SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ तिलकमञ्जरी। पौरलोकपरितोषहेतोश्च वसन्तादिषु सविशेषप्रवृत्तोत्सवा निर्गत्य नगरीमपश्यत् [त] | निसर्गत एवास्य पूर्वपार्थिवातिशायिनी प्रजासु पक्षपातपरवशा वृत्तिरासीत्, यतः स तथाप्रसक्तोऽपि विषयोपभोगसुखेषु, जानन्नपि जागरूकताममात्यानाम् , विद्वानप्युपादेयतां निजाज्ञाया?, प्रत्यहमावेद्यमानप्रजानुरागोऽपि प्रणिधिपुरुषैरादेशसम्पादनपटीयसि श्रद्धेयवचसि नेदीयस्यपि मौलभृत्यवर्गे तासां सुस्थासुस्थोपलम्भाय केनाप्यनुप-- लक्ष्यमाणविग्रहः कुसुमायुध इवायुधद्वितीयः स्वयमेव निर्गत्य निशामुखेषु प्रतिगृहं नगर्यां बभ्राम [2] । किंवदन्तीशुश्रूषया च तत्र तत्र स्थाने सन्निविष्टा विशिष्टजनगोष्ठीर्जगाहे [द] । प्रतिश्रयकुटीषु च दिगन्तरागतपथिकसततसंघाधास्वढौकत [ध] । राज्यव्यापारकथाप्रक्रमे च पौराणामाशयपरीक्षार्थमवनीपतेरमात्यस्य . तदधिकृतानां च यथासम्भवं परिकल्प्य दोषानुदकीर्तयत्, तैश्च प्रशान्तनिखिलोपद्रवतया सर्वदा सुखितैः स्वामिसचिवाध्यक्षमिथ्यापरिवादश्रवणबद्धामरैंरप्रत्यभिज्ञानदोषेण परुषाक्षरमधिक्षिप्यमाणः परां मुदमुवाह नि]। टिप्पनकम्-विग्रहः-शरीरम् [थ ] । किंवदन्ती-जनवार्ता [५] । च पुमंः, पौरलोकपरितोषहेतोः पुरवासिजमसन्तोषार्थम् , निर्गत्य खराजधानीतो निःसृत्य, वसन्तादिषु बसन्तोत्सवादिकालेछु, सविशेषप्रवृत्तोत्सवां सविशेष-सातिशयं यथा स्यात्तथा, प्रवृत्तः-प्रस्तुतः, उत्सवः-समारोहो यस्या तादृशी नगरी स्वराजधानीम् , अपश्यत् पश्यति स्म [त] । अस्य कविशुद्धिसनिकृष्टस्य प्रकृतन्नृपस्य, निसर्गत एव जासु प्रजाः प्रति, पक्षपातपरवशा पक्षपातस्थ-प्रजापक्षपातावलम्बनस्य, प्रजाजनप्रीतेरित्यर्थः, परवशापराधीना, पूर्वपार्थिवातिशायिनी पूर्वपार्थिवानतिशेते अभिभवति या सा, पूर्वनृपापेक्षयोत्कृष्टेत्यर्थः, वृत्तिः चित्तवृत्तिः, आसीत् । कुतः १ यतः यस्माद्धेतोः, स राजा, विषयोपभोगसुखेषु कामिमीसम्भोगरूपसुखेबु, तथा तेन प्रकारेणं, प्रसक्तोऽपि उक्तरूपेण व्यासक्तोऽपि, अमात्यानां-मत्रिणाम् , जागरूकताम् अवधानशीलताम् , जाननपि निश्चिन्वन्नपि, निजाज्ञायाः खशासनस्य, उपादेयतां ग्राह्यताम् , आदरणीयतामित्यर्थः, विद्वानपि जाननपि, प्रणिधिपुरुषैः गूढचरपुरुषैः, प्रत्यहं प्रतिदिनम् , आवेद्यमानप्रजानुरागोऽपि आ समन्ताद्बोध्यमानप्रजासमवेतप्रीतिकोऽपि, आदेशसम्पादनपटीयसि आज्ञापालननिपुणतमे, श्रद्धेयवचसि श्रद्धेयं-श्रद्धायोग्यम् , विश्वसनीयमिति यावत्, वचन-वाक्यं यस्य तादृशे, मौलभृत्यवर्गे मूलादागतो मौलः परम्पराऽऽगतः, अथवा मूलं वेदेति मौलः, मूलाभिज्ञः, तादृशे भृत्यवर्ग सेवकसमूहे, नेदीयसि अतिनिकटे, अपि सत्यपि, तासाम् अनुपदवर्णितानां प्रजानाम् , सुस्थासुस्थोपलम्भाय सुस्थासुखेन स्थितिः, असुस्था-दुःखेन स्थितिः, तयोः, उपलम्भाय-ज्ञानाय, केनापि जनेन अनुपलक्ष्यमाणविग्रहः प्रच्छमतया राजकीयत्वेनाप्रतीयमानशरीरः, कुसुमायुध इव कामदेव इव, आयुधद्वितीयः आयुध एव न त्वन्यजनो द्वितीयो यस्य तादृशः, एकाकीत्यर्थः, खयमेव न त्वन्यप्रेरणया, निर्गत्य खभवनान्निःसृत्य, निशामुखेषु प्रदोषेषु, नगर्याम् अयोध्यायाम्, वभ्राम भ्रमति स्म [थ] । च पुनः, किंवदन्तीशुश्रूषया किंवदन्त्याः-जनश्रुत्याः, शुश्रूषया-श्रोतुमिच्छया, सत्र तत्र स्थाने अनेकस्थाने, सन्निविष्टाः सम्यगुपविष्टाः, विशिष्टगोष्ठीः उत्कृष्ट जनसभाः, जगाहे प्रविशति स्म [द]। च पुनः, दिगन्तरागतपथिकसततसंबाधासु दिगन्तरेभ्यः-अन्यदिग्भ्यः, आगतानाम् , पथिकानां-मार्गगामिनाम् । सतता-अविच्छिन्ना, संबाधा-सम्मेलनं यासु तादृशीषु, प्रतिश्रयकुटीषु प्रतिश्रयस्य-सभायाः, कुटीषु-तृणवर्णमयगृहेषु, अढौकत पथिकजनसत्कारार्थ गच्छति स्म [ध] 1 च पुनः, राजव्यापारकथाप्रक्रमे राज्ञो यो व्यापारः-कार्यप्रणाली, तत्कथाप्रक्रमे-तत्सम्बन्धिकथाप्रारम्भे, पौराणां पुरवासिनाम् , आशयपरीक्षार्थ हार्दिकभावाभिव्यञ्जनार्थम् , अवनिपतेः खस्य, अमात्यस्य सचिवस्य, तदधिकृतानां तदधिकारवर्तिनां कर्मकराणां च, यथासम्भवं सम्भवानुसारेण, दोषान् , परिकल्प्य परि-समन्तात् , कल्पयित्वा, उदकीर्तयत् प्रच्छन्नरूपतया उद्--उच्चैः, अकीर्तयत्-कथयति स्म, प्रशान्तनिखिलोपद्रवतया प्रशान्तः-प्रकर्षण शान्तः, निवृत्तः, निखिलः-सर्वः, उपद्रवः-बाधा येषां तस्य भावस्तत्ता तया, सर्वदा मुखितैः सुखमनुभवद्भिः, तैश्च पौरवासिभिस्तु, खामिसचिवाध्यक्षमिथ्यापरिवाश्रषणबद्धामः खामिनः
SR No.008455
Book TitleTilakamanjiri Part 1
Original Sutra AuthorN/A
AuthorDhanpal Mahakavi, Shantyasuri, Lavanyasuri
PublisherVijaylavanyasurishwar Gyanmandir Botad
Publication Year
Total Pages196
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy