान्तरिक्षकुक्षिषु प्रचण्डानिलप्रणुनकरकोपलप्रकरपातमुखरसप्तिखुरपुटध्वानजनितजगज्वरेषु प्रसर्पन्नृप
धनं च, गुणानां संख्यादीनां शौर्यादीनां च, उपसर्जनभावः अप्रधानता च [ऊ] । तरवारिः-खड्गः [
]
"पणो ग्लहो देवनस्तु पाशकोऽक्षोऽथ शारयः” इति वैजयन्ती । वैशेषिकमते कणादसिद्धान्त एव, द्रव्यस्य पृथिव्यादिद्रव्यनवकस्य, प्राधान्यं समवायिकारणत्वेन मुख्यत्वम् , गुणानां रूपादिचतुर्विंशतिगुणानाम् , उपसर्जनभावः तदानितत्वेन गौणत्वं बभूव, न तु तत्साम्राज्ये द्रव्यस्य हिरण्यरजतादेः, प्राधान्यम् , गुणानां विद्यादीनां गौणत्वम् , अपि तु तद्विपरीतमेवासीदिति भावः [क]। किंबहुना अलमतिवर्णनेन । यस्य भुवनभारस्य, धारणे वहने, कूर्मपतिना कच्छपाधिपेन, पराङ्मुखीभूतं वैमुख्यमाश्रितम् , आदिवराहेणापि भगवदवतारभूतप्रथमवराहेणापि, मुखं वक्रितं कुटिलीकृतम् , उरगराजस्यापि शेषनागस्यापि, फणाभित्तयः फलारूपा भित्तयः, भित्तिवदुन्नताः फणाः, सहस्रधा सहस्रप्रकारेण, भिन्नाः विदीर्णाः, तमपि भुवनभारं यः मेघवाह्ननामा नृपः, अनायासेनैव आयासं विनैव, धृतासिना गृहीतखड्ड्रेन, भुजेन, बभार दधारेति तेभ्यस्तस्य व्यतिरेकः । च पुनः, तं प्रकृतनृपम् , नियत्नधृतसमस्तभुवनभारतया निर्यनम्-अनायासं यथा स्यात्तथा, धृतः-ऊढः, समस्तभुवनभारः-समस्त पृथ्वीभारो येन तत्तया हेतुना, जनाः लोकाः, द्वितीयं पातालस्थितशेषापेक्षयाऽन्यं शेषम् , तृतीयं सामान्य क्लुप्तवराहदंष्ट्रायुगलापेक्षयाऽधिकम् , आदिवराहदंष्ट्राङ्करम् आदिवराहस्य दंष्ट्राकर-दंष्ट्रारूपाङ्करम् , भुवनभारवाहकत्वेन तत्साम्यात् , अष्टमं सप्तमहाचलापेक्षयाऽधिकृतम् , कुलाचलं महाचलम, नवमम् अष्टदिग्गजव्यतिरिक्तम् , आशागज दिग्गज च, अमन्यन्त मन्यन्ते स्म, तद्वद् भूभारवहनक्षमत्वात् । [क]। किञ्च अपि च, यदीयसैन्येषु यस्य-प्रकृतनृपतेः, सैनिकेषु, सकलप्रतिपक्षलक्ष्मीजिघृक्षया प्रतिपक्षाणांशत्रूणाम् , लक्ष्मी-राज्यसम्पदम् , ग्रहीतुमिच्छया, शरत्समये शरहतौ, समन्ततः सर्वतः, प्रचलितेषु प्रस्थितेषु सत्सु, विषमजलनिधिमध्यवासिनोऽपि विषमः-दुरवगाहः, यो जलनिधिः-समुद्रः, तन्मध्यवास्तव्यस्यापि, दीपावनीपालनिवहस्य द्विता आपो यस्याः सा द्वीपा, जलमध्यस्थलरूपेत्यर्थः, तादृशीमवनी पालयतीति द्वीपावनीपालः, तन्निवहस्यतत्समूहस्य, निद्रा क्षयं भङ्गम् , अगच्छत् , कस्येव ? कंसद्विष इव विष्णोरिव, लक्ष्मीजिघृक्षया विपक्षसैन्याक्रमणे जलधिमध्ये शयानस्यापि तस्य निद्रा यथा क्षयं गताऽसीत् तथेति भावः । कीदृशेषु तत्सैन्येषु ? मुक्तमदजलासारकरिघटासहस्रमेघमण्डलान्धकारिताष्टदिग्विभागेषु मुक्तः निष्यन्दितः, मदजलासारः-दानजलधारासम्पातो येन तादृशं करिघटासहस्र-हस्तियूथसहस्रमेव, मेघमण्डलं-मेघमाला, तेन अन्धकारिताः-अन्धकारमापादिताः, अष्टदिग्विभागाः-अष्टदिगवकाशा यैस्तादृशेषु, पुनः घनस्तनितधर्घरघूर्णमानरथनि?षेषु घनस्य-मेघस्य, धनं-सान्द्रं वा, यत् स्तनितं-गर्जितम् , तत्सम्बन्धी यो धर्धरः-क्षरदम्बुध्वनिः, स इव, घूर्णमानस्य-पथि परिभ्रमतः, रथस्य, निर्घोषः-शब्दो येषु तादृशेषु, “स्तनितं गर्जितं मेघनिर्घोषः" इत्यमरः, पुनः दर्पोत्पतत्पदातिकरतलतुलिततरवारितडिल्लताप्रतानदन्तुरितान्तरिक्षकुक्षिषु दर्पण-गर्वेण, उत्पतन्तः-उच्छलन्तो ये, पदातयः पद्धयां गन्तारः सैन्याः तेषां करतलेन-दृढतरपाणितलेन, तुलिताःपरिच्छिन्नाः, न तु दुर्वहाः, ये तरवारयः-तत्संज्ञकाः खड्गविशेषाः, त एव तडिल्लताः-विद्युद्धहयः, तासां प्रतानेन-विस्तारेण, दन्तुरिताः-उन्नतदन्तवत्या लोकः प्रत्यायिताः, अन्तरिक्षकुक्षयः-आकाशमध्यभागा यैस्तादृशेषु, “ऋष्टिः खड्गस्तरवारि-कौक्षेयकौ च नन्दकः" इति रभसः, पुनः प्रचण्डानिलप्रणुनकरकोपलप्रकरपातमुखरसप्तिखुरपुटध्वानजनितजगज्वरेषु प्रचण्डेन-प्रोद्धतेन, अनिलेन-वायुना, प्रणुन्नाः-अधो विक्षिप्ताः, ये करकोपलाः-करकानामकप्रस्तराः, वर्षोपल