________________
६८
टिप्पनक- परागविवृतिसंवलिता
पदानां विग्रहः, तिमीनां गलग्रहः, गूढचतुर्थकानां पादाकृष्टयः, कुकविकाव्येषु यतिभ्रंशदर्शनम्, उदधीनामवृद्धिः, निधुवनक्रीडासु वर्जनताडनानि, द्विजातिक्रियाणां शाखोद्धरणम्, बौद्धानामनुपलब्धेरसद्व्यवहारप्रव-र्तकत्वम्, प्रतिपक्षक्षयोद्यतमुनिकथासु कुशास्त्रश्रवणम्, शारीणामक्षप्रसरणदोषेण परस्परं बन्धव्यधमारणानि,
मर्दन पीडा च दिवि आकाशे, अग्रहणं दिव्यग्रहणं शुद्धिकरणं च विग्रहः समासवाक्यं संग्रामश्च, गलेन- मांस:खण्डेन ग्रहः-ग्रहणम्, गलामोटिका च पादाकृष्टयः पादाकर्षणानि पादच्छेदाश्व, यतिः - विरतिर्मुनयश्च, अवृद्धिः जलवृद्धिः, समृद्ध्यभावश्च, तर्जना-निर्भर्त्सना, घातान् ( ? ) [ ताडनानि - आघाताः ] शाखा अध्ययनविशेषः साहुली च, असदुद्व्यवहारः असदिति ज्ञानम् असन्निति शब्द इत्यादिकोऽ शिष्टाचारश्व, कुशास्त्रश्रवणं दर्भशस्त्रकर्णनं कुत्सितशास्त्रश्रवणं च अक्षाः - पाशका इन्द्रियाणि च बन्ध-व्यध - मारणानि बन्धन-ताडन- घातनानि द्रव्यं - पृथिव्यादि
नम्, बभूव, न तु तत्प्रजानां केनचित् क्लेशनम् । पक्षिणां शुकादीनामेव, दिवोऽयं दिव्य आकाशप्रदेशः, तद्ब्रहणं तदाश्रयणम्, यद्वा दिवि आकाशे, अग्रहणम् - उड्डीयमानानामन्येन अनिग्रहो बभूव, न तु केनापि कस्यापि दिव्यस्य - दिवि भवस्य सुवर्णादे• वैस्तुनो हरणम्, यद्वा अभ्यादिदिव्यग्रहणेन सत्यतापरीक्षणम् । पदानां कृदन्त-तद्वितान्तादिप्रकृतिकविभक्त्यन्तानामेव, विग्रहः वृत्त्यर्थंप्रतिपादकं वाक्यम्, बभूव, न तु लोकानां विग्रहः युद्धम् । तिमीनां तत्संज्ञकमत्स्यविशेषाणामेव, "अस्ति मत्स्यस्तिमिर्नाम शतयोजनविस्तृतः । तिमिङ्गिलगिलोऽप्यस्ति तद्विलोऽप्यस्ति राघव ” इत्युक्तानाम्, गलग्रहः तिमिलनाना मत्स्येन तदधिकबलवता कण्ठकवलनम्, बभूव, न तु केनचिन्मनुष्येण कस्यचिन्मनुष्यस्य गलामोटिका सर्वेषां सौहार्दसत्त्वात् । गूढचतुर्थकानां गूढः - अप्रकटितः, चतुर्थः चतुर्थपादो येषां तादृशानां श्लोकानामेव पादाकृष्टिः - श्रुतपादत्रयानुगुण्येन चतुर्थपादस्य आकर्षणम् - मनसा प्रकल्प्य योजनम्, बभूव, न तु चोरयित्वा कस्यचिज्जनस्य पलायमानस्य केनचित् पादयोराकर्षम् । कुकविकाव्येषु कुत्सितकवि प्रणीत काव्येष्वेव, यतिभ्रंशदर्शनं विरतिभङ्गाख्यकाव्यदोषोपलब्धिर्बभूव, न तु यतीनां -मुनीनाम्, भ्रंशस्य - चारित्रच्युतेः दर्शनम् । उदधीनां समुद्राणामेव, अवृद्धिः क्षयपक्षे हानिः, यद्वा अपां-जलानाम्, ऋद्धिः-समृद्धिः, अबृद्धिः, वबयोरैक्याद् अवृद्धि: - जलसमृद्धिः, बभूव, न त्वत्र कस्यापि जनस्य अवृद्धिः हानिः । निधुवनक्रीडासु नितरां धुवनं - गात्रकम्पनं यासु तासु क्रीडासु, सुरतक्रीडासु, “मैथुनं निधुवनं रतम्” इत्यमरः, तर्जनताडनानि तर्जनानि - प्रतिकूलान् प्रति भर्त्सनानि, ताडनानि - उरःस्थले हस्ताघाताश्च बभूवुः, न त्वन्यकर्मणि तर्जनानि-कटुवचनानि, ताडनानि-दण्डादिनाऽऽघाताः । द्विजातिक्रियासु द्वे जाती उत्पत्ती सामान्यविशेषभावेन येषां ते द्विजातयो ब्राह्मणादयः, तदुक्तम्-"जन्मना जायते शूद्रः संस्काराद् द्विज उच्यते" इति तेषां क्रियासु-अध्ययनादिकर्मसु शाखोद्धरणं शाखानां माध्यन्दिनादीनां वेदैकदेशानाम्, उद्धरणं तदध्येयत्वेन व्यवस्थापनम् बभूव, न तु शाखानां - वृक्षावयवानाम्, उद्धरणम्-उच्छेदनम् । बौद्धानां बुद्धोपासकानामेव, अनुपलब्धेः - प्रत्यक्षेण वस्तूनामनुपलभ्यस्यैव, असद्व्यवहारप्रवर्तकत्वम् असदिति यो व्यवहारस्तत्प्रयोजकत्वम्, तन्नये प्रमाणान्तराभावेन प्रत्यक्षेणोपलब्ध्यनुपलब्धिभ्यामेव वस्तूनां सत्त्वा सत्त्वावगमादित्यर्थः, न तु कस्यचिदसमीचीन व्यवहारजनकत्वम् । परपक्षक्षयोद्यतमुनिकथासु परपक्षाणां विपरीतमतानाम्, क्षये - खण्डने, उद्यताः - लग्नाः, ये मुनयस्तेषां कथासु-तत्प्रणीतकथाखेव यद्वा परपक्षक्षयोद्यतासु मुनिकथाखेव, कुशास्त्रश्रवणं कुशास्त्रस्य - खण्डनीयतयोपन्यस्तस्य कुत्सितशास्त्रस्य यद्वा परपक्षः - अधार्मिकवर्गः, तस्य क्षये विनाशे, उद्यान - प्रयत्नवताम्, मुनीनां कथासु - चरित्रेषु, कुशास्त्रस्य - तपोबलोपबृंहितस्य दर्भमयस्य अस्त्रस्य श्रवणं बभूव, न त्वन्यत्र कुशास्त्रश्रवणं कुशास्त्रस्य - अपमार्गोपदेशक शास्त्रस्य, दर्भवद्दुर्बलस्यास्त्रस्य वा श्रवणम्, यद्वा कोः पृथिव्याः शास्ता कुशास्ता, तस्याऽश्रवणम्, अपि तु सर्वत्र तच्छ्रवणमेव । शारीणाम् अक्षाणामेव, अक्षप्रसरदोषेण पाशकप्रतिकूल प्रचलन दोषेण, परस्परं बन्ध-व्यध-मारणानि बन्धः - गमनप्रतिबन्धः, व्यधः - प्रत्यावर्तनम्, मारणं द्यूताधारपट्टान्निष्काशनम्, न तु अक्षप्रसरदोषेण इन्द्रियसचारदोषेण, केषाञ्चिद् बन्धः - बन्धनम् व्यधः - ताडनम्, मारणं विषभोजनादिद्वारा व्यापादनं च बभूव,