________________
७६
टिप्पनक - परागविवृति संवलिता
न्वेषणादिना तेन तेन व्याजेन निमज्य गृहीतजघनांशुको विभ्रमभ्रूभङ्गसुभगललाट लेखानि व्याजवैलक्ष्यहासविकसितकपोलदर्पणान्यलीकाक्रोशपदहृद्यवाचि समासन्नप्रतिप्रमदा मुखप्रतिकृत्रिमत्र पातरलतर तार कान्यविरतदिदृक्षारसो वीक्षामास मुखानि [ठ]। किं बहुना, यदुचितं यौवनस्य रुचितं चित्तवृत्तेराराधकं विदग्धानामबाधकं लोकद्वयस्य, तदपरमप्यविकलतया विवेकस्य स्थिरतया कुलाभिमानस्य स्वभ्यस्ततया विनयस्य भूयिष्ठतया च सत्त्ववृत्तेः, यथा न धर्मः सीदति यथा नार्थः क्षयं व्रजति यथा न राजलक्ष्मीरुन्मनायते यथा न कीर्तिर्मन्दायते यथा न प्रतापो निर्वाति यथा न गुणाः श्यामायन्ते यथा न श्रुतमुपहस्यते यथा न परिजनो विरज्यते यथा न मित्रवर्गो म्लायति यथा न शत्रवस्तरलायन्ते तथा सर्वमन्वतिष्ठत् [ ड ] । सेवकानुरागसंरक्षणाय च वितीर्णसर्वावसरमन्तरान्तरा सभामण्डपमध्यास्त [ढ ] | धर्मपक्षपातितया च देवद्विजातितपस्विनकार्येषु महत्सु कार्यासनं भेजे [ग] |
टिप्पनकम् - कार्यासनं धर्माधिकरणम् [ ण ] |
2
निमजय जले प्रविश्य विभ्रमभ्रूभङ्गसुभगललाट लेखानि विभ्रमेण शृङ्गारचेष्टाविशेषेण, यो भ्रूभङ्गः - नयनोपरितनरोमराजी कौटिल्यम् तेन सुभगा - मनोहरा, ललाटरेखा - ललाटस्थपतिर्येषु तादृशानि, “लेखा राज्यां लिपावपि” इति हैमः, व्याजवैलक्ष्यहासविकसितकपोलदर्पणानि व्याजे-तद्राजकर्तृकालीयकान्वेषणादिरूपे छले, यद् वैलक्ष्यम्-आश्चर्यम्, तेन यो हासः, तेन विकसितौ - प्रफुल्लितौ, कपोलदर्पणौ- दर्पणवदुजवली कपोलो येषु तादृशानि पुनः अलीकाक्रोशपदहृद्यवाश्चि अलीकानि - मिथ्याभूतानि, न त्वान्तरिकाणि, यानि आक्रोशपदानि - उपालम्भवाक्यानि तैः हृया-हृदयप्रिया, वाक्वाणी येषु तादृशानि पुनः समासन्नप्रतिप्रमदामुख प्रहितकृत्रिमत्रपातरलतरतारकानि समासन्नाः-निकटस्थाः, याः प्रतिप्रमदाः - सपक्ष्यः, तासां मुखेषु प्रहिता - प्रेषिता, निवेशितेत्यर्थः, या कृत्रिमत्रपा - कृत्रिमा स्वयमुत्पन्ना या त्रपा स्वाश्रितलज्जाभारः, तया तरलतरा - अतिचञ्चला, तारका - कनीनिका येषु तादृशानि मुखानि जलक्रीडारतानामन्तः पुरविलासिनीनां मुखमण्डलानि, अविरतदिदृक्षारसः अविरतं सन्ततम् दिदृक्षारसः - दर्शनेच्छाकौतुकं यस्य तादृशः सन् वीक्षामास विशेषेण पश्यति स्म [ 3 ] । किं बहुना किमधिकेन, यौवनस्य यौवनावस्थायाः, उचितं योग्यम्, चित्तवृत्तेः, रुचितं प्रियम्, विदग्धानां पण्डितानाम्, आराधकं सत्कारकम्, लोकद्वयस्य एतद्भवपरभवयोः, अबाधकम् अहानिकारकम्, यद् यादृशं कर्म, तत् तादृशम्, अपरमपि अन्यदपि सर्वे कर्म, अम्वतिष्ठत् करोति स्मः केन हेतुना ? विवेकस्य सदसद्विचारशक्तेः, अविकलतया अन्यूनतया, परिपूर्णतयेत्यर्थः, कुलाभिमानस्य स्वकुलगौरवाभिमानस्य, स्थिरतया दृढता, विनयस्य नम्रतायाः, स्वभ्यस्ततया सम्यगभ्यासेन, सववृत्तेः पराक्रमवृत्तेः, भूयिष्ठतया अत्यधिकतया; केन प्रकारेण ? यथा येन प्रकारेण धर्मो न सीदति न नश्यति, पुनः, यथा येन प्रकारेण, अर्थः धनम्, न क्षयं व्रजति वृथा व्ययं न प्राप्नोति, यथा येन प्रकारेण, राजलक्ष्मीः, न उन्मनायते न पराकुखीभवति, यथा येन प्रकारेण, प्रतापः राजतेजः, न निर्वाति न क्षयति, गुणाः दयादाक्षिण्यादयः, यथा येन प्रकारेण न श्यामायन्ते न मालिन्यमामुवन्ति, यथा येन प्रकारेण श्रुतं शास्त्रं न उपहस्यते नोपहासास्पदतामुपैति, यथा येन प्रकारेण, मित्रवर्गः अमास्यादिसुहृद्वर्गः, न ग्लायति न हर्षक्षयमुपैति, शत्रवः रिपुगणः, यथा येन प्रकारेण, न तरलायन्ते न स्पर्धितुं त्वरते [ ड ] । स राजा च पुनः सेवकानुरागसंरक्षणाय सेवकानुरागस्य- सेवकजनसमवेत प्रीतेः, संरक्षणाय - सम्यग्रक्षणाय, सेवकैः सह प्रेमालापायेत्यर्थः, वितीर्णसर्वावसरं वितीर्णः सर्वः, अवसरः- समयो यस्मिंस्तादृशं यथा स्यात्तथा अन्तरा अन्तरा कामिनीक्रीडाया मध्ये मध्ये, सभामण्डपं सभासदनम् ; अध्यास्त उपविशति स्म [ ढ ] । च पुनः, धर्मपक्षपातितया धर्मश्रद्धालुतया, महत्सु बहुसमयविवेकसाध्येषु, देव-द्विजाति-तपस्विजनकार्येषु देवानाम्, द्विजातिजनानां - ब्राह्मण-क्षत्रिय-वैश्यजनानाम्, तपस्विजनानां च कार्येषु यज्ञादिषु, कार्यासनं कार्याध्यक्षासनम्, मेजे गृहाति स्म [ण ] 1