________________
तिलकमञ्जरी।
८१ कुमारोत्पत्तिकारणभावं प्रतिपद्यमानमप्यन्तःपुरमफलपुष्पतया शरवणमजीगणत्, सुतविभक्तभूभागान केवलमतिक्रान्तयार्थिवान् गिरीनपि बह्वमन्यत, दृष्टवंशवृद्धिषु न नाम स्वबान्धवकुलेषु धर्मारण्येष्वपि दृष्टिं ददौ, अपत्यपरिवारनिर्वृतेभ्यो न परं पौरेभ्यः पशुभ्योऽपि स्पृहयाञ्चकार [ म], तस्य च राज्ञः सकलभुवनाभिनन्दितोदया द्वितीयाशशिकलेव द्वितीया [य], नाभिचक्रादपि गम्भीरेण कुचमण्डलादप्युनतेन जघनस्थलादपि विशालेन भुजलतायुगलादपि सरलेन कपोललावण्यादपि स्वच्छेन मदनविलासकलहंसमानसेनेव महतामाहितप्रमोदा मानसेन [२], निधानेन गुणानां प्रधानेन सर्वालङ्काराणामतिदुरापेनेतरप्रमदाभिः
टिप्पनकम्-द्वितीया भार्या द्वितीया-तिथिश्च [य]। हृद्-हृदयं चित्तं च ल]।
द्रढयामास । पुनः स राजा कुमारोत्पत्तिकारणभावं कुमारस्य-पुत्रस्य, उत्पत्तिकारणभावम्-उत्पत्तिकारणताम् , प्रतिपद्यमानमपि प्राप्नुवदपि, कुमारोत्पत्तिं प्रत्यन्तःपुरस्य कारणत्वेऽपीत्यर्थः, शरवणं तु कुमारस्य-स्कन्दस्य, उत्पत्तिकारणतां प्रापत् , तत्रैव तस्योत्पत्तेः पुराणप्रसिद्धत्वात् , अन्तःपुरं राज्ञीसमाजम् , अफलपुष्पत्तया अफलं-पुत्ररूपफलरहितम् , पुष्पंरजो यस्य, पक्षे अविद्यमाने फल-पुष्पे यस्मिन् , तस्य भावस्तत्ता तया, तद्रूपसाधारणधर्मेण, शरवणं शराणां-तृणविशेषाणाम् , 'वनम् , तद्रूपेणेत्यर्थः, अजीगणत् गणयति स्म । पुनः स राजा सुतविभक्तभूभागान् सुतेभ्यः-पुत्रेभ्यः, विभक्ताःविभज्य दत्ताः, भूभागाः-पृथिवीखण्डा यैस्तादृशान , केवलम् , अतिक्रान्तपार्थिवान् प्राचीनद्वपतीन् न, अपि तु सुतविभक्तभूभागान् सुतानां-पार्थिवानाम् , विभक्ताः-विभागपूर्वक निर्णीताः, भूभागा येभ्यस्तादृशान् ,भूभागविभागावधिभूतानित्यर्थः, “सुतः पुत्र-महीभुजोः" इति शाश्वतः, यद्वा सुता इव वात्सल्यास्पदतां गता ये, वयः-पक्षिणः, तैर्भक्ताः-श्रिताः, भूभागा येषां तादृशान् गिरीनपि, बहु सुक्षु यथा स्यात्तथा, अमन्यत मन्यते स्म, भाग्यशालित्वेनावगच्छति स्मेत्यर्थः । किञ्च दृष्टवंशवृद्धिषु दृष्टा वंशस्य-पुत्रपौत्राद्यपत्यवर्गस्य वृद्धिर्येषु तादृशेषु, नाम केवलं, स्वबान्धवकुलेषु खबन्धुजनकुलेषु न, अपि तु दृष्टवंशवृद्धिषु दृष्टा वंशानां वेणूनां वृद्धिर्येषु तादृशेषु, धर्मारण्येष्वपि तपोवनेष्वपि, दृष्टिं ददौ श्लाध्यत्वेन पश्यति स्म, “अन्वयो जननं वंशः," "वंशो वेणुर्यवफलस्त्वचिसारस्तृणध्वजः" इति चाभिधानचिन्तामणिः । अपत्यपरिवार निर्वतेभ्यः अपत्यानां-पुत्रादीनाम् , परिवारेण समूहेन, निवृते तेभ्यः-सुखिभ्यः, केवलं परेभ्यः स्वपुरवासिभ्यो न, अपितु तादृशेभ्यः पशुभ्योऽपि गोमहिषाजवराहादिभ्यः, स्पृहयाञ्चकार श्लाघनीयतया स्पृहयति स्म । अत्र सर्वत्र तुल्ययोगितालङ्कारः [म]। तस्य च प्रकृतस्य पुनः, राक्षः मेघवाहन नृपतेः, द्वितीया भार्या, “द्वितीया कथ्यते जाया" इति शाश्वतः, मदिरावती मदिरावतीनाम्नी, नाम वाक्यालङ्कारे, देवी कृताभिषेका राज्ञी, “देवी कृताभिषेकायाम्" इति हैमः, अभूत समपद्यत, सा कीदृशी? द्वितीयाशशिकलेव द्वितीयायास्तिथेः, शशिन:-चन्द्रस्य, कलेव-खण्ड इव, सकलभवनाभिनन्दितोदया सकलभुवनेन-सम्पूर्णभुवनेन, अभिनन्दितः- श्लाघितः, उदयः-उन्नतिः, पक्षे प्रकाशो यस्यास्तादशी [य] । पुनः मानसेन मनसा, महतां महापुरुषाणाम् , आहितप्रमोदा आहितः-जनितः, प्रमोदः-आनन्दो यया तादृशी, कीहशेन मानसेन ? नाभिचक्रादपि तस्या नाभिरेव चक्राकारकत्वाञ्चक्रम् , तस्मादपि-तदपेक्षयाऽपि, गम्भीरेण अतिगम्मीरेणेति यावत् , पराप्रवेश्येनेत्यर्थः, पुनः कुचमण्डलादपि तदीयस्तनमण्डलापेक्षयाऽपि, उन्नतेन परमोत्साहसम्पनेनेत्यर्थः, पुनः जघनस्थलादपि तदीयकटिपुरोभागादपि, विशालेन अतिविशालेन, शक्तिसाहससम्पनेनेत्यर्थः, भुजलतायुगलादपि भुजो लते इव दीर्घत्वादिति भुजलते, तयोर्युगलादपि-द्वन्द्वादपि, सरलेन अकुटिलेन, कपटरहितेनेत्यर्थः, कपोललावण्यादपि कपोलयोः-गण्डस्थलयोः यद् लावण्यं-कान्तिः, तदपेक्षयाऽपि, खच्छेन निर्मलेन, पुनः मदनविलासकलहंसमानसेनेव मदनः-कामदेवः, तद्विलासा एव कलहंसाः-"कादम्बास्तु कलहंसाः पक्षः स्युरतिधूसरैः" इत्युक्तलक्षणहसविशेषाः, तत्सम्बन्धिना मानससरोवरेणेवेत्युत्प्रेक्षा, कामदेवविलासकमनीयस्थानेनेत्यर्थः, [२]। पुनः कीदृशी ? शीलेन खभावेन सद्वृत्तेन वा “शीलं खभावे सद्धत्ते न" इति शाश्वतः, अलङ्कता विभूषिता, कीदृशेन ? गुणानां दयादाक्षिण्यादीनो गुणरत्नानाम् , निधानेन निधिभूतेन, सर्वालङ्काराणां समस्तभूषणानाम् , प्रधानेन "शीलं परं भूषणम्" इत्यभियुक्तोक्त्या मुख्येन, इतरप्रमदाभिः अन्यनारीभिः, अतिदुरापेण अतिदुर्लभेन, सर्वदा सदैव, हृदिस्थेन चित्तस्थेन,
११तिलक.