________________
तिलकमञ्जरी ।
लालितापत्या [स], समस्तान्तः पुरशिरोरत्नभूता मदिरावती नाम देव्यभवत [ह], यस्याश्च पुरतो विशुद्धाचारायाः सुरापगेति लोके लब्धसम्भावना पावनतया न परभागं प्राप गङ्गा, प्रीतिप्रतिपक्षभूता सकललोकम्पूणदर्शनायास्तृणगणनायां रतिः, अधिकमलमात्मानं धारयन्ती शुचितया न कापि सरस्वती, मकरध्वज विनाशहेतुः सौभाग्यभङ्गिविचारे रेणुरचलकन्या, धनविसरकृतार्थीकृतप्रणयिसार्थाया गत्यभावेन गृहीतरत्नाकरवेला कलयापि न समाना मेदिनी, पर्यन्तज्वलितरत्नदीपमहार्हतल्पशायिन्या निशि तमसि पट्टमधिशयाना मलेशेनापि सदृशविभवा बभूव राज्यलक्ष्मीः [ क्ष ] |
टिप्पनकम् --- सुरापगेति मद्यनदीति, यद्वा मद्यपगामिनीति, परभागं शोभाम् । प्रीतिप्रतिपक्षभूता प्रीतिशत्रुभूता । अधिकमलं बहुतरदोषम्, अन्यत्र पद्माश्रित्य [ पद्ममाश्रित्य । रेणुः धूलिः, अन्यत्र गौरी । गत्यभावेन निर्वाहाभावेन गमनाभावेन, बेला - अङ्गुलिखण्डनं समुद्रपर्यन्तभूमिश्च । निशि तमसि रात्रावन्धकारे, पठ्ठे फलकम्, अन्यत्र निशितं तीक्ष्णम्, असिपट्टे खालताम् [ क्ष ] ।
`विरोधः, तदुद्धारे तु पत्या भर्त्रा उत्सङ्गेन लालितेति व्याख्येयम् [ स ] । पुनः समस्तान्तः पुरशिरोरत्नभूता सम्पूर्णराज्ञीमण्डलमौलिमणिः [ह] । च पुनः विशुद्धाचारायाः पवित्र चरित्रायाः यस्याः मदिरावत्या राज्ञ्याः, पुरतः अग्रे, गङ्गा तन्नाम्नी स्वर्णदी, पावनतया पवित्रताप्रयुक्तम्, परभागं गुणोत्कर्षम्, न प्राप प्राप्तवती, "परभागो गुणोत्कर्षः प्राग्भारोऽतिशयो भरः" इति वैजयन्ती, कुतः ? यतः सा सुरापगा सुरां मदिरां पिवन्तीति सुरापाः, तान् गच्छति अनुगच्छतीति तथा, मद्यपानुगामिनीत्यर्थः, यद्वा सुरायाः - मदिरायाः, आपगा नदीति सुरापगा, इति एवंस्वरूपेण, लोके जनतायाम्, लब्धसम्भावना सम्भाविता, वस्तुगत्या तु सुराणां देवानाम्, अपां समूहः- आपः, समुद्रः, तं गच्छतीति आपगा नदीति सुरापगा, देवनदीत्यर्थः, इति एवंरूपेण, लोके लब्धसम्भावना प्राप्तप्रतिष्ठेति बोध्यम्, “स्रवन्ती निम्नगाऽऽपगा” इत्यमरः । पुनः सकललोकम्पृणदर्शनायाः सकलान् लोकान् पृणाति सुखयतीति सकललोकम्पृणम्, तादृशं दर्शनं यस्यास्तादृश्याः, यस्या मदिरावत्याः पुरतः प्रीतिप्रतिपक्षभूता प्रीतेः- प्रेम्णः, प्रतिपक्षभूता-शत्रुभूता, प्रेमविघातिनीति यावत्, रतिः कामदेवपत्नी तृणगणनायां तृणसंख्यायाम्, तृणमिव तुच्छेत्यर्थः, वस्तुगत्या तु प्रीतिप्रतिपक्षभूता प्रीतिः - कामदेवभार्या, तस्माः प्रतिपक्षभूता - सपत्नीरूपेत्यर्थो बोध्यः । “प्रीतियोगान्तरे प्रेम्णि स्मरपत्नी- मुदोः स्त्रियाम्” इति मेदिनी । पुनः अधिकमलम् अधिको मलो यस्मिंस्तादृशम्, लज्जयाऽतिमलिनमित्यर्थः, आत्मानं "कलेवरे प्रयत्ने च स्वभावे परमात्मनि । स्वान्ते धृतौ मनीषायामात्मानं कवयो विदुः” । इति शाश्वतोक्तस्वरूपम् धारयन्ती, सरस्वती तन्नात्री वागधिष्ठात्री देवी, यस्या मदिरावत्याः पुरतः, न काऽपि गणनानर्हा, तुच्छेत्यर्थः, वस्तुगत्या तु अधिकमलम् कमले आत्मानं धारयन्ती निवसन्तीत्यर्थः । पुनः सौभाग्यभङ्गिविचारे सौन्दर्यविच्छित्तिविचारे सौन्दयोंत्कर्षविचारे वा, "भङ्गिस्तु व्याकृतिः खेदो निर्वेदो घटना घटा" इति वैजयन्ती, अचलकन्या पार्वती, यस्या मदिरावत्याः पुरतः, रेणुः धूलिः, तद्वत्तुच्छेत्यर्थः कुतः ? यतः 'सा मकरध्वजविनाशहेतुः मकरध्वजस्य - सौभाग्यसम्राजः कामदेवस्य विनाशे - भस्मसाद्भवने हेतुः । तपस्यतोऽपि शिवस्य हृदि पार्वतीपरिणयार्थ कामविकारमुद्भावयन् कामदेवः सपदि शिवेन खतृतीयनेत्रामिना भस्मसाद्भावीति पौराणिकमिति वृत्तमत्रानुसन्धेयम् । पुनः धनविसरकृतार्थीकृतप्रणयिसार्थायाः धनविसरेण-धनसमूहेन, विपुलधनेनेत्यर्थः, कृतार्थीकृतःसन्तोषितः, प्रणयिसार्थ :- स्नेहिवर्गो यया तादृश्याः यस्याः मदिरावत्याः पुरतः, गत्यभावेन खनिर्वाहाभावेन, अन्यत्र गमनाभावेन वा, गृहीतरत्नाकरवेला गृहीतः स्वीकृतः, रत्नाकरे--रत्नखनौ, वेला कालो यया तादृशी, रायाचनाय रत्नखनिं गतवतीत्यर्थः, मेदिनी पृथ्वी, कलया लेशेनापि न समाना न तत्तुलनार्हा, वस्तुगल्या तु गृहीतः - प्राप्तः, रत्नाकरवेला - समुद्रतटः स्वसीमारूपेण ययेत्यर्थः । पुनः पर्यन्तज्वलित्तरत्नदीपमहार्हतल्पशायिन्याः पर्यन्ते-पार्श्वे, ज्वलितः - दीप्तः, रत्नदीप:पर्यङ्कतम्भभूतरत्नरूपो दीपो यस्य तादृशे, यद्वा पर्यन्ते ज्वलन्तो रत्नदीपा रत्ननिर्मिता दीपा यत्र तादृशे महार्हतल्पे - बहुमूल्यकरत्नमयपर्यङ्करूपशय्यायाम्, शयितुं शीलं यस्यास्तादृश्याः यस्या मदिरावत्याः पुरतः, निशि रात्रौ तमसि अन्धकारे, पट्ट