________________
टिप्पनक - परागविवृतिसंवलिता
सचिवलोकोऽपि श्रुतत्वाद् धर्मशास्त्राणामपेक्षितत्वादतीत पुरुषव्यवहाराणामकर्कशत्वादाशयस्य परिज्ञातत्वाच्च प्रभुचित्तवृत्तेः परिहरन् प्रजाखेदमखिलान्यपि राजकार्याणि चक्रे [ प ] | एवं च राज्ञः परित्यक्तसकलभुवनचिन्ताभारस्य निर्यन समुपस्थितानन्तभोगलालितमूर्तेरतिमहा सागरमध्यगतस्य सुखनिद्रापरवशात्मनस्तत्कालमनवेक्षितयापि लक्ष्म्या सुचिरप्ररूढप्रणयानुरोधादमुक्तसन्निधेर्देवस्य दानवारेरिवातर्कित एव भूयाञ्जगाम कालः [फ ] । भूयसा च कालेन यत् किल लोके प्रसिद्धं विषयाणामपि प्रतिबद्धं पुण्यैरपि निष्पाद्यमिन्द्रियैरप्यास्वाद्यमैश्वर्येणापि भोग्यं महीभुजामपि योग्यमखिलमपि तत् प्रायेण जीवलोकसुखमनुबभूव, केवलमात्मजाङ्गपरिष्वङ्गनिर्वृतिं नाध्यगच्छत् समग्राण्यपि हि कारणानि न प्राग्जन्मजनित
छंद
टिप्पनकम् - अनन्तः - नागराजः, अनन्ताः - अपर्यन्ताः, अतिशयबृहत्समुद्रः, अन्यत्र रतिरेव महासागरः, सुखमेव निद्रा, अन्यत्र सुखहेतुर्निद्रा [ फ] ।
सचिवस्य च, अध्यक्ष- साक्षादेव, न तु कर्णाकर्णिकया, यत् मिथ्यापरिवादस्य - अवास्तविक निन्दायाः, श्रवणं तेन बद्धः - गृहीतः, अमर्षः - क्रोधो यैस्तादृशैः सद्भिः, अप्रत्यभिज्ञानदोषेण अप्रत्यभिज्ञानस्य प्रच्छन्नरूपतया राजत्वेनापरिचयस्य, दोषेण परुवाक्षरं कठोराक्षरं यथा स्यात्तथा अधिक्षिप्यमाणः भर्त्स्यमानः, परां प्रचुरम्, मुदं हर्षम्, उवाह प्राप, "अवर्णाऽऽक्षेप-निर्वाद-परिवादा ऽपवादवत्" इति, “कोप- क्रोधा ऽमर्ष रोष-प्रतिघा रुद्र- क्रुधौ स्त्रियौ” इति चामरः [ न ] | सचिवलोकोऽपि मन्त्रिजनोऽपि, धर्मशास्त्राणां श्रुतत्वात्, अतीत पुरुषव्यवहाराणाम् अतीताः - भूतपूर्वाः, ये पुरुषाः - पितापितामहादयः, तेषां व्यवहाराणां कार्यक्रमाणाम्, अपेक्षितत्वात् अनुसृतत्वात्, आशयस्य स्वचित्तस्य, अकर्कशत्वात् मृदुत्वात्, दयालुत्वादित्यर्थः, प्रभुचित्तवृत्तेः खामिमनोवृत्तेः, तदभिप्रायस्येत्यर्थः, परिज्ञातत्वात् समन्तात् परिचितत्वात् प्रजाखेदं प्रजादुःखम् परिहरन् परिवर्जयन्, अखिलानि सर्वाणि, राजकार्याणि चक्रे करोति स्म [ प ] | एवं च अनेन प्रकारेण च, परित्यक्तसकलभुवनचिन्ताभारस्य परित्यक्तः - सचिवोपरिनिक्षिप्तः, सकलभुवनचिन्ताभारः-समस्त पृथ्वीशासनचिन्तारूपभारो येन तादृशस्य, राज्ञः प्रकृतनृपतेः, दानवारेरिव दुनोरपत्यानि दानवा राक्षसाः, तेषामरिः- विष्णुः, तस्येव, निर्यत्नसमुपस्थितानन्तभोगलालितमूतैः निर्यनं- निरायासम्, समुपस्थिताः - सम्यगुपनताः, ये अनन्ताः - अनवधयः, भोगाः- सुखानुभवाः, तैर्लालिता- बिलासिता, मूर्तिः शरीरं यस्य तादृशस्य, पक्षे निर्यत्नसमुपस्थितः - वरिवस्यायै पातालतः स्वयमुपागतो यः, अनन्तः - शेषनागः, तस्य भोगैः - फणाभिः, लालिता - शाययित्वा विलासिता, मूतिर्यस्य तस्य, "शेषो नागाभिघोऽनन्तो द्विसहस्राक्ष आकुलः" "दव भोगः कटः स्फुटः" इत्यभिधानचिन्तामणिः, रतिमहासागरमध्यगतस्य रतिः- सम्भोगशृङ्गारः, स एव महासागरः, तन्मध्यगतस्य - तन्मध्यमनस्य, पक्षे अतिमहासागरगतस्य कल्पान्तकाले एकार्णवीकृते जगति शेषनागमास्तीर्य विष्णोर्योगनिद्रया शयनस्य पौराणिकेतिवृत्तरूपत्वात्, सुखनिद्रा परवशात्मनः सुखमेव निद्रा बहिरिन्द्रियवृत्तिनिरोधकत्वात्, पक्षे सुखेन शीतपवनस्पर्शेन या निद्रा, तत्परवशः- तदधीनः, तन्मम इति यावत्, आत्मा यस्य तादृशस्य, तत्कालं सुखोपभोगकालम्, पक्षे महासागरशयनकालम्, अनवेक्षितयापि सम्भोगव्यासङ्गात्, निद्राव्यासङ्गात् अदृष्टयाऽपि, लक्ष्म्या राजलक्ष्म्या, पक्षे खभार्यया, सुचिरप्ररूढप्रणयानुरोधात् सुचिरेण - अतिदीर्घकालेन, प्ररूढः - प्रवृद्धो यः, प्रणयः - राशि, पक्षे विष्णौ च प्रीतिः, तदनुरोधात्; अमुक्तसन्निधेः अमुक्तः-अत्यक्तः, सन्निधिः–सामीप्यं यस्य तस्य देवस्य राशः, पक्षे अमरस्य अतर्कित एव अनुपलक्षित एव, भूयान् अतिदीर्घः, काल, जगाम व्यतीतः [फ ] । भूयसा च अतिदीर्घेण च, कालेन, अखिलमपि सर्वमपि तत् तादृशम्, जीवलोकसुखं मर्त्यलोकसुखम् प्रायेण बाहुल्येन, अनुबभूव उपबुभुजे, कीदृशम् ? किल निश्चयेन यत् यादृशं सुखम्, लोके जीवलोके, प्रसिद्धम्, यच्च विषयाणामपि प्रतिबद्धं विषयविशेषैरपि नियन्त्रितम्, पुण्यैरपि सत्कर्मभिरपि निष्पाद्यं साध्यम्, इन्द्रियैरपि नेत्रादिभिरपि, आस्वाद्यम् अनुभावनीयम्, ऐश्वर्याणामपि प्रभुत्वैरपि, भोग्यं भोक्तुं योग्यम्, महीभुजामपि राज्ञामपि, योग्यम् उचितम्, केवलं किन्तु, आत्मजाङ्गपरिष्वङ्गनिर्वृतिम् आत्मजः पुत्रः, तदङ्गपरिष्वङ्गेन तदीयशरीरालिङ्गनेन, निरृति-सुखम्, न अध्यगच्छत् नान्वभवत् प्राग्जन्मजनितकर्मोदयक्षणनिरपे