________________
८०
टिप्पनक-परागविवृतिसंवलिता न सूत्रितं भवता क भूत्वा भविष्यत्प्रतिपक्षप्रतापातपकरालिता कालमतिवाहयिष्यामि मन्दभाग्या' इति सोद्वेगमुपालन्धस्येव लब्धप्रसरया श्रिया, 'नाथ! कस्यचित् काचिदस्ति गतिः, अहमेव निर्गतिका, कुरु यत् साम्प्रतं मदुचितम्' इति सखेद्या सन्तानार्थमभ्यर्थितस्येव भुजलमया भुवा, 'देव ! त्वद्वंश्येन गोत्रा विना कालान्तरे बलवदरातिहठविलुप्यमानाभिः शरणाय कः समाश्रयणीयोऽस्माभिः' इति विज्ञापितस्येव चित्तस्थिताभिः प्रजाभिः, 'सखे ! किं मया तव समीहितसिद्धथनुपयुक्तशक्तिना वृथैव स्थितेन, अनुजानीहि माम्' इत्यादृष्टस्येव श्लथीकृतोपगृहनं प्रयाता यौवनेन, 'विद्वन् ! किमपरैस्त्रातः, आत्मानं त्रायस्व पुंनाम्नो नरकात इति सोत्प्रासं शासितस्येव गुरुकृतेन श्रुतिधर्मेण, मर्मदाही मुर्मुर इव प्रादुरभवदस्य चेतसि चिन्ताज्वरः [भ] । येन प्रतिदिवसमासादितोदामप्रौढिना निदाघतपन इव निजतेजसा ताप्यमानो गुणानुरक्तयापि राजलक्ष्म्या दुर्भगाङ्गनयेव नारमत, मूलेऽतिमधुरेष्वपि विषयोपभोगसुखेषु काशस्तम्बेष्विव तृणबुद्धि वबन्ध,
टिप्पनकम्-मूले आदौ जटायां च । शरवर्ण कुमारस्य-स्कन्दस्य, उत्पत्तिकारणम् , अन्यत्र कुमारस्य-पुत्रस्य, पुष्प-कुसुममार्तवं च । सुतविभक्तभूभागान् पुनविभागस्थापितधरानदेशान् , अन्यन्न सुता इव वयः-पक्षिणः, तैः सेवितधरानदेशान् । वंशः-अन्वयो वेणुश्न [ म] 1
मात्रमपि केवल आश्रयोऽपि, न सूत्रितं न निष्पादितम् , भवता त्वया, क्व भूत्वा कुत्र स्थित्वा, कमाश्रित्येत्यर्थः, भविष्यत्प्रतिपक्षप्रतापातपकरालिता भविष्यतां-भाविमाम् , प्रतिपक्षाणां-विपक्षाणां नृपाणाम् , प्रतापातपेन-प्रतापरूपसूर्यकिरणेन, करालिता-ज्वालिता सती, अहं मन्दभाग्या भाग्यहीना, कालं समयम्, अतिवाहयिष्यामि अतिक्रमिध्यामि, इति अनेन प्रकारेण, सोद्धगं ससम्भ्रमं यथा स्यात्तथा, उपालब्धस्येव कृतोपालम्भस्येवेत्युत्प्रेक्षा। पुनः भजलग्नया खबाहुश्रितया, सखेदया खेदसहितया, भुवा पृथिव्या, नाथ ! खामिन् !, कस्यचित् अन्यस्य कस्यापि, काचित् अन्या कापि, गतिः निर्वाहोपायः, अस्ति, अहमेव, निर्गतिका निर्वाहोपायशून्या अस्मि, साम्प्रतम् इदानीम् , यद् मदुचितं यद् मम योग्यं पुत्रोत्पादनम् , तत् कुरु, इति अनेन प्रकारेण, सन्तानार्थ सन्तानहेतोः, अभ्यर्थितस्येव प्रार्थितस्येवे. त्युत्प्रेक्षा । पुनः चित्तस्थिताभिः भावनया मनोनिविष्टाभिः, प्रजाभिः, देव ! राजन् ! स्वदश्येन भववंशजेन, गोत्रा रक्षफेण, विना, कालान्तरे भवदभावकाले, बलवदरातिहठविलुप्यमानाभिः बलवद्भिः, अरातिभिः-शत्रुभिः, हठेनबलात्कारेण, विलुप्यमानाभिः-विपाद्यमानाभिः, अस्माभिः, शरणाय रक्षणाय, कः समाश्रयणीयः? सम्यगाश्रयणीयः? स्यादिति विज्ञापितस्येव । पुनः श्लथीकृतोपगूहनं शिथिलीकृतालिङ्गनं यथा स्यात्तथा, प्रयाता तदीयशरीरान्निर्गच्छता, यौवनेन यौवनावस्थया, सखे! सहवासबद्धसख्य !, समीहितसिद्धयनुपयुक्तशक्तिना समीहितस्य-अभिलषितस्य सन्तानस्य, सिद्धौ-निष्पत्ती, अनुपयुक्ता-अक्षमा, शक्तिः-सामर्थ्य यस्य तादृशेन, अतो वृथैव स्थितेन मया तव किम् न किमपीत्यर्थः, अतो माम् , अनुजानीहि प्रयातुमनुमन्यख, इति अनेन प्रकारेण, आपृष्टस्येव गृहीतानुमतिकस्येवेत्युत्प्रेक्षा। पुनः गुरुकृतेन गुरूपदिष्टेन, श्रुतिधर्मेण "पुनानो नरकाद् यस्मात् पितरं त्रायते सुतः। तस्मात् पुत्र इति ख्यातः” इति वैदिकधर्मेण, विद्वन् ! अपरैः अन्यैः, प्रातः रक्षितैः सद्भिः, किम् न किमपि, पुन्नाम्नः पुदिति नाम यस्य तस्मात् , नरकात , त्रायस रक्ष, इति अनेन प्रकारेण, सोत्प्रासं सोपहासम् , शासितस्येव कृतानुशासनस्येव [भ]। येन चिन्ताज्वरेण, प्रतिदिवसम्, आसादितोद्दामप्रौढिना आसादिता-प्राप्ता, उद्दामप्रौढिः-निरतिशयतीव्रता येन तादृशेन, निजतेजसा, निदाघतपन इष ग्रीष्मसूर्य इव, ताप्यमानः तापमवाप्यमानः सन् , गुणानुरक्तयाऽपि सन्धिविग्रहादितद्गुणलुब्धयाऽपि, पक्षे शान्त्यादिगुणानुरागिण्यापि, राजलक्ष्म्या राज्यसम्पदा, दुर्भगाङ्गनयेव कुरूपस्त्रियेव, न अरमत न रमते स्म । मूले आदौ, काशस्तम्बेष्विव काशः-तृणविशेषः, तत्काण्डेष्विव, पक्षे मूलप्रदेशे, अतिमधुरेष्वपि अति. प्रियेष्वपि, विषयोपभोगसुखेषु कामिन्यादिसम्भोगसुखेषु, तृणबुद्धि तृणवदसारत्वबुद्धिम् , पक्षे तृणत्वबुद्धिम् , चबन्ध