________________
तिलकमञ्जरी।
कर्मोदयक्षणनिरपेक्षाणि फलमुपनयन्ति, यतोऽस्य नूतनेऽपि वयसि महत्यप्यन्तःपूरे बहुनापि कालेन नैकोऽप्युदपादि तनयः [ ब] | क्रमादतिक्रामति च यौवने जरठतालिह्यमानवपुषस्तरोरिव त्रुटति कुसुमेषुरसे पल्लवस्येवाविर्भवति वैराग्ये विवेकबलपीडितासु मकरध्वजध्वजिनीष्विव वितीर्णधर्मद्वारासु निर्गच्छन्तीषु मनसः कामिनीसमागमवाञ्छास्वपत्यमुखदर्शनं प्रतिनिराशस्य, 'राजन्! अध्वरस्वाध्यायविधानादानृण्यं गतोऽसि नः, पितृणामपि गच्छ' इति याचितप्रसूतेरिव प्रादुर्भूतधर्मवासनया सन्निहितैर्देवर्षिभिः, 'वत्स! निवापदानैरिदानीमायुष्मता सम्भाविताः स्म प्रभूतकालम् , अग्रतस्तु का गतिरस्माकम् ?' इति मुहुर्मुहुरुच्यमानस्येव स्वप्रेषु पितृभिः, 'तात! पूर्वपुरुषैरपि तावकैरियन्तं मार्गमानीताहम् , त्वयाप्यतिवृद्धाया मार्गदर्शको मे निरूपणीयः' इति प्रार्थितस्येव पश्चालनयेक्ष्वाकुपार्थिवसन्तत्या, 'शठ ! सर्वः कृतार्थीकृतस्त्वया, मम पुनराश्रयमात्रमपि
टिप्पनकम्-कुसुमेषु पुष्पेषु, रसे आर्द्रतायाम् , अन्यत्र कुसुमेपुरसे कामरागे, वैराग्ये रक्तस्वे विगतरागतायाम् । श्रुतिधर्मेण वेदधर्मेण [भ] ।
शाणि प्रारजन्मनि-पूर्वभवे, जनितानि-अनुष्ठितानि, यानि कर्माणि, तेषामुदयः-विपाकः, तस्य यत् क्षण-समयः, तन्निरपेक्षाणि-तदपेक्षारहितानि, समग्राण्यपि समस्तान्यपि, कारणानि, हि निश्चयेन न फलम् , उपनयन्ति प्रापयन्ति, अपि तु तदपेक्षाण्येव, तदेवोदाहरति कविः-यतः यस्माद्धेतोः, अस्य प्रकृतनृपतेः, नूतनेऽपि नवीनेऽपि, तनयोद्भावनक्षमेऽपि, वयसि, महत्यपि विपुलेऽपि, अन्तःपुरे राशीसमूहे, बहुनाऽपि दीर्घेणापि, कालेन, एकोऽपि, तनयः-पुत्रः, न उदपादि
कमात् कालक्रमेण, न तु रोगादिना, यौवने, अतिक्रामति च क्षीयमाणे सति तु, जरठतालिह्यमानवपुषः जरठतया-वार्धक्येन, लिह्यमानम्-आस्वाद्यमानम् , व्याप्यमानमिति यावत् , वपुः-शरीरं यस्य तादृशस्य, अस्य प्रकृतनृपतेः, चेतसि मुर्मुर इव अग्निविशेष इव, मर्मदाही हृदयदाहकः, पक्षे काष्ठसारांशदाहकः, चिन्ताज्वरः चिन्तारूपः सन्तापः, प्रादुरभवत् आविर्बभूव, कस्येव कस्मिन् कीदृशे सति कीदृशस्य ? तरोरिव वृक्षस्येव, कुसुमेषुरसे कुसुमेषुः-कामदेवः, तद्रसे-तदावेशे, पक्षे कुसुमेषु पुष्पेषु, रसे निर्यासे, त्रुटति क्षयति सति, पुनः पल्लवस्येव नवपत्रस्येव, वैराग्ये विषयवैतृष्ण्ये, पक्षे विशिष्टरक्तवर्णे, आविर्भवति प्रकाशमाने सति, मकरध्वजध्वजिनीष्विव कामदेवसेनाविवेत्युत्प्रेक्षा, कामिनीसमागमवान्छासु अङ्गनालिङ्गनलालसासु, विवेकबलपीडितासु विवेकः-विषयवासनायां दुःखजनकत्वबुद्धिः, तद्रूपबलेन, पीडितासु-पराहतासु, अत एव वितीर्णधर्मद्वारासु समर्पितस्वाक्रान्तधर्मरूपपरलोकद्वारासु, मनसः मनोरूपशिबिरात , निर्गच्छन्तीषु पलायमानासु सतीषु, अपत्यमुखदर्शनं प्रति पुत्रमुखावलोकनविषये, निराशस्य आशाशून्यस्य । राजन् ! मेघवाहननृपते !, अध्वरस्वाध्यायविधानात् अध्वराणा-यज्ञानाम् , खाध्यायस्यवेदपारायणादितपसश्च, विधानात्-अनुष्ठानात्,नः अस्माकम्, आनृण्यम् ऋणशुद्धिम् गतोऽपि प्राप्तोऽपि.पितणामपि पिता पितामहादीनामपि, आनृण्यं पुत्रादिद्वारा श्राद्धतर्पणादिना, गच्छ प्राप्मुहि, इति इत्येवंरूपेण, प्रादुर्भूतधर्मवासनया प्रकटितधर्मवासनावशेन मनसा, सन्निकृष्टैः, देवर्षिभिः देवैर्ऋषिभिश्च, याचितप्रसूतेरिय प्रार्थितापत्यस्येवेत्युत्प्रेक्षा । वत्स ! पुत्र !, निवापदानः निवापाः- पित्रुद्देशेन पिण्डादित्यागाः, तद्रूपदानैः, आयुष्मता दीर्घायुषा त्वया, प्रभूतकालं दीर्घकालम् , सम्भाविताः स्म वयं सत्कृताः स्म, सन्तोषिताः स्म इति यावत् , अग्रतस्तु अग्रे तु, अस्माकम् , का गतिः ? का स्थितिः स्यादिति, वनेषु खनदशासु, पितृभिः पितापितामहादिभिः, उच्यमानस्येव कथ्यमानस्येवेत्युप्रेक्षा, "पितृदानं निवापः स्यात्" इत्यमरः । तात ! पितः !, तावकैः त्वद्वंशजैः, पूर्वपुरुषैरपि त्वत्पितापितामहादिभिरपि, इयन्तम् एतावन्तम् , मार्ग खानुसृतन्यायपद्धतिम् , आनीता आरोपिता अहमस्मि, अतिवृद्धायाः अतिप्राची. नाया मे, त्वयाऽपि, मार्गदेशकः न्यायमार्गारोहकः, निरूपणीयः निश्चेतव्यः, पुत्र उत्पादनीयो यो मे मार्ग दिशेदित्यर्थः, इति अनेन प्रकारेण, पश्चाल्लुग्नया वपर्यन्ताविच्छिन्नधारया, इक्ष्वाकुपार्थिवसन्तत्या इक्ष्वाकुनृपापत्यपरम्परया, प्रार्थितस्येव कृतप्रार्थनस्येवेत्युत्प्रेक्षा । पुनः लब्धप्रसरया लब्धावसरया, श्रिया राजलक्ष्म्या, शठ! धूर्त !, त्वया सर्वः, क्रतार्थीकृतः कृतः-निध्पादितः, अर्थः-प्रयोजनं यस्य स कृतार्थः, अकृतार्थः कृतार्थः कृत इति तथा, मम तु आश्रय