________________
८२
टिप्पनक - परागविवृतिसंवलिता
सर्वदा हृदिस्थेन हारेणेवापरेण परमशुद्धिशालिना शीलेनालङ्कृता | ल ], शीलसहचारिणा रूपेण विनयवता यौवनेन सौभाग्यसङ्गिना लावण्येन मौनकलितेन कलाकौशलेन प्रशमभाजा प्रभुत्वेन निपुणसेवकैरिव गृहीत - निजनिजालङ्कारैर्गुणैः सततमुपासिता [व], भाग्यसंपत्तिरिव सौभाग्यस्य, पुण्यपरिणतिरिव लावण्यस्य, संकल्पसिद्धिरिव संकल्पयोनेः, सर्वकामावाप्तिरिव कमनीयतायाः, निःस्यन्दधारेव शृङ्गारसुधाभृङ्गारस्य [श ], रङ्गशाला रागशैलूषस्य, ज्येष्ठवर्णिका रूपजातरूपस्य, अम्भोजिनी विभ्रमभ्रमराणाम्, शरत्कालागतिः केलिकलहंसीनाम्, वशीकरणविद्या मदनमहावातिकस्य, रससिद्धिर्वैदग्ध्यधातुवादिकस्य [ष], परां कोटिमारूढा स्वामिभावस्य सर्वदासत्त्वे स्थिता, असत्यमुक्ता स्वप्नेऽप्यजातस्वैरिणीसङ्गा, निरपत्या सततमुत्सङ्गेन
टिप्पनकम् - शैलूषस्य-नटस्य, महावातिकः - मन्त्रवादी, धातुवादिकः- रसवादी [ष]। सर्वदासत्वे कृतावस्थाना, अनृतरहिता च, निरपत्या या अपत्यरहिता सा कथं लालितापत्या ? अन्यत्र लालिता पालिता, केन ? पत्या भर्त्रा [स] ।
पक्षे हृदयाश्रितेन, अत एव अपरेण द्वितीयेन, हारेणेव हाररूपेणेवेत्युत्प्रेक्षा, परं शुद्धिशालिना परम् - अत्यन्तं यथा स्यात्तथा, शुद्ध्या पाखण्डादिराहित्येन शालते - शोभते, यत्तादृशेन [ल]। पुनः कीदृशी ? शीलसहचारिणा निरुक्तशीलानुसारिणा, रूपेण आकृत्या, विनयवत्ता औद्धत्यशून्येन, यौवनेन यौवनवयसा, सौभाग्यसङ्गिना पतिप्रीत्यास्पदेन, लावण्येन सौन्दर्येण, मौनकलितेन मुनेर्भावो मौनम्, अप्रतिपादनम्, स्वकर्तृकप्रशंसनाभाव इति यावत्, तत्कलितेनतदन्वितेन, कलाकौशलेन कलासु - शिल्पकर्मसु नैपुण्येन प्रशमभाजा प्रशान्तिशोभितेन, प्रभुत्वेन ऐश्वर्येण एतावद्भिः निपुण सेवकैरिव निपुणैः- चतुरैः, सेवकैः - भृत्यैरिव, गृहीत निजनिजालङ्कारैः गृहीतः - धृतः, निजनिजालङ्कारः - शीला दिरूपस्वस्वोत्कर्षकगुणान्तरं पक्षे केयूराङ्गुलीयकादिभूषणं यैस्तादृशैः, गुणैः अनुपदोक्तरूपयौवन-लावण्य-कला कौशल- प्रभुस्वरूपैः, सततं सर्वदा उपासिता सेविता । अत्रापि तुल्ययोगितैवालङ्कारः [व] । पुनः कीदृशी ? सौभाग्यस्य सौन्दर्यस्य शोभनैश्वर्यस्य वा भाग्य सम्पत्तिरित्र भाग्यसमृद्धिरिवेत्युत्प्रेक्षा, समृद्धभाग्ययोगेनैव सौभाग्येनाश्रयतया तस्या लाभात् । पुनः लावण्यस्य कान्तेः पुण्यपरिणतिरिव पुष्यफलमिव, पुण्यबलेनैव लावण्येन तादृशाधारलाभात् । पुनः संकल्पयोनेः संकल्पः - इच्छा, योनिः - उत्पत्तिकारणं यस्य तस्य, कामदेवस्येत्यर्थः, संकल्पसिद्धिरिव इच्छापूर्तिरिव । पुनः कमनीयसायाः स्पृहणीयतायाः, सर्वकामाषाप्तिरिच सर्वाभीष्टसिद्धिरिवेत्युत्प्रेक्षा, तदाश्रयलाभेनैव तत्सकलेष्टनिष्पत्तेः । पुनः शृङ्गारसुधाभृङ्गारस्य शृङ्गाररस एव सुधा तस्या भृङ्गारः- सुवर्णमयजलपात्रम्, तस्य तत्सम्बन्धिनी, निःस्यन्दधारेव प्रस्रवणधारेवेत्युत्प्रेक्षा “भृङ्गारः कमकालुका” इत्यमरः [ रा ] | पुनः राग शैलूषस्य नेहरूपनर्तकस्य, रङ्गशाला नाट्यशालारूपा । पुनः रूपजातरूपस्य स्वरूपात्मक सुवर्णस्य तन्मयीत्यर्थः, ज्येष्ठवर्णिका श्रेष्ठलेखनी । पुनः विभ्रमभ्रमराणां विलासरूपभ्रमराणाम्, अम्भोजिनी कमलिनीरूपा, तदाधारत्वात् । पुनः केलिकलहंसीनां क्रीडारूपहंसी विशेषा-. णाम्, शरत्काला शरत्कालिकी, मनोहरेत्यर्थः, गतिः गमनरूपा, शरत्काला गतिः शरत्कालस्य आगमनरूपा वा । पुनः मदनमहावार्तिकस्य कामदेव रूपगरुडोक्तमहा वार्तिकरूपागम सम्बन्धिनी, तत्प्रतिपादितेत्यर्थः, 'मदनमहावातिकस्य' इति पाठे महावातिको मन्त्रवादीति बोध्यम् । वशीकरणविद्या सर्ववशीकारिणी शक्तिः । पुनः वैदग्ध्यधातुवादिकस्य वैदग्ध्यं - विज्ञत्वमेव, धातुः - शारीरिकरसः तद्वादिकस्य तद्वादिनः, रसवादिनो जनस्येत्यर्थः, रससिद्धिरिव रसनिष्पत्तिरिके त्युत्प्रेक्षा [ष] ] । पुनः कीदृशी ! स्वामिभावस्य स्वामित्वस्य परां निरतिशयाम्, कोटिम् उत्कर्षम्, आरूढा प्राप्ता, सर्वस्वामित्वात् । “कोटिः स्त्री धनुषोऽग्रेऽश्री संख्या भेद- प्रकर्षयोः " इति मेदिनी, तथापि सर्वदासत्वे सर्वेषां भृत्यभावे, स्थितेति विरोधः - तदुद्धारे तु सर्वदा सत्त्वे साधुभावे, सत्त्वगुणे वा पराक्रमे वा स्थितेत्यर्थः । पुनः असत्यमुक्ता असतीभिः- दुराचारिणीभिः, अमुक्ता- सहिताऽपि, स्वप्नेऽपि स्वप्नावस्थायामपि, अजातखैरिणीसङ्गा अजात:- अभूतः, खैर. णीभिः-स्वेच्छाचारिणीभिः, दुराचारिणीभिरिति यावत् सङ्गः - संसर्गे यस्यास्तादृशीति विरोधः, तदुद्धारे असत्येन अलीकेन, मुक्तावर्जिता । पुनः निरपत्या सन्तानशून्याऽपि सततम् उत्सङ्गेन कोडेन, लालितापत्या उपलालितसन्तानेति
7
7